________________ शत्रुञ्जयनामोपरि शुकभूपकथा 13 00000000000000000000000000 प्रतिकूले विधौ किंश्चिन्नैव स्यादात्मनः क्वचित् / ममाधुनाऽखिलो मन्त्रि-वर्गो विघटितः खलु // 157 / / यतः–तावच्चन्द्रवलं ततो ग्रहबलं तावद् बलं भूवलं, तावत्सिद्धयति वाञ्छितार्थमखिलं तावजनः सज्जनः / मुद्रामण्डलमन्त्रतन्त्रमहिमा तावत्कृतं पौर.षं, यावत्पुण्यमिदं महद्विजयते पुण्य क्षये क्षीयते // 158|| ततस्तस्मात् पुरात्तम्य यातोऽन्यत्राऽम्बरध्वना / विमानं स्खलितं यत्र तत्रेति ध्यातवान् शुकः // 156 / / क्षते प्रहारा निपतन्त्यवश्यं, धान्यक्षये स्फूर्जति जाठरोऽग्निः / आपत्सु मित्राणि विसंवदन्ति, छिद्र ष्वना बहुलीभवन्ति // 160 // ततोऽधस्तात् शको दृष्ट्वा दिशन्तं धर्ममाह तम् / तातं तत्रैत्य शश्राव देशनां नतिपूर्वकम् // 16 // देशनान्ते शकोऽप्राक्षीद्राज्यं केन हृतं मम / तातेनाऽनर्थदण्डस्य भियोक्तं तस्य नाम न // 162 // यतः- 'शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः / योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् // 1 // ' वैरिघातो नरेन्द्रत्वं पुग्घाताग्निदीपने / खचरत्वाद्यपध्यानं मुहूर्तात् परतस्त्यजेत् // 2 // वृषभान् दमय क्षेत्रं कृष षण्डय वाजिनः / दाक्षिण्याऽविषये पापोपदेशोऽयं न कल्पते // 3 // यन्त्रलाङ्गलशस्त्राग्नि-मुशलोदूखलादिकम् / दाक्षिण्याविषये हिंस्र नापयेत् करुणापरः // 4 // कुतूहलाद् गीतनृत्य-नाटकादिनिरीक्षणम् / कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् / / 5 / / जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् / रिपोः सुतादिना वेरं भक्तस्त्रीदेशराटकथाः // 6 // रोगमार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् / एवमादि परिहरेत् प्रमादाचरण सुधीः // 7 // विमृश्येति तदा ज्ञानी कृत्यं निष्पापमञ्जसा / प्राह द्वयो रिपोः सून्योहिताय हितकृयथा // 163 / / गच्छ सिद्धाचले चन्द्र-गुहायां वृषभं जिनम् / स्मरंस्तिष्ठ कभक्तः सन् षण्मासान् ब्रह्मचर्ययुग् // 164 // यदा तस्यां गुहायां तु तेजः स्फुरति सर्वतः / तदा यास्यत्यारनंष्ट्वा करे ते राज्यमेष्यति // 16 // नत्वा तातं शको गत्वा सिद्धशैले गुहान्तरे / स्थित्वाऽऽदिमं जिनं चित्तं दध्यो तातोक्तयुक्तितः।।१६६॥ तेनोक्तविधिना सर्व स्मरतस्तस्य तत्र तु / षण्मासान्तेऽस्फुरत्तेजो गुहायां सर्वतो बहु // 167 // इतश्चन्द्रो निजं रूपं निरीक्ष्य प्रकटं रहः / मृत्युभीतो निजं स्थानं तरसा समुपागमत् / / 168|| शुक्रस्तु स्वपुरेऽभ्येत्य पत्नीद्वययुतस्तदा / निजं राज्यमलञ्चक्रे नानोत्सवपुरस्सरम् // 169 // एत्य मन्व्यादयो लोकाः प्रणम्य भूपतेः पदौ / भक्त्या निजापराधं तु क्षमयामासुरञ्जसा / / 170 // ततो भूपो बहुं सङ्घ भूरिभूपसमन्वितः / गत्वा सिद्धगिरौ स्नात्रा-द्युत्सवं निखिलं व्यधात् // 171 / / ततो राजा जगी भूरि-भूभुजामग्रतस्तदा / ममाऽस्मात् तीर्थमाहात्म्यात् जयः शत्रोरजायत / / 172 / / अतोऽस्य भूभृतः शत्रुञ्जयेत्याह्वा विधीयते / भूपैरुवतं तवाभीष्ट नामास्याऽस्तु नरेश्वर ! // 173 // अयं शत्रुञ्जयः शैलो घोपयनभितो नृपः / सप्तक्षेत्रे धनं भूरि व्ययति स्म सदुत्सवम् / / 174 / / इतस्तत्राऽऽगतश्चन्द्र-शेखरः प्रथमं जिनम् / नत्वा दध्यौ मया पापं कृतं दुर्गतिदायकम् / / 175 // ध्यात्वेति संयमं पार्थे महोदयमुनेस्तदा / लात्वाऽऽत्मना भृशं निन्दन चन्द्रश्चिक्षेप पातकम् // 176 / / शुकोऽप्राक्षीत् गुरूपान्ते कृत्वा मद्र पमत्र तु / येन राज्यं लले तस्य नाम साम्प्रतमुच्यताम् // 177 / / मुनिः प्राह भवादस्माद् द्विपञ्चाशत्तमे भवे / भवतोद्दालितं यस्य ललौ स धरणीधरः // 17 //