________________ शत्रुजय-कल्पवृत्ती कस्त्वं नियन्त्रितः केन ? जगावथ नरः स च / / विद्याधरोऽनिलगति-रहं मे गेहिनी रमा / हताऽद्याशनिवेगेन खगेन सदने स्थिता / / अहं वालयितुं पत्नी धावंस्तत्पृष्ठितो हठात् / बद्धोऽत्र तेन लेभेऽथ दशामेवं. विधां नृप! // निष्कारणोपकारिणा मद्भाग्यादिह साम्प्रतम् / आगतेन त्वयाऽमोचि कष्टादस्मान्नरेश्वर ! // मम जीवितदाता त्व-मौषध्यौ द्वे गृहाण भो ! / मुद्रिकां कल्पितस्थान-नेत्री लाहि चाऽचिरात् / / त्वयाऽहं च स्मृतः कुर्वे सान्निध्यं तव सन्ततम् / इत्युक्त्वा स ययौ विद्या-धरः स्वीयपुरे रयात् / / इतः फलकभृत् पाण्डु- रूपमालेख्य कागदे / सूर्यपुरेऽन्धकवृष्णे-भूपस्य पुरतोऽमुचत् // राजा दृष्टवा तु तत्पाण्डु-रूपं ज्ञात्वा व्यचिन्तयत् / किमेष मदनो देवः किमश्विनीकुमारकः / / पितुरुत्सङ्गतः कुन्ती कन्या पाण्डोर्महीभुजः / रूपं ज्ञात्वा व्यधादेवं प्रतिज्ञा स्वीयचेतसि / / अस्मिन् भवे तु मे पाण्डु-भर्ता वैश्वानरोऽथवा / सलज्जा कथितुं शक्ता मातुः पितुः पुरश्च न / / दत्त्वा दानं नृपस्तस्मै चित्रकाराय ततक्षणात् / तं विमृज्य व्यधाचिन्तां राज्यसत्कां दिनोदये / / दुष्प्रापं तं वरं मत्वाऽन्यदा कुन्ती वने गता। निबध्नन्ती गले पाशं प्रोवाचेति पुनः पुनः / / मातरः कुलदेव्यो वा कुतोऽप्यानीय तं पतिम् / सद्यो मेलय चेदानी-मन्यथाऽहं मृता ध्रुवम् / / यावन्मुञ्चति पाशात् स्वं मत्तुं कुन्ती स्वयं कनी / तावन्मुद्राप्रभावेण पाण्डुस्तत्रागमद्वने // स्वं नाम गृह्णतीं तां च मत्वा पाण्डुनरेश्वरः / पाशं छित्त्वा जगादेति मा साहसपराऽभवः // अहं पाण्डुनृपस्ताव-कीनं रूपं निरीक्ष्य च / मुद्राप्रभावतोऽत्रागां वरीतुं तां नपाङ्गजे ! // ज्ञात्वा पाण्डुपतिश्चित्त-चिन्तितं समुपागतम् / अकारयंस्तयोः सख्यो गन्धर्वोद्वाहमञ्जसा / / तदेव सा ऋतुस्नाता-ऽऽलिङ्गिता भोगदानतः / कुन्ती पाण्डुमहीशेन गर्भ दधे शुभोदयम् / / कुन्ती प्राह पतिस्त्वं मे भवेऽस्मिन् करवै तथा / यथा मे जनकस्तुभ्यं दास्यत्युद्वाह योगतः // श्रुत्वा कुन्त्या वचो हृष्टः पाण्डुर्मुद्राभियोगतः / समेत्य स्वपुरं राज्यं कुरुते पालयन् प्रजाः / / इतः कुन्ती गृहे यान्ती गोप्यमानाऽऽमयच्छलात् / गर्भं सखीयुताऽन्येा-नन्दनं, सुषुवे सुखम् / / कास्यपेटयां शिशु क्षिप्त्वा हिया कुन्ती सती तदा / छन्नं प्रवाहयामास स्वर्नद्यामालिपार्वतः / / पेटी यान्ती मरुन्नद्या हस्तिनापुरसन्निधौ / सूतसारथिनाऽऽदायो-द्घाटितैत्य निजालये // तन्मध्ये बालकं कर्णं भरसुप्तं निरीक्ष्य सः। कर्ण इत्यभिधां दत्त्वा वर्द्धयामास पुत्रवत् / / सूतेन पाल्यमानोऽसौ कर्णः सूतसुतः सदा / लोकेन प्रोच्यते तस्माद् वल्लभोऽभूत्तयोस्तदा / / इतः कुन्ती जगौ मातुः पार्वे रहसि संस्थिता / मया पाण्डोर्गृहीतव्यः पाणिर्नान्यस्य कस्यचित् / / सुभद्रयोदितं पत्युः पार्वे कुन्तीसुतेप्सितम् / ततः कुन्तीमदात् पाण्डु-भूपायान्धकवृष्णिराट् // मद्रकक्ष्माभुजः पुत्री मद्रकी पाण्डुभूपतिः। परिणिन्ये लसल्लग्ने सत्स्वयंवरमण्डपे // इतो गन्धारविषये शकुनेर्धरणीभुजः / गन्धारीप्रमुखा अष्टौ पुत्र्यो जाता मनोहराः / / शकुन्यथ महीपालो गन्धोर्याद्याः सुताः समाः। सूत्सवं धृतराष्ट्राय भूपायादाच्छुभेऽहनि / / देवकक्षमापतेः पुत्रीं नाम्ना कुमुदिनी वराम् / परिणिन्ये लसल्लग्ने विदुरो मेदिनीपतिः / / धृतराष्ट्रस्य गन्धार्या पत्न्या गर्भे धृते सति / बभूवुर्दोहदा भूरि-जनसंहारकारकाः / / आरुह्य कुञ्जरं हन्मि विद्विषः समराङ्गणे / गुप्तौ क्षिपाम्यहं लोकान् वैरं कुर्वेऽरिणा समम् / / युग्मम् / तस्मिन् गर्भ तु गन्धारी नानंसीद् गुरुसज्जनान् / साहङ्कारात्तॄणं विश्वं विश्वं च मन्यते सदा / / इतः पाण्डुप्रिया कुन्ती स्वप्नेऽपश्यन्मरुद्दिरिम् / क्षीराब्धि भास्करं धर्मं मूर्तं ददर्श सुन्दरम् / / गर्भप्रभावतः कुन्ती धर्म सार्वोदितं वरम् / कुर्वाणा सन्ततं दानं ददावर्थिभ्य ईप्सितम् // ग्रहेषुच्चेषु भूयस्सु सुलग्ने. शोभनेऽहनि /