________________ शत्रुअय-कल्पवृत्तौ महीशान्तेऽभ्येत्य नाविकजल्पितम् / व्यजिज्ञपत् ततो भूपः कृष्णाऽऽस्योऽजनि तत्क्षणात् / / ज्ञात्वैतत् स्वर्नदीपुत्रोऽभ्येय नाविकसन्निधौ / मत्पित्रे कन्यकेयं तु देहि नाविकसत्तम ! // इयं त्वन्नन्दिनी पूज्या मया गङगेव सन्ततम् / अहं तु रागवान् पूर्वमभवं संयमश्रियि // ममास्तु ब्रह्मचर्य तु यावज्जीवं तु नाविकः / अतस्त्वन्नन्दिनीपुत्रो राज्यश्रीभाग्भविष्यति / / अत्रार्थे तपनः साक्षी साक्षिणो निर्जराः पुनः / भूपः साक्षीवृ पसाक्षी कन्याऽतो दीयतां पितुः / / गायेनेति गदिते गाङ्गेयमस्तकोपरि / पुष्पवृष्टिं विधायोच्चैः-स्वरं वृन्दोरका जगुः / / चिरं त्वं जय गाङ्गेय ! ब्रह्मचर्यधरो ध्रुवम् / भीष्मं व्रतमिदं स्वर्गा-पवर्गसुखदायकम् / / भीष्मव्रतमलादेष ब्रह्मचर्य सुदुष्करम् / अतो भीष्माभिधाऽस्यास्तु वाणीत्यासीन्नभोध्वनि // यतः-" देवदाणवगंधवा जक्खरक्खस्सकिंनरा / बंभयारि नमंसन्ति दुक्करं जे करंति तं // 1 // " जो देइ कणयकोडिं अथवा कारेइ कणयजिणभवणं / तस्स न तत्तियपुन्नं जत्तिय बंभव्यए धरिए // 2 // कारण बंभचेरं धरंति भव्याउ जे विसुद्धमणा / कप्पम्मि बंभलोए ताणं नियमेण उबवाओ // 3 // " अकर्त्तव्यं नैव कर्त्तव्यं प्राणैः कण्ठगतैरपि / सुकर्त्तव्यं तु कर्त्तव्यं प्राणै: कण्ठगतैरपि // स्वर्गच्युतानामिह जीवलोके चत्वारि नित्यं हृदये वसन्ति / दानप्रसङ्गो विमला च वाणी देवार्चनं सद्गुरुसेवनं च / / नाविकोऽथ जगौ हृष्टः शृण्वस्यास्तु कुलादिकम् / इहैव भरते रत्न- पुरमासीन्मनोहरम् // तस्मिन्नासीन्नृपो रत्न-शेखरो न्यायमन्दिरम् / पत्नी रत्नवती तम्य शीलरत्नमणीखनिः / / सुस्वप्नसूचितां पुत्री लग्ने घटेऽतिशोभने / असूत सुखतो रत्न-वती पूर्वव रोहिणीम।। कश्चिद्विद्याधरः पूर्व-वरादत्पाटय तां कनीम / जातमात्रां विमुच्याशु यमुनासकतेऽगमत / / रत्नशेखरभूपस्य पुत्री सत्यवती त्वियम् / शान्तनोभूपतेः पत्नी भाविनीत्यभवत् खगीः / / इत्याकाशगिरं श्रुत्वा कन्यां नीत्वा स्वसद्मनि / अवर्द्धयमहं पुत्री-मिव सद्योऽन्नदानतः / / अतो व्योमभवां वाणां देवोक्तां जनकस्तव / सत्यां करोतु कन्याया अस्याः पाणिग्रहाद् द्रुतम् / / ततो गङ्गासुतो हृष्ठः कन्यावृत्तान्तमादितः / कथयित्वा पितुर्मोदं विदधे सात्त्विकाग्रणीः / / राजा सुतोदितं श्रुत्वा नानोत्सवपुरस्सरम् / पर्यणैषीत् सती सत्य-वती कन्यां शुभेऽहनि || गङ्गयेव पयोराशिः व्योमेव चन्द्रलेखया / मुद्रयेव वरं रत्नं सत्यवत्याऽशुभत् नृपः // क्रमोत् सत्यवती पुत्रावसूत शोभनेऽहनि / आद्यश्चित्राङगदो नाम्ना चित्रवीयोऽपरः पुनः / / तदा गुरुसमीपे तु श्रुत्वा पापद्धिजं फलम् / धर्मकृत्यानि कुरुते तैः पुत्रः सह भूपतिः / / यतः- " राजदण्डभयात्पापं नाचरत्यधमो जनः / परलोकभयान्मध्यः स्वभावादेव चोत्तमः / / 1 // " गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् / लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः / / पापद्धिविरतं कान्तं गङ्गा श्रुत्वा सुताननात् / सत्यवत्या समं प्रीतिं व्यधात्पत्युग़हागता / / पुत्रत्रयसखः पत्नीद्वयशाली तु शान्तनुः / शत्रुञ्जयादितीर्थेषु यात्रां चक्रे शिवाप्तये // शान्तनौ स्वर्गते भीष्मः सत्यसन्धः सुधर्मवान् / राज्येऽभ्यषिञ्चयच् चित्रा-ङ्गदं शान्तनुभूपतेः / / गाङ्गेयोक्तमनादृत्य चित्राङ्गदमहीपतिः / नीलाङ्गदेन सार्धं तु युद्धं वितनुते स्म स / / नीलाङ्गदो रणे क्रुद्धो न्यहच्चित्राङ्गदं नृपम् / भीष्मो नीलामदं निन्ये यमगेहं रणाङ्गणे // नीलाङ्गदं तु गाङ्गेयो गान्धर्वकुलसम्भवम् / प्रेषयाभास समामा-ङ्गणे यमनिकेतने / / चित्राङ्गदपदे भ्राता विचित्रवीर्यभूपतिः। स्वर्नदीसू नुनाऽस्थापि कुर्वता लसदुत्सवम् / / इतः कारिमहीशस्य पुत्र्यम्बालादिमाऽभवत् / अम्बालाला द्वितीया तु तृतीयाम्बालिकाभिधा / कारिणा कारिते तासां विवाहार्थं च मण्डपे / आकारिता नपास्त्यक्त्वा विचित्रवीर्यभूपतिम् / / हीनजातिभवो प्रषो