________________ शत्रुञ्जय-कल्पवृत्ती भूपतेः / आगतं शिबिरं हर्षा-ननाम शान्तनुक्रमौ // तदो जयजयारावा उच्चैर्याचकमानवाः उच्चरन्ति स्म भृत्याश्च नमन्ति स्म प्रभोः पदौ // ततस्त्वागमनोदन्तं तेभ्यः प्रोक्त्वा नरेश्वरः / सप्रियः कुञ्जरारूढः स्वपुरं समुपागमत् // गते कियति काले तु गङ्गा सत्स्वप्नसूचितम् / अजीजनत सुतं वयं रूपं शान्तनुरोहिनी / / पिता जन्मोत्सवं कृत्वा गाङ्गेय इति नाम तु / प्रददौ स च दीप्त्याभूत् सूर्यस्य सदृशः क्रमात् // यतः- " तेजोभिर्भास्कर इव कलाभिरमृतांशुवत् / कविः कवित्वकरणाद् बुधो विबुधवन्पुनः / / 1 // " गुरुवत् सर्व विद्यावि-न्मङ्गलो मङ्गलाकृतेः / असत्कर्मणिमन्दोऽभूद् गाङ्गेयः शान्तनूद्भवः / / गङ्गाऽवग पते ! त्वं तु पापर्द्धिव्यसनं त्यज / पापद्धर्या लभतेऽमुत्र परत्रासुखसन्ततिम् // वार्यमाणोऽपि पापर्द्धि शान्तनुर्न यदाऽत्यजत् / तदा गङ्गा जगौ श्वभ्रं व्यसना. ज्जायते नृणाम् // द्यतं च मांसं च सुरा च वेश्या पापर्द्धिचौथै परदारसेवा / एतानि सप्त व्यसनानि लोके घोरातिघोरं नरकं नयन्ति / / वैरं वैश्वानरं व्याधि-वादव्यसनलक्षणाः / महानाय जायन्ते वकाराः पञ्च वर्द्धिताः // एवं प्रोक्तो यदाऽमुञ्चद् व्यसनं न हि शान्तनुः / तदाऽऽदाय सुतं गङ्गा ययौ तातनिकेतने // वनाद् गेहं समायातः शान्तनुः ससुतां प्रियाम् / अप्रेक्ष्य मूर्छितो लब्ध-चेतन्योऽथं स जगावदः / / गङ्गेऽनङ्गेन रङ्गेण मदङ्गं तीक्ष्णसायकैः / तक्ष्यमाणं कथं दृष्ट्वो-पेक्षसे क्षत्रियाण्यसि // त्वं विनाऽद्य मम प्राणाः करिष्यन्ति प्रयाणकम् / अतोऽभ्येत्य स्थिरीकर्ते प्राणांस्त्वमेषि साम्प्रतम् / / अमात्या जगदुः शोकवायुभिरस्थिरैः किमु / बाध्यसे साम्प्रतं भूपः यतः स्युर्मेरुवत् स्थिराः / / संयोगा देहिनां नित्यं भवन्ति न भवन्ति च / तत्कृते कः सुधीहर्ष-शोकाभ्यामपि बाध्यते // धर्मशोकभयाहार-निद्राकामकलिक्रुधः / यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी // पापर्द्धित्यजने चक्रे प्रतिज्ञा या प्रियाsप्रतः। त्यक्ता सा च त्वयेदानीं तेन त्वामत्यजत्प्रिया / इत्थं वचनयुक्त्यानु-बोधितः शान्तनुनपः / अमु. चद् बाह्यतः शोकं नान्तरङ्गं मनागपि / / चतुर्विशतिरब्दानि विना पत्न्या तया तदा / दुःखितः शान्तनुश्चित्तें शोकव्याप्तोऽत्यवाहयत् / / इतो गङ्गा पितुर्गेहे स्थिता गाङ्गेयनन्दनम् / वर्द्धयामास सुष्ठ्वन्न-पानदानेन सन्ततम् // गुरुपार्वे कलाः शिक्ष-यित्वा गङ्गातमूभवः / अधीयानो धनुर्विद्यां सम्पूर्णां ज्ञातवान् क्रमात् / / आषाढो जलधाराभिर्यथा वर्षति लक्षशः / तथा गङ्गासुतो बाणधोरणीभिश्च वर्षति / / सर्पशास्त्राब्धिपारीणो गाङ्गेयो गुरुसन्निधौ / धर्म शृण्वन् दयामूल-मभूद्विरागवान् हृदि // गाङ्गेयः सुगुरोः पार्वे धर्मं शृण्वन् सदादरात् / गङ्गातटे वने याति देवं नौतितमा पुनः // इतस्तु शान्तनुभूपो भूरिभृत्ययुतो भ्रमन् / गङ्गाकूलस्थकक्षान्त-रागात् पापड़िहेतवे / / भ्रमणैर्भषणानां तु व्याधानां हक्कितारवैः। तद्वनं व्याकुलं जातं नानापशुभिराश्रितम् // वेष्टिता अपि नश्यन्ति केचित् तत्र पशूत्कराः / केचिद्विद्धाः शरैः प्रापुर्हतो यमनिकेतनम् / / त्रस्यन्तो हरिणा व्योम्नि चन्द्राङ्कस्थं मृगं तदा / उत्पतन्ति स्म वेगेन मिलितुं तत्र कोनने // निघ्नन् पशून् बहून् राजा शान्तनुस्तत्र कानने / गाङ्गेयेनेक्षितो भक्त्या नतः प्रोक्तस्तदेति च // राजंस्त्वमसि लोकानां पालको न्यायमार्गतः। अतस्त्वयाऽखिला जीवा रक्षणीयास्तु विघ्नतः॥ यतः- "क्षत्रियाः सागसो जन्तून् प्रन्ति नैव निरागसः। निरागसस्ततस्त्वं तु कर्थ हनसि साम्प्रतम् // 1 // पङ्गुकुष्ठिकुणित्वादि दृष्ट्वा हिंसोफलं सुधीः / निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् // 2 // आत्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये / चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नोचरेत् // 3 // निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि / हिंसामहिंसाधर्मज्ञः काझन् मोक्ष