________________ शत्रुञ्जय-कल्पवृत्तौ 0000000000000000000000000000000.0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000001 यस्यात्र क्षणतो ज्ञानं विश्वविश्वावलोककम् / उत्पत्स्यते तमेव तं भूपं जानीहि भूपते ! // 176 / / चन्द्रशेखरराजर्षेः केवल्युत्सवमादरात् / मुहूर्त्तात् कुर्वतो देवान् दृष्ट्वा जज्ञौ रिपुतकम् // 180 // ततस्तत्र समेत्याऽऽशु क्षमयित्वाऽतिभक्तितः / शुकोऽपि श्लाघयामास ज्ञानिनं चन्द्रशेखरम् // 181 / / यात्रां विस्तरतः कृत्वा शको भूपो निजे पुरे / समेत्य स्वीयपुत्राय राज्यं दत्त्वा व्रतं ललौ // 182 // सहस्रद्वितयं भूपाः सामान्याः स्वामिभक्तितः / जगृहुः संयमं ज्ञानि-पाय विशदमानसाः // 183 // पालयन् निरतीचारं चारित्रं शुकसंयतः / शत्रुञ्जये ययौ तुर्य-तीर्थेशसमये क्रमात् // 184 // सर्वकर्मक्षयात् प्राप्य ज्ञानं शुकयतीश्वरः / कोटिसाधुयुतो मुक्तिं ययौ सिद्धमहीधरे // 18 // 卐 इति शत्रुञ्जयनामोपरि शुकभूपकथा स पादुक्ता, विस्तरात मत्कृतविक्रमार्कचरित्राद् ज्ञातव्या ! समं भूरिनृसङ्घातान् सिद्धान् वीक्ष्य सुमानसः / दण्डवीर्यो ददौ नाम सिद्धक्षेत्रेति तस्य तु / / 1 / / अयोध्यायां पुरि श्रीमन्नामेयस्यान्वये क्रमात् / नलवीर्यनृपस्याभूद् दण्डवीर्याभिधो नृपः // 2 // दिग्यात्रां कुर्वता तेन भुवः खण्डत्रयं क्रमात् / तथाऽसाधि यथा सर्वे तस्यासन् वशगा द्विषः // 3 // यतः-राया आइच्चजसे महाजसे अइबले अबलभद्दे / बलविरिअ कत्तविरिए जलविरिए दण्डविरिए अ॥१॥ एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ / जिणसंतीओ मउडो सेसेहिं न चाइनो वोढु // 2 // धर्माचार्यान्तिकेऽन्येचुर्दण्डवीर्यमहीपतिः / धर्म श्रोतु ययौ यावत्तावच्चेति जगौ गुरुः // 4 // धम्मो मंगलम उलं प्रोसहमउलं च सव्वदुक्खाणं / धम्मो बलं च विउलं धम्मो ताणं च सरणं च // 5 // इत्यादिदेशनां श्रुत्वा दण्डवीर्यनृपोऽलपत् / तीर्थे शत्रुञ्जये गच्छन् योऽस्मिन् मार्गे समेष्यति // 6 // तं तं सर्व लसद्भक्तदानात् सन्मान्य भक्तितः / जेमितव्यं मया प्राणात्ययेऽपि नान्यथा पुनः // 7 // लक्षकोटिमितान् श्राद्वान् तत्र मार्गे समागतान् / भोजयित्वा स्वयं दण्ड-वीयों जेमति भूपतिः // 8 // इतः सुरालये शक्रो दण्डवीर्यमहीपतेः / शश्लाघाऽभिग्रहं घोरं सभायां घुसदां पुरः // 9 // दण्डवीयों नृपः स्वीया-भिग्रहात निर्जरादिभिः / न चाल्यते ततश्च कः सुरः स्वर्गाद्विनिर्ययौ // 10 // इतो देवगृहे देवं पूजयित्वा वरः सुमैः / दण्डवीर्यनृपो गेह-देवौकस्यर्चयजिनम् // 11 // उपविष्ट नृपे जग्धु यावत् सूपकृतो वराः / मुश्चन्ति भाजने भक्तं तावद् भृत्यो जगावदः // 12 // शत्रुञ्जये जन् सङ्घः समेतोऽस्ति पुराद् बहिः / राजोत्थाय गतः सङ्घ तत्राऽऽकारयितु द्रतम् // 13 // सङ्घ निमन्व्य लेहायानीय भोजितवान्नृपः / यावत्तावत् समायातो महान् सोऽपरः पुनः // 14 // जेमयित्वाऽखिलं सङ्घ यावद् भूपोऽत्तमिच्छति / तावदन्यः समायातो महान् सङ्घः पुरावहिः // 15 // एवं जेमयतः सङ्घ भूपस्याऽस्तं ययौ रविः / पुनः प्रौढः समायातः सङ्घः प्रातः पुगद् बहिः // 16 // तस्मिन् भुङ्क्ते तदा सङ्घ पुनः सङ्घः समीयिवान् / तं च जेमयतः सङ्घ भूपस्याऽस्तं ययौ रविः // 17 // एवं सप्तदिना याता अभुक्तस्य महीपतेः / ततो देवोऽवधिज्ञानाद् जज्ञौ भूपं स्थिराशयम् // 18 // प्रादुर्भूय ततो देवो वर्यभूषणभूषितः / जगौ धन्यो महीश ! त्वं स्थिरं चेतोऽस्ति ते यतः॥१६॥