________________ पुण्डरीकनामोपरि श्रीवृषभजिन-प्रथमगणधरपुण्डरीककथा 00000000000 0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 सङ्घमेनं विकुहिं तेऽकरिष्यं परीक्षणम् / त्वं तु नो चलितः स्त्रीयाभिग्रहाद् भप ! साम्प्रतम् // 20 // सप्त चिन्तामणीन् दत्त्वा दण्डवीयमहीभुजे / तत्प्रशंसापरः स्वर्ग समगाद् भूरिसातदम् // 21 // ततःप्रभृति भूपालो विशेषाद् धर्मकृत्यकृत् / सप्तक्षेत्रे धनं स्वीयं वपते स्म सदा मुदा // 22 // दण्डवीर्यो नृपः श्रुत्वा तीर्थमाहात्म्यमद्भतम् / यात्रायै मेलयामास सङ्घमेवंविधं क्रमात् / / 23 / / महीपालाः सहस्राणि षोडशोत्सबद्धकाः / पञ्च कोट्यो महेभ्यानां कुलान्यष्टौ नृणां पुनः // 24 // जाम्बूनदमया देवा-लयाः सप्तशतप्रमाः / एकादशशती रौप्य-मयदेवौकसां पुनः // 25 // मनुष्या विंशतिः कोट्यः स्त्रियः कोटयो द्विसप्ततिः। महिषाः कोटिरेकं च जलानयनहेतवे // 26 // स्यन्दनाः स्थगिता वस्त्रर्विंशतिः कोटिरद्भताः / एवमन्यदपि ज्ञेयं सङ्घ तस्य महीपतेः // 27 // एवंविधेन सङ्घन दण्डवीर्यः समन्वितः / चलन् शत्रुञ्जये तीर्थे ययौ कुर्वन् महोत्सवम् // 28 // स्नात्रा ध्वजदानादि-कृत्यानि समहोत्सवम् / दण्डवीर्योऽर्जयामास कर्म मुक्तिगमोचितम् // 29 // तस्मिन् सङ्घ स्थिते तत्र सप्त कोट्यो नराः स्त्रियः / लेभिरे केवलज्ञानं ययुमुक्तिं क्रमात् पुनः // 30 // सिद्धक्षेत्रे गतेष्वेषु नरादिषु तदा क्रमात् / सिद्धक्षेत्रमिति क्षमापो नाम तीर्थस्य दत्तवान् // 31 // यात्रां कृत्वा समेतः स्व-नगरे मेदिनीपतिः / राज्यं दत्त्वा स्वपुत्राय जग्राह संयमश्रियम् // 32 // क्रमात् सूरिपदं प्राप्य केवलज्ञानमप्यथ / ययौ शत्रुञ्जये मुक्तिं दण्डवीयेनरेश्वरः // 33 // * इति सिद्धक्षेत्रनामोपरि दण्डवीर्यनृपकथा * / / अथ पुण्डरीकनामोपरि श्रीवृषभजिन-प्रथमगणधरपुण्डरीककथा // तृतीयस्याऽरकस्यान्तेऽवसर्पिण्यामिहाऽधुना / आसन् कुलकराः सप्त युगलित्वेन शोभिताः // 1 // तथाहि-'पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे / तत्तोअपसेणइए मरुदेवे चेव नाभी य / / 2 / / चंदजस चंदकंता सुरूव पडिरूव चक्खुकता य / सिरिकंता मरुदेवी कुलगरपत्तीण नामाई // 3 // नाभः कुलकरस्यासीन्मरुदेवाभिधा प्रिया / तयोः ऋषभनामाभूत् पुत्र आद्यो जिनाधिपः // 4 // सुमङ्गला प्रिया तस्य भरतं भारतीयुतम् / अमूत युग्मतश्चै कोनपञ्चाशत्सुतद्वयम् // 5 // पुत्रं बाहुबलि पुत्री सुन्दरी युग्मयोगतः / आदिदेवप्रियाऽभूत, सुनन्दाऽन्या शुभेऽहनि // 6 // भरतस्यादिमः पुत्रः पुण्डरीकाभिधोऽभवत् / अन्ये तु नन्दनाः कोटि-प्रमाणा अभवन् क्रमात् // 7 // निवार्य युग्मधर्म तु व्यवहारपथं समम् / प्रकाश्य वृषभो राज्यं विदधे समयं बहुम् / / 8 // - इत्यादि शास्त्रान्तराद् ज्ञेयं स्वयम्॥ अयोध्याया ददौ राज्यं भरतायाऽऽदिमो जिनः / विभज्य राज्यमन्येभ्यः पुत्रेभ्यो नीवृतां पुनः // 6 // लात्वा व्रतं प्रपद्याऽथ ज्ञानं श्रीवृषभः प्रभुः / प्रबोधितु जनान् भव्यान् विजहाराऽवनीतले // 10 // पण्डरीको गृहीत्वादौ व्रतं श्रीवृषभान्तिके / गणभृत्सु पदं धुयं लभते स्माखिलेष्वपि // 11 //