________________ शत्रुञ्जय-कल्पवृत्ती धिका पार्थान् न दास्यते / / अन्येधुरेकडे भिल्लो-ऽभ्येत्य द्रोणस्य सन्निधौ / याचते स्म धनुर्वेद-विद्या सोऽपि न दत्तवान् / / द्रोणं मृत्स्नामयं कृत्वा संस्थाप्य द्रुतले वने / तत् पुरः साधयन् मिल्लो विद्याविदजनि क्षणात् // एकदे गुरुभक्तः स-नेवं शिक्षन् कला वने / विध्यति स्म तरोमौलि-स्थितं पत्रं मनोमतम् / / धनुर्वेदविदं भिल्लं दृष्ट्वा पार्थो जगौ गुरुः / धनुर्विद्या त्वयाऽदायि किं भिल्लायाधुना गुरो ! // द्रोणो जगौ न कस्मैश्चि-द्धनुर्विद्या मया ददे / अदर्शयत्ततः पार्थो मिल्लं धनुर्विदं गुरोः // द्रोणः पप्रच्छ तं मिलं गुरोः कस्यान्तिके त्वया / धनुर्वेदकलाऽशिक्षि ततो भिल्लो जगावदः / / मया मृत्स्नामयों मूर्ति तव कृत्वा तदग्रतः / शिक्षिता चोपविद्याऽसौ समेता साऽधुना मम / / स्वप्रतिज्ञाभिदाभीत्या द्रोणोऽङ्गुष्ठं तमर्थयत् / गुरुभक्त या ददौ भिल्लोऽङ्गुष्ठं छित्त्वा गुरोस्तदा // यतः—" जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते / गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः / / 1 // " केनाजितानि नयनानि मृगोङ्गनानां, को वा करोति रुचिराङ्गरुहान मयूरान् / कश्चोत्पलेषु दलसञ्चयमातनोति, को वा करोति विनयं कुलजेषु पुंसु / / विणए सिस्सपरिक्खा सुद्दडपरिक्खा य होइ संगामे / वसणे मित्तपरिक्खा दाणपरिक्खा य दुकाले / गुरुभक्तेविनाऽङ्गुष्ठं प्रक्षिपन् पूर्ववच्छरान् / भिल्लोऽजनि धनुर्वेद-कुशलो विमलाशयः // द्रोणोऽथ शिक्षयन् पार्थं राधावेधकलां किल / गदायुद्धं च कर्मीर-रिपुं दुर्योधनं तथा / अस्त्रक्षेपकलाखौ सहदेव-युधिष्ठिरौ / नकुलः शङ्कुलाविद्याः शिक्षन्तो गुरुसन्निधौ / / द्रोणाज्ञयाऽन्यदा धर्म-पुत्रादीन् निखिलान् सुतान् / आकार्य प्राह गाङ्गेयो यूयं दर्शयथ कलाः / दर्शयत्सु कलाऽभ्यासं तेषु भूपतिसू नुषु / भीमदुर्योधनौ क्रुद्धौ मिथो बाढमयुद्ध यताम् / भुजास्फोटपरो भीमो-ऽभेषयन् मनुजान् बहून् / गदोच्छालनिकां वर्या कलां समदर्शयत्तदा // गाण्डीवं कार्मुकं पार्थ-स्ताडयन् ध्वनिना तदा / संसदो निखिलाश्चक्रे चित्रालिखितचित्रवत् / / ततः पृथक् पृथक सर्वे दुर्योधनानुजास्तदा / स्वाः स्वाः कलाः कला गङ्गा-पुत्रायाऽदर्शयंस्तदा / तदा पाण्डुमहीपाला-दयो नत्वा गुरुं मुदा / पप्रच्छरर्जुनग्याभू-द्राधावेधकला कथम् // द्रोणो जगावयं पार्थो विनीतो भाग्यवान् पुनः / विद्यतेऽतोऽस्य सजाता राधावेधकला वरा // यतः- " विनयः राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् / अनृतं हातकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् // 1 // जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते / गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः // 2 // केनाग्जितानि नयनानि मृगाङ्गनानां, को वा करोति रुचिराङ्गरुहान् मयूरान् / कश्चोत्पलेषु दलसञ्चयमातनोति, को वा करोति विनयं कुलजेषु पुंसु // 3 / / विणए सिस्सपरिक्खा सुहडपरिक्खा य होइ संगामे / वसणे मित्तपरिक्खा दाणपरिक्खा य दुक्काले // 4 // " तदा कर्णोऽपि कल्याण -कलां प्रदर्शयन् स्वयम् / मोदमुत्पादयामास सर्वेषां तत्र संसदि / / सर्वेऽपि पार्थिवास्तेषां कलां वीक्ष्य पृथक् पृथग् / धूनयन्तः शिरांसीव प्रशशंसुर्यथोचितम् / / राधावेधकलां पार्थो दशयंस्तत्र संसदि / जयामास गाङ्गेय-प्रमुखान् मेदिनीपतीन् / / भ्रूसंज्ञया तदा नुन्नो दुर्योधनेन सूतसूः / उदस्थात् समरं कर्तुं पार्थेन सह निर्दयम् / / ध्मानयन् गगने ध्वान-(जास्फोटं सृजन भृशम् / अदर्शयत कलां स्वीयां कर्णस्तेषां महीभुजाम् / / कर्णस्य तादृशी वर्या धनुर्वेदकलां किल / दृष्ट्वा दुर्योधनश्चेदि-देशराज्यमदापयत् / / सूतपुत्राय काय दुर्योधनेन भूभुजा / दत्तां चम्पा निरीक्ष्याऽवक् पार्थो दुर्योधनं प्रति // नीचाय सुभटाय त्व-मदाच्चम्पापुरी कथम् / ततः कर्णोऽभवद्वेषी पार्थे वासवविक्रो // पाण्डुपुत्रेषु सर्वेषु प्रजाः प्रीतिजुषोऽभवन् / धृतराष्ट्रसुतेष्वासन् द्वेषयुक्ताः कुकर्मतः // पाण्डुर्विभज्य