________________ पाण्डवचरित्रम् PAN मुपासकः / / 7 // प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति / तद्वधोत्थमघं सर्वो-वींदानेऽपि न शाम्यति / / 8 / / वने निरपराधानां वायुतोयतृणाशिनाम् / निघ्नन् मृगाणां मांसार्थी विशेष्येत कथं शुनः? // 9 / / दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त ! दूयते / निमन्तून् स कथं जन्तू-नन्तयेन्निशितायुधैः" // 10 // गङ्गायाः सू नुनैवं तु निषिद्धोऽपि च शान्तनुः / प्रावर्तत पशून् हन्तुं मृगयारसलम्पटः / / विधायाधिज्यमिष्यासं टणत्कारं दृढं स्वरम् / तथा गङ्गासुतश्चक्रेऽनेत्सुश्च पशवो यथा // सिंहनादं दृढं कुर्वस्त्रासयन् नृपसेवकान् / व्याधांश्च शान्तनूपान्तं ययौ गङ्गातनूभवः / / कोपाच्छान्तनुभूपालो धन्वी रणप्रियस्तदा / युद्धायाकारयद् गङ्गा-सुतं दोर्बलगर्वितः / / गाङ्गेय-शान्तनू कोपा-विष्टौ रणरसप्रियो / युयुधाते मिथो बाण-मोक्षणे शमनाविव / / पुत्रकान्तौ मिथो युद्धं कुर्वाणो रणे तदा / विज्ञायैत्य जगौ गङ्गा सुतस्य पुरतो धुरि / / अयं तव पिता पुत्र! शान्तनुर्मेदिनीपतिः / तेन पित्रा समं युद्धं कर्त्त न युज्यते मनाम् // गङ्गा गत्वा ततः पत्युः पार्वे जगाविदं स्फुटम् / अयं ते नन्दनस्तेन समं युद्धं वरं न हि / / ततो गङ्गासुतश्चापं मुक्त्वा-ऽनमच्छिरस्तदा / ययौ यावत्पिता तावत् सम्मुखं समुपागमत् / / गाङ्गेयोऽभ्येत्य तातस्य चरणावलुठत् यदा / तदा दोभ्यां समालिङ्गया-चुम्बत्पुत्रं मुखे पिता / / शान्तनुः प्राह पत्नि ! त्वं ससुता साम्प्रतं द्रुतम् / अङ्गीकुरु निजं राज्यं यतस्त्वमसि वल्लभा / / ततो गङ्गा जगौ स्वामिन् ! प्रतिज्ञा या कृता त्वया / हिंसता भवता जीवान् लुप्ता सा साम्प्रतं ध्रुवम् // या हिंसा विद्यते श्वभ्र-तिर्यग्गतिप्रदायिनी / त्वया त्यक्ता न सा तेन नाहमेमि तवालये / अयं पुत्रस्तव मया वर्द्धितः स्वन्नपानतः / त्वपितुस्तवोपान्ते तिष्ठताद् विनयान्वितः / / त्वया त्यक्तुं न शक्येत हिंसा जीवाभिघातिनी / तेनादेशं पितुर्गेहं स्थातुं मे वितराऽधुना / / गङ्गायास्तु पितुर्गेहं स्थातुमाहाथ शान्तनुः / सतः शान्तनुभूमीशः ससुतः स्वपुरं ययौ / / पालयन्न्यायतो राज्यं रेजे पुत्रेण भूपतिः / दिवसेनेव मार्तण्डस्तटाकमिव वारिजैः।। अन्येद्युः शान्तनुस्ताा -रूढोऽगाद्यमुनातटे / दृष्ट्वा तस्याः प्रवाहं तु ध्यातवानिति चेतसि / / किमेषा भूस्त्रिया वेणि-स्तस्या एवाक्षिकज्जलम् / किं वाप्सरः कुचभ्रष्टा कस्तूरी वाम्बु. .धरः किमु ? / / किमस्या नीरमादाय वारिदः कज्जलप्रभः। तस्योत्सर्गात् पुनः श्वेतो जायते स शरहतौ ? / / नावारूढाऽबला दिव्य-रूपा काचिदगादितः / तां दृष्ट्वा भूपतिर्दध्यौ किमेषा यमुनासुरी / / मया चेत् क्रियते पाणि-ग्रहोऽस्या बरयोषितः / तदा मे सफलं जन्म जायतेऽस्याश्च निश्चितम् / / ध्यात्वेति भूधरोऽप्राक्षोत् कस्येयं विद्यते कनी / नाविकेशो जगौ पुत्री ममैषा गुणशालिनी / उक्तञ्च ग्रन्थान्तरे"विज्ञाताखिलशास्त्रौघा जङ्गमेव सरस्वती। सर्वलक्षणसम्पूर्णा लक्ष्मीरिव शरीरिणी / / 1 / दिव्योषधी वसन्तस्य सर्वरोगविघातिनी। कल्पवल्लीष गेहस्था दारिद्रयाद्रिविदारिणी / / निष्कलकेन्दुलेखेव गुरुकाव्यबुधाश्रया। द्यौरिवासदृशश्रेयोयुक्ता कुमारिकोऽगमत् / / त्रिभिर्विशेषकम् / / गतेषु नाविकेषु च गृहे भमिधवस्तदा / प्रेष्याऽमात्यान् कनी तां च ययाचे स्नेहपूर्वकम् / / कन्यापिता जगौ नीचा वय भूपतिरुत्तमः / समानकुलयोरेव विवाहः शोभतेतराम् / / मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोमिस्तुरगास्तुरङ्गः / मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनैश्च योगः / / 1 / / अमात्या जगदू राजा कनी नीवकुलोद्भवाम् / अङ्गीकुर्वन्ति कल्याण-मिवाशुचिस्थितं ननु // नाविकोऽवग नृपस्यास्य कुलीनाः सन्ति वल्लभाः / इयं नीचकुले आता-पमानं तु लभिष्यति // गङ्गापत्नीभवः पुत्रो गागेयोऽस्यास्ति शौर्यवान् / तस्य कालक्रमाद्राज्यं भविष्यत्येव निश्चितम् // मन्त्रीश्वरो