________________ 5 सम्प्रत्यादीनामुद्धाराः सदनेऽन्यत्र पुरस्य सातहेतवे / स्वम्यार्थं मनुजः क कि-मकायं कुरुते न हि ? | चाणिक्यश्च तदाऽतीव मुमुदे मानसे भृशम् / / यतः- " वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः। निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वं कार्यवशाजनोऽत्र रमते नो कस्य को वल्लभः // 1 // " चाणिक्यवचनाच्चन्द्र-पर्वतावपसृत्य च / यदा स्थितौ तदा लोकाः श्रयन्ते चणिनन्दनम् / यतः- " मायाशीलह माणुसह किम पत्तिब्जणु जाइ / नीलकंठ महुरं लवइ सविसभुयंगम खाइ // 1 // " चाणिक्यप्रोक्तवेलायां चन्द्रपर्वतभूपती। अचिन्तितौ पुरे सेना-युक्तो समीयतू रहः / / क्षीणकोशस्तदा नन्द-श्वाणिक्येनेति जल्पितः / प्रतिकूला ग्रहाः सन्ति तवेदानी नरेश्वर ! / / उपायेनाऽधुना प्राणा रक्ष्यन्ते च त्वया खलु / ततोऽग्रे ते भवेद् भद्रं जीवतो न मृतस्य च / / नन्दो जगौ कथं प्राणा रक्ष्यन्ते मयकाऽधुना / कृत्वा ध्यानं ततः प्राह चाणिक्यस्तं नृपं प्रति // भार्याद्वर्यायुतः किञ्चिद्-धनयुक्तो नराधिप ! / धर्मद्वाररथेनाथ निर्याहि साम्प्रतं द्रुतम् / / कुर्वाणस्य मम ध्यानं बली कोपि न भूपतिः / विघ्नं करिष्यते दृष्टि-गोचरे मे च भूधव ! // लात्वा पत्नी द्वयं पुत्री-मेकां च नन्दभूपतिः। यदा निर्याति च तदा नन्दपुत्र्यपि निर्ययौ / / चन्द्रगुप्तं नृपं दृष्ट्वा नन्दस्य दुहिता रमा / कामातुराऽभवद् बाढं चरितुं तं स्मरोपमम् // दुहितुः स्वान्तगतं चन्द्र-गुप्तं ज्ञात्वा नृपो जगौ / पिताऽगदत्-वत्से ! गच्छ वृणु स्वेच्छं चन्द्रगुप्तं नराधिपम् // यतः-" वरीतुं तु वरं कन्या स्वान्तचिन्तितमेव हि / ईहते तु विशेषेण क्षत्रियस्य च कन्यका // 1 // " ततस्तद्भवा सद्यो रथादुत्तीर्य वेगतः / चन्द्रगुप्तरथारूढा-ऽजनि नन्दस्य नन्दिनी // तदा तस्य रथस्याशु अभज्यन्त नवारकाः / चन्द्रः प्राह च चाणिक्यं नेयं वर्या कनीनिका // चाणिक्योऽवक कनी ह्येषा भविष्यति तवानघा / वरीतायां त्वया त्वस्यां कन्यकायां नरेश्वर ! // यावन्नव नृपान् राज्य-मखण्डं ते भविष्यति / यतो नृपा गजारूढा भवन्ति न रथश्रिताः / युग्मम् // सा कन्या चन्द्रगुप्तेन वरीता समुपागता / चाणिक्योऽवग् धुरि स्वामिन् ! रमा स्वयंवरागता / / अतस्तव महद्राज्यं वर्द्धमानं भविष्यति / एषा मुख्या त्वया कार्या सर्वासामपि योषिताम् / / ततस्तस्मिन् वरे राज्ये चन्द्रगुप्तः सदुत्सवम् / उपविष्टो ददौ दानं याचकेभ्यो यथेप्सितम् / / ततो नन्दनृपावासे प्रविष्टौ चन्द्रपर्वतौ / विभक्तुं नन्दलक्ष्मी तु प्रारेभेते परस्परम् / / नन्दगृहे स्थिता चैका कनी सुराबलोपमा / वरीता पर्वतेनाशु तत्स्वरूपमजानता / / तम्या लग्ने करे सद्यः पर्वतो मेदिनीपतिः / दाहज्वरणसंव्याप्तो मरणाभिमुख्यभवत् / / उपचारेषु भूयस्सु कारितेषु प्रयत्नतः / पर्वतः पार्थिवः प्राप पञ्चत्वं कर्मयोगतः / / श्रियो विद्युल्लोलाः कतिपयदिनं यौवनमिदं, सुखं दुःखाघातं वपुरनियतं व्याधिविधुरम् / दुरापाः सत्पन्यो बहुभिरथवा किं प्रलपितै-रसोरः संसारस्तदिह निपुणं जागृत जनाः ! / / माता पिता भैषजमिष्टदेवो विद्या प्रिया नन्दनबन्धवाश्च / गजोश्वभृत्योबलपद्मवासे-नेशा जनं ! रक्षितुमन्तकाले / / अर्द्धराज्यहरः सद्यः पर्वतः पृथिवीपतिः / चन्द्रगुप्तस्य पुण्यस्यो-दयात् पञ्चत्वमाप्तवान् / / यतः-" सत्तुं शरीरायत्तुं देवायत्ति रिद्धि / इक्कलउ बहुहिं भिडइ जिहां साहस तिहा सिद्धि // 1 // खेडीम खूटा टालि खुटा विणु खाखइ नहीं / साहसी हुतउ हलि वहइ देवह तणइ कपाली / / 2 // उद्यमं कुर्वतां पुंसां भाग्यं सर्वत्र कारणम् / समुद्रमथनाल्लेभे हरिर्लक्ष्मी हरो विषम् // 3 // " जाते राज्यद्वये चन्द्रगुप्तस्य मेदिनीपतेः / राज्याभिषेचनं चक्रे पुनर्मच्यादिभिर्मुदा // चाणिक्यः सर्वराज्यस्य चिन्तां कुर्वन्