________________ 18 शत्रुञ्जय-कल्पवृत्ती प्रचुरः स्फुटम् / / अग्निना ज्वलितेऽन्यस्मिन् बिम्बे सोऽपि रमापतिः / गोपालः स्थापयामास बिम्बमन्यद् धनव्ययात् // रत्नशेखरसूरीशस्तपागच्छधुरन्धरः / प्रातिष्ठिपच्च तद्विम्बं रसक्ष्मेषुखवत्सरे // रत्नशेखरसूरीश-प्रसादादधुना सदा / कुरुते धर्मकृयानि जैनानि शिवहेतवे / शत्रुञ्जयमहातीर्थे गोपालोऽपि धनेश्वरः / बढी यात्रा व्यधाद् भूरि-सङ्घयुक्तः सदुत्सवम् / / 82 // इति वागडचन्द्रप्रभजिनसम्बन्धः कयजिणपडिमुद्धारा पंडवा जत्थ वीसकोडिजुआ। मुत्तिनिलयं पत्ता तं सित्तुंजयमहतित्थं // 25 // व्या०-कृतजिनप्रतिमोद्धाराः पाण्डवो ' युधिष्ठिरादयः पञ्च यत्र तीर्थ विंशतिकोटियतियुता 'मुक्तिनिलयं' शिवसद्म प्राप्ता-गताः, तच्छत्रुञ्जयतीर्थं महद्विद्यते; कथात्र तेषाम्-पूर्व वृषभदेवस्य कुरुनामा सुतोऽभवत् / तस्य नाम्नाऽजनि क्षेत्रं कुरु श्रीद्धं मनोहरम् / / कुरोहस्त्यभवत्पुत्रो यन्नाम्ना हस्तिनापुरम् / तस्यान्वये लसद्वीयों विश्ववीर्यो नृपोऽजनि / / स कुमारोऽभवचक्री तस्य पुत्रो लसद्वलः / स च प्रान्ते व्रतं प्राप्य तृतीयं त्रिदिवं ययौ // अस्य कथा विस्तरात् स्वयं ज्ञेया / यतः-" थेवेणवि सप्पुरिसा सणंकुमारुव केइ बुझंति / देहे खणपरिहाणी जं किर देवेण से कहियं // 1 // " तस्मिन् वंशे क्रमाच्छान्तिः कुन्थुश्चारजिनेश्वरः। एते त्रयोऽभवंश्चक्र-वर्तिनश्च जिनेश्वराः / / इन्द्रकेतुस्ततः कीर्ति-केतुर्वैरिकुलान्तकृत् / शुभवीर्यः सुवीर्यश्चा-नन्तवीर्यो नृपोऽजनि / / कृतवीर्यस्ततश्चक्री सुभोमोऽजनि सन्नयो। ततोऽसङ्खथमहीनेषु गतेष्वजनि शान्तनुः // हस्तिनाद्वं पुरं. न्यायात् पपाल शान्तनुर्नृपः / स्वभावाद् व्यसनी वैरि-मतङ्गजमृगाधिपः॥ नीलाम्बरधरोऽन्येाः शान्तनुः शस्त्रपङ्क्तिभृत् / गतोऽरण्ये मृगैणादी-खासयामास सर्वतः / / पापर्द्धिरससम्पृक्तो हयाऽऽकृष्टो व्रजन् वने / शान्तनुभृतधन्वैव मृगपृष्ठे समीयिवान् / / अतीतायां बहुक्षोण्यां भूपेनाथ मृगोऽनशन् / गङ्गातटे नृपोऽपश्यच्चैत्यं चाम्बरमार्गगम् // कैलासोऽयं गिरिः किं वा किंवा काञ्चनपर्वतः ! ध्यायतीति ययौ भूपश्चैत्यमध्ये मनोहरे // तस्मॅिश्चैत्ये युगादीशं नत्वा स्तुत्वा पृथुस्तवैः। निविष्टः शान्तनुभूपो मुदितो मत्तवारणे / / इतः पूजयितुं देवं तत्र कन्यां समागताम् / दृष्ट्वा दध्यौ नपः स्वःस्त्रीः किं किं पातालकन्यको ? // पूजयित्वा जिनं याव-द्वलिता कन्यका शनैः / तावद् भूपो जगौ काऽसि कन्यका कस्य भूपतेः / / तदैवैत्य नरः कश्चि-नत्वा प्रथमबोधिदम् / प्रोवाचास्यात्रियश्चारु-चरित्रं श्रूयतां त्वया / / जबोर्भूपस्य पुत्रीयं सर्वशास्त्रार्थपारगा। गङ्गाह्वा यौवनं प्राप्ता नणां मानसमोहनम् // पित्र्युत्सङ्गे निषण्णाया कन्या अम्या दिनोदये / चारणश्रमणो ज्ञानी कश्चिदेव समाययौ // उपावेश्यासने तं च जर्नुत्वा जगावदः / कोऽस्या वरोऽस्ति रूपेण विद्यया सदृशो वद ? // मुनिजगौ मरुन्नद्यास्तटे शान्तनुभूपतिः / एष्यत्येव हयाऽऽकृष्टो योग्योऽस्यास्तु वरो ननु // गदित्वेति मुनौ तस्मिन् गते पितुर्निदेशतः / कारयित्वाऽत्रसाौंकः सार्वयत्यादि बोधिदम् // यतः-" वरगंधधूवचोक्खक्खएहि कुसुमेहिं पवरदीवेहिं / नेवेज-फलजलेहि अ जिणपूया अट्टहा भणिया // 1 // नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी