________________ पाण्डवचरित्रम् व्यापल्लताधूमरी / हर्षोत्कर्षशुभप्रभावलहरी भावद्विपां जित्वरी, पूजा श्रीजिनपुङ्गवस्य विहिता श्रेयस्करी देहिनाम् // 2 // " अस्याश्चेस्क्रियते पाणिग्रहोऽत्र तेन भभुजा / तदा पितुश्च मातुश्च प्रमोदो जायते भृशम् / / हयाऽऽकृष्ट इहायातस्त्वमेवाद्य नरेश्वर ! / अतः शान्तनुभूपस्त्वं कुर्वस्याः पाणिपीडनम् / / श्रुत्वेति शान्तनुः प्राह सोऽहं स्यां धरणीधवः / रोचते यदि ते स्याच तदाशु भवतोदितम् // स्वासक्तं मानसं तस्य मत्वा जह्वसुता जगौ। वृणोम्यहं वरं तं च यो मे कथितकारकः // अहं तु धर्मविषयं यत्कार्यं कथयामि तु / तच्चेत्करोषि भूप! त्वं तदेष्टं तेऽस्तु सोम्प्रतम् / / तद्रूपमोहितो भूपः शान्तनुः प्रोक्तवानिति / यद्यत्त्वयोच्यते तत्तत् क्रियतेऽत्र मया ध्रुवम् // गङ्गयाकारितस्तत्र पिताऽऽगत्य च तत्क्षणात् / ददे शान्तनवे पुत्रों तस्मै ऋषभसाक्षिकम् / / जहनुः शान्तनवे कन्यां दत्त्वा प्रथमतीर्थपम् / प्रणम्य शान्तनुः पुत्री मुत्कलाप्य स्वपुर्यगात् / / इतः साधुद्वयं तत्रा-भ्येत्य नत्वा जिनेश्वरम् / बलानके स्थितं कर्वद जिनेन्दगणवर्णनम || शान्तनभपतिः प्राह यवां कस्मादिहागतो। तयोर्मध्ये जगावाद्य-साधर्मधुरया गिरा।। उज्जयन्ते गिरी सार्व-नेमिनं भक्तितस्तदा / नत्वा यावस्थितावावां व्यानं कत्तु वरात्मनि / / तावत्सूर्यकराकारं तेजःपुञ्जो दिशोदिशम् / उद्योतयन् समायातोऽनमन्नेमि जिनं नरः // ध्यानान्ते श्रीजिनस्याने तेजःपुञ्जः सुरो वरः / नमन् पुनः पुनर्देव-मावाभ्यां वीक्षितस्तदा / / ततश्चैकेन मुनिना पृष्टः कोऽसि त्वमत्र तु / स देवोऽवग् गिरेरस्यो-पान्ते सुग्रामनामनि / / क्षत्रियो भीमदेवाह्वो यात्रिकान् धर्मिणो नरान् / उपाद्रवंस्तदा द्रव्य-वसनाद्यपहारतः // तेषां हत्यांहसा लूता-रोगोऽङ्गे मे समागमत् / यदा न मे गतो रोगस्तदेको मिलितो मुनिः / / पठित्वा नव पूर्वाणि विहारं स महीतले / गुरूणामाज्ञया शश्यत् कुरुते स्म सदादरात् // “पडिवज्जइ संपुण्णो संघयणी धिइजुओ महासत्तो / पडिवज्ज जिणमयम्मि सम्मं गुरुणा अणुण्णाओ // 1 // गच्छेवि अ निम्माओ जा पुव्या दस चेव संपन्ना / नवमस्स तयवत्थू होइ जहन्नो सुयाभिगमो / / 2 // " इत्यादि श्रीआवश्यके / वन्दित्वा स मया पृष्टः कथं मे रुग्गमिष्यति / ज्ञानेनाऽऽलोक्य स ज्ञानी धर्महेतोजगावदः / / पूर्वं ऋषभदेवस्य नन्दनेनाऽऽदिचक्रिणा / कारित नेमिनः सद्म गिरिनाराभिधे गिरौ / नेमि पूजयतो रोगोऽहंसा सह प्रयास्यति / ततः स मानवो गत्वोज्जयन्ते नेमिमर्चति / नेमि पूजयतः पुष्पैर्भावात्तस्मिन् भवे मुदा / रोगस्तस्याङ्गतो यातो भूरिपापचयः पुनः // मृत्वा तस्माद् भवान्नेमि-नाथपूजाप्रभावतः / ईदृगरूयोऽभवद्देवो ताविषे प्रथमे खलु // विज्ञायावधिना पूर्व भवं चेह जिनेश्वरम् / अपूजयं भवादस्मादनेहं च शिवं गमी / सिद्धिविनायकाख्योऽहं देवोऽत्र शिखरे स्थितः / विनानि सङ्घलोकस्य हरामि प्रतिवासरम् // यतः. " पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं, पण्यं सम्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम् / सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः, स्वर्गं यच्छति निवृतिं च रचयत्यर्चाहतां निर्मिता // 1 // फलं पूजाविधातुः स्यात् सौभाग्यं जनमान्यता / ऐश्वर्य रूपमारोग्यं स्वर्गमोक्षसुखोन्यपि // 2 // इत्थं रेवततीर्थस्य माहात्म्यं शिवशर्मदम् / श्रुत्वा नत्वा जिनं नेमिमावाभ्यां जल्पितं तदा // यत्र भवता तीर्थ-माहात्म्यं जल्पितं खलु / तत् सत्यं पुण्यवान् देव-दीर्घसेवापरोऽसि यत् / / सुतीर्थेष्वानमन्तौ वां जिनान् प्रामे पुरे पुरे / नन्तुं प्रथमतीर्थेश-मिहागातां तु सोम्प्रतम् // यतः- " जिनं पूजयतां ध्यानं कुर्वतामर्हतः सताम् / नमतां तन्वतां जीव-रक्षां मुक्तिसुखं भवेत् // 1 // " इत्युक्त्वा गतयोः साध्वोः शान्तनुर्ध्यातवानिति / कदाऽहं करवे पूजां जिनस्य रैवताचले / एतच्चिन्तयतस्तस्या-कस्माच्छान्तनु