________________ पाण्डवचरित्रम् कुन्त्यसूत सुतं पुष्प-वृष्टिरासीत्तदादि च // जन्मोत्सवं नृपः कृत्वा स्वप्ने धर्मावलोकनात् / धर्मपुत्रेति नामाऽदात् सूनोः सज्जनसाक्षिकम् / / भावी युधिष्ठिरो ह्येष इति व्योममरुद्राि / युधिष्ठिरेति नामाऽदात् पाण्डुः सुधर्मिणीसखः॥ कुन्ती स्वप्नेऽन्यदा वायुं स्वस्तरं फलितं पुनः / दृष्ट्वा पत्यो समं हर्ष ततानातीव मानसम् / / कुन्ती युधिष्ठिरं पुत्र-मसूताऽन्यं मनोहरम् / जनिष्यतीति श्रुत्वाऽथ गान्धारीति व्यचिन्तयत् / / कुन्त्याः पुत्रोऽभवद्वयों द्वितीयश्चेद्भविष्यति / तदा सूनोर्न मे राज्यं भविष्यति मनागपि / / वहत्यां मयि गर्भ तु वत्सरा बहवोऽभवन् / आसन्नप्रसवा कुन्ती दृश्यते किं करिष्यति ? // गान्धारी पातयन्ती तु गर्भ बहुमिरौपधैः / असून तनयं मासस्त्रिंशता पूर्णविग्रहम् // घृतमध्ये सुतं क्षिप्त्वा तं मासोन् षट् प्रयत्नतः। गान्धारी वर्द्धयामास कष्टेन पेटिकास्थितम् / अस्मिन् गर्भ स्थिते दुष्ट-युद्धध्यानाद्यभूद् दृढम् / अतो दुर्योधन इति नामासीत्तस्य तत्र तु / / कुन्ती दुर्योधनादर्वाक् त्रिभिर्यामैः सुतं वरम् / असूताऽतो नृपो जन्मो-त्सवं चक्रे पिता तदा / / तस्य वायुसुतेत्याह्वां पाण्डुर्भूमिपतिय॑धात् / क्रमात्तस्याभवन्नाम भीमो मीमाऽऽकृतिः क्षणात्॥ एकदा जननीहस्तात् पतितो वायुनन्दनः / शैलस्य शिखरान्माता तदोऽभू दुःखिनी भृशम् // रुदन्ती जननी शैला-दुत्तरन्ती दृषञ्चयान् / चूर्णीभतान् बहून् दृष्ट्वा दध्यौ मे तनयो मृतः // अक्षताङ्ग तदा भीमं रममाणं महीतले / आसाद्य जननी हृष्टा-ऽऽलिलिङ्ग च पुनः पुनः / / स्वप्ने सुरपति दृष्ट्वा कुन्त्यमूत सुतं पुनः / तस्य शक्रसुतेत्याह्वां ददौ राजा युधिष्ठिरः // धनुर्वेदकलाः सम्यग् जज्ञो तृतीयनन्दनः / अतो धनुर्धरेत्याहा जाता तस्य सुतस्य तु // नकुलः सहदेवश्च मया तु जनितौ सुतौ / तनयः पञ्च मः पाण्डु-बभौ भैरिव चन्द्रमाः / / धृतराष्ट्रस्य पुत्राणां दोष्मतां नवति क्रमात् / गान्धार्यसूत ते सर्वे पुत्रा जातो शतं ततः।। सुतैः शतमितै रेजे धृतराष्ट्रः सुविक्रमैः / चन्द्रः शतभिषक्तारै-रिव व्योम्नि समन्ततः / / नासिक्यनगरेऽन्येाः कुन्ती नन्तुं जिनान् गता / चन्द्रप्रभप्रभोश्चैत्य-मकारयन्नवं वरम् / / चन्द्रप्रभाहतो मूर्ति कुन्ती तत्र शुभेऽहनि / व्ययन्ती विभवं भूरि-मतिष्ठिपत् प्रमोदतः॥ दुर्योधनश्छलात् पाण्डून वश्चयन् खेलनैः सदा / तेषां राज्यं समीहानो रमन्ते म्म च तैः समम् / / दुर्योधनश्छलं ज्ञात्वा भीमो भीमाकृतिई ढम् / धार्त(धृत)राष्ट्रसुतान् शश्वत् कुट्टयामास हेलया / / सुप्त भीमं बलाद् दुर्योधनो बवा क्षिपद् जले। प्रबुद्धस्तु स ता रज्जू-स्रोटयामास लीलया / / दुर्योधनो विषं भोज्ये क्षिप्त्वा भीमाय दत्तवान् / तत् पीयूषमभूत्तस्य भीमस्य सुकृतोदयात् / / यद् यद् दुर्योधनो हन्तुं भीमायाऽथ ददौ रहः / तत्तद् वृथाsभवद् भीमे उपरे बीजवापवद् // दुर्योधनादयः पाण्डु-सुताः कर्णसमन्विताः / पित्रादेशात्कृपाचार्यो-पान्ते विद्या ललुः क्रमात् / / तेष्वभूतां धनुर्विद्या-दक्षी कर्णधनञ्जयौ / दुर्योधनोऽभवदाढं छलछद्मकलादिविद् / / क्रीडतां तु कुमाराणा-मनध्यायेऽन्यदाऽवटे / कन्दुको न्यपतत्ते तु न शेकुः कर्षितुं मनाम् // इतस्तत्रागतो द्रोणा-चार्योऽश्वत्थामपुत्रयुग् / कुमारान् व्याकुलान् वीक्ष्य प्राहेति तान् मृदुस्वरम् / / भवतां किं गतक वा कूपेऽस्मिन् पतितं किमु ? / प्रोचुः कन्दुकोऽस्माक-मिदानी पतितोऽवटे // द्रोणः शरैरनुस्यूत-पुखैः पुङ्खस्य दोनतः / कूपकण्ठस्थितो हस्ते जग्राह गेन्दुकं लघु // विज्ञाय कोविदं द्रोणं धर्मपुत्रादिनन्दनान् / धनुर्वेदस्य शिक्षाय तस्मै पाण्ड्वादयो ददुः // तेषु कर्णो धनुर्वेद-कलासु कुशलोऽजनि / ततोऽधिको धनुर्वेद-विज्ञोऽभवद् धनञ्जयः // छात्रेषु तेषु सर्वेषु धनुर्विद्यादिशालिषु / विक्रमे विनये द्रोणः पार्थं स बहुमन्यते // सर्वेषु प्रवरं पार्थं ज्ञात्वा द्रोणो गुरुर्जगौ / अतोऽन्यस्मै मया विद्याऽ.