________________ पाण्डवचरित्रम विचित्रवीर्यभूपतिः / यतोऽस्या जननी जाता नाविकस्य कुलोद्भवा / / कमात्कस्यचिदास्यात्तु श्रुत्वैतत् स्वर्नतीभवः / दध्यौ किं भूधरा एते परिणेष्यन्ति कन्यकाः // कन्यकार्थमसङ्खयेषु भूपेषु मिलितेष्वपि / गङ्गापुत्रोऽहरत् कन्या-स्तिस्रः पश्यत्सु तेषु च / / क्रुद्धा भूमिधवास्ते तु शस्त्राण्यादाय वेगतः / अढौकन्त रणं कत्तुं समं गङ्गातनू भुवा / / भीष्मे बाणानसङ्खचातान् मुश्चमाने रिपून् प्रति / निश्चेष्टकाष्ठवज्जाताः पतिताश्च क्षितौ तके / / क्षणात् सचेतनीभूय गाङ्गेयं सबलं तदा / मत्वा नत्वा जगुस्तेऽतः किंकराः स्मो वयं तव / / ततः कारिनपो नत्वा गाङ्गेयं प्रोक्तवानिति / अपराधो मयाऽकारि यः सर्व क्षम्यतां त्वया / / एतास्तिस्रः सुता माम-कीनाः परिणयाधुना / गाङ्गेयोऽवग न मे कार्य कन्याभिब्रह्मचर्यतः / / कारिः प्राह मया कस्मै दास्यन्ते कन्यका इमाः / भीष्मोऽवग् वितराकार्य विचित्रवीर्यभू भुजे / / ततस्तेषु महीशेषु क्रियमाणेषु सूत्सवम् / कारिणा स्वसुता दत्ता विचित्रवीर्यभूभुजे // भुजानस्य महीशस्य भोगान् पत्नीषु तासु च / प्रत्येकमभनन् पुत्रा-स्त्रयस्तासां मनोहराः / / अम्बिका धृतराष्ट्राह्व-मम्बाला पाण्डुनन्दनम् / अम्बाह्वा विदुरं नाम्ना पुत्रं प्रासूत सदिने / / त्रयोऽपि नन्दना मातृपितृभ्यां पाठिताः क्रमात् / विनीता देवगुरुषु भक्ता आसन्निरन्तरम् / / स पुत्रो यः पितुभक्तः स पिता पुत्रमोदकः / तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः / / विचित्रवीर्यभूपस्य भुजानस्य सुखं रतेः / पत्नीभिः सह सजातो राजयक्ष्मा. मयस्तनौ / / दिने दिने क्षयं याति शरीरं तस्य भूपतेः / कुत्सनीयं च वपुर्जातं क्रमाज जुगुप्स ते जनः / / विचार्य सचिवाः सर्वे पाण्डुपृथ्वीपतिं व्यधुः / यस्य भाग्यं समस्त्युग्रं तस्य राज्यं भवेद्यतः / / पाण्डौं पाति महीं न्यायात् सुखिन्यो निखिलाः प्रजाः / बभूवुः सेवकाश्चापि साधवोऽपि सुखान्विताः / / पूजाहः स्वगुणैरेवं जायते मानवः खलु / यः सेवते जिनं भक्त्या पूज्यते सोऽरिभिः समम् // मधूत्सवेऽन्यदा पाण्डु-वनलक्ष्मी मनोहराम् / वीक्षितुं प्रययौ बाह्यो-द्याने फलितपादपम् / / राजादनाम्रकंकेल्लि-पुन्नागश्रीफलादयः / वृक्षाः फलभरैनम्रा नमन्ति च महीपतिम् / / आम्रवृक्षतले कश्चिन्नरः फलकमद्भुतम् / पश्यन् पुनः पुनदृ ष्टोऽकस्मात् पाण्डुमहीभुजा / / यावत्तति भूपालस्तावत्तत्फलकं द्रुतम् / वस्त्रेणाच्छादयामास स नरश्चकिताशयः / / राजाऽवक् तव पार्श्वे किं विद्यते वद कोविद ! / स तत् फलकं भूमीपालायादर्शयत्तदा / / तत्र रूप कुरङ्गाक्ष्याः कमनीयं महीपतिः / निरीक्ष्य धूनयन् शीर्ष दध्यावेवं स्वचेतसि / / अहो ! सर्वाङ्गसौन्दर्य-महो लवणिमा पुनः। अहो ! कान्तिभरः कश्चित् सहजोऽस्याः शरीरजः / / अस्या यः कुरुते पाणिपीडनं मानवः खलु / स एव इलाध्यते सर्वैः सुरासुरनरैरपि / / पाण्डुः प्राह नरोत्तंस ! कस्या इयं प्रतिकृतिः / सोऽभागीद्विद्यते सौर्यपुरं सुरपुरोपमम् / / तत्पाति नगरं भूपोऽन्धकवृष्णिर्नयाऽध्वना / दशाऽऽसन् सूनवस्तम्य समुद्रविजयादयः / / यतः --" समुद्रविजयोऽक्षोभ्यः स्तमितिः सागरस्तथा / हिमवानचलश्चैव धरणः पूरणस्तथा // अभिचन्द्रो वसुदेवो दशार्हाख्या दशापि ते / गुणैर्दश समानास्ते दशाह लक्षणे यथा / / पुत्रो कुन्यभिधा चारु-चतुःषष्टिकलानिधिः / रूपश्रीनिर्जितप्रीति-रतिदेवाङ्गनाsभवत् / / तस्यो रूपमहं वीक्ष्य फलके रुचिरेऽखिलम् / आलोक्याहं ततो रूपमलिखे पत्रके वरम् // धनं तस्मै नपो दत्त्वा लोत्वा तत्फलकं तदा / पश्यंस्तां वरितुं शश्वद्वाञ्छत्येव स्मरातुरः / / एकदा कानने गच्छन् पाण्डुः कीलकयन्त्रितम् / वरं कञ्चिदयोबाणै-विद्धं ददर्श मूच्छितम् // तदने पतितं सोऽसिं दृष्ट्वा कोशोदपाकरोत् / यदा तदौषधीयुग्मं साक्षरं दृष्टवान् मुदा / वाचयित्वाऽक्षरश्रेणी-मेकया तं नरं तदा / विशिल्यं विदधे भूपोऽपरया विगतव्रणम् / / स पुमान् मुत्कलीभूतः स्वस्थः पृष्टो महीभुजा /