________________ वागडचन्द्रप्रभजिमसम्बन्धः प्रति / तदा न प्रतिमाऽचालीत् स्थानात्तस्मान्मनागपि // ततस्तत्र जिनागारं कारयित्वा महत्तमम् / रामेण स्थापिता चान्द्र-प्रभीयं प्रतिमा वरा // चन्द्रप्रभप्रभोर ध्यानं कृत्वा च पाण्डवाः। प्रापुर्विद्या द्विषज्जैत्रीः कौरवारि-निकृन्तनीः // चन्द्रप्रभप्रभु चित्ते स्मरन्तः पञ्च पाण्डवाः / अजयन् कौरवान् सर्वान् प्रापू राज्यं निजं पुनः / / नाशिक्ये नगरे स्फारं कारयित्वाऽहंदालयम् / चन्द्रप्रभाहतो बिम्बं कुन्त्याऽस्थापि सदुत्सवम् // भगुकच्छपुरस्वामी मदनो मन्मथोपमः / त्रपुवत्याः पुरो भीमभूपेनात्याजि राज्यतः / / स भूपो मदनो भ्राम्यन् वनेऽन्येार्विसङ्कटे / वागडविषयं प्राप्य बहुभिल्लनिषेवितः // प्रासादे प्रतिमा चन्द्र-प्रभतीर्थेशितुस्तदा / दृष्ट्वा नत्वाऽनमद् भूपः प्रगे प्रगे सदाऽऽदरात्॥ एकदो प्रकटीभूय जगौ चन्द्रप्रभः प्रभुः / त्वं भिल्लैः पञ्चभिः सार्धं गच्छ स्वच्छ ! निजे पुरे // कुर्वतस्तव सङ्ग्रामं स्मरतः सुव्रतं जिनम् / वैरी भूरिबलः सद्यो गमिष्यति यमालयम् / / श्रुत्वेति भारती चन्द्र-प्रभस्य मदनो नृपः / युद्धं कृत्वाऽरिणा सार्द्धं राज्यं प्राप रिपुक्षयात् / / ततो मदनभूपालः सधेन सहितो मुदा / वागडोइ पुरेऽभ्येत्या-नंसीच्चन्द्रप्रभं प्रभुम् // स च भूपो बहुकालं राज्यं कुर्वन् निजे पुरे / शत्रुञ्जयादितीर्थेषु यात्रां विस्तरतो व्यधात् / / शत्रुञ्जयेऽपि सर्वज्ञ -प्रासादं जनहर्षदम् / कारयामास भूपालो भूरिलक्ष्मीव्ययात्मुदा / / अन्येद्यः स्वं सुतं मल्ल-देवं राज्ये निजे मुदा / न्यस्याऽऽदात् संयमं चन्द्र-देवसूरीशसन्निधौ // मदनो मेदिनीपाल-यतिः शत्रुञ्जयाचले। ध्यानं कुर्वन् ययौ मुक्तिं सर्वकर्मततिक्षयात् / / वागडोइ पुरस्वामी भूपः सिंहरथाभिधः / चन्द्रप्रभाहतः पूजां विना नाऽऽद क्वचिदिने // प्रभुं चन्द्रप्रभं पूज-यतस्तस्य महीपतेः / वश्यभूवन द्विषः सर्वे दर्दान्ता अपि ततक्षणात // ततो विशेषतः स्फारं चन्द्रप्रभजिनालयम / कारयामास भूपालः सद्यः सिंहरथोभिधः // इत्यादि भूधवश्चन्द्र-प्रभस्वामिपदार्चनात् / अनेके सम्पदः प्रापुमुक्तिं प्रापुश्च भूरिशः।। चन्द्रप्रभप्रभोर्गेहं पतितं कालतः क्रमात् / कुमारपालभूपाल उद्धाराऽनघाशयः / / चन्द्रप्रभाहतो ध्यानात् कुमारो मेदिनीपतिः / सर्वत्र विजय प्राप शात्रवाणां पराभवात् // इत्यादि महिमानं तु श्रुत्वा चन्द्रप्रभप्रभोः। जगञ्चन्द्रगुरुर्नन्तु-मीयिवाँस्तत्र हर्षतः // जगच्चन्द्रगुरुस्त्यक्त्वा प्रमाद चरणस्य तु / चन्द्रप्रभप्रभोरग्रे शुद्धं चारित्रमाददे / / लात्वा स सूरिराट् वृत्तो-पसम्पदं स्वयं मुदा / आचाम्लाभिग्रहं याव-जीवं जग्राह निश्चितम् // आचाम्लानि सदाभावात् सूरेस्तस्य वितन्वतः / तपागच्छेति नामाभूद् गच्छस्य तस्य कालतः / / ततो दिने दिने गच्छस्तपो नाम्नेह वर्धते / यस्य चन्द्रप्रभेशस्य प्रभावो विद्यते यतः // अग्रे चन्द्रप्रभेशस्य लेपकाहा कुटुम्बिका / स्थापिता भूभुजा लक्ष्मी-धरेण धीमता सता // जातिः शालविकल्पेऽस्य जिनस्य पुरतः पुंसाम् / चोक्षाः कुमारपालेन भूपेन विहिता ध्रुवम् // ऊकेशज्ञातिवर्यस्य पोल्हाकस्य धनेशितुः / तत्रैव वसतो भूमि-मध्यस्था प्रतिमाप्यसौ // स्वप्नेऽभ्येत्य त्रियामिन्यां प्रादुर्भूता प्रभावभृत् / कामितं ददते भव्य-जीवानां स्मृतिमात्रतः // श्रीसोमप्रभसूरीश-पार्श्वशृण्वन् सना वृषम् / पाल्हाको विदधे देव-पूजादि पुण्यमादरात् / / उद्धृत्य पतितं चन्द्र-प्रभप्रभोनिकेतनम् / स्थापयामास तद्विम्ब प्राल्हाको बहुरैव्ययात् // वापीकूपतटाकादि कारयित्वा स रैपतिः / तीर्थभक्त्या ततो वाटीं कुसुमार्थमकारयत् // गोपालाहोऽधुना डीसा बालो लक्ष्मीपतिः स्वयम् / अचीकरजिनागारं चन्द्रप्रभजिनेशितुः // गोपालोऽपि महत्सधं कृत्वा शत्रुजयाचले / गत्वा श्रीवृषभं देवं ननामाऽर्चापुरस्सरम् // अग्निनो ज्वलिते ग्रामे बिम्बं चन्द्रप्रभ-प्रभोः / न जज्वाल यतस्तस्य प्रभावः