________________ शाये ग्वारकथा यया गर्ष दधद् भीमो मार्गमायाति तत्क्षणात् / / ध्यात्वेति श्रेष्ठिनो रत्न-रुप्यसौवर्णकवरैः। आपूर्य शुण्डकान् जग्धुं गवामप्रैषि हेलया // तदा भीमो जगौ गाव-स्तृणान्यदन्ति निश्चितम् / न मे भक्षितं कचिद् गौभि-रैरत्नादिकवैभवः / / सोमोऽवग् भवतो गावः स्वर्णरत्नविभूषिताः / विद्यन्तेऽतो नो चारि ते चरिष्यन्ति मनागपि / / अतो मया मणीस्वर्ण-रुप्यपूरितशुण्डकान् / प्रेषितास्ते गवां चारि-स्थाने भीमावधारय / / भीमोऽवग मयका शोभा-हेतवे वृषभा अमी / शृङ्गारिता मणीस्वर्ण-रुप्यात्मकविभूषणैः // ततः सोमो जगौ ध्यातं मया वैवाहिको वरः / यत एवंविधं वास्त-वार्य सम्यग्विलोक्यते / / ततस्तयोरभूद्वयों विवाहो रुचिरोत्सवम् / सोमेन श्रीर्ददे बह्वी चन्द्राय भीमसूनवे // परिणाय्य सुतं भीम-श्वलन् पद्मपुरान्तिके / समेत्य तस्थिवान् कत्तुं भोजनं सज्जनान्वितः / वरकन्ये तदा तत्रो-द्याने श्रीवृषभालये / जग्मतुवृषभं देवं नन्तुं सूत्सवपूर्वकम् / / प्रणम्य वृषभं स्तुत्वा यावत्ते तस्थतुर्मुदा / तावन्मूर्छा समायाता वरकन्यकयोस्तयोः // वातादिक्षेपतः सज्जी-कृतौ तौ स्वजनादिभिः। प्राप्तजातिस्मृती पूर्व-भवं ददृशतुर्निजम् / / ततश्चोल्लापितौ माता-पितृभ्यां वरकन्यके / जजल्पतः स्म नो मौनं विधाय तस्थतुई ढम् // हर्षस्थाने विषादे तु जाते भीमो वणिग्वरः / मन्त्रतन्त्रौषधादीनि तयोः सज्जीकृतेऽकरोत् / / तदा तत्र समायातो ज्ञानी शुभङ्कराभिघः / वन्दित्वा देशनां श्रुत्वा पप्रच्छे श्रेष्ठिनेति सः॥ वरकन्ये च यद् ह्येतौ कथं मौनं प्रचक्रतुः ? / ज्ञानी जगौ पुरे यस्मिन् महेभ्योऽस्ति धनामिधः / / तस्य पत्नी रमादेवी प्रसूते स्म सुताङ्गजे / जन्मोत्सवे कृते वृद्धिं गच्छन्तौ यौवनं श्रितौ / / इतोऽकस्मात् समुत्पन्ने रोगे सुतसुते क्रमात् / विहिताराधने मृत्यु जग्मतुः शुभभावतः / / धनस्य श्रेष्ठिनः पुत्रो मृत्वा भीमाङ्गजोऽभवत् / पुत्री मृत्वाऽभवत् सोम-श्रेष्ठिनो नन्दिनी विमा(य)म् // ज्ञात्वैतौ प्राग्भवं भ्रातृभगिनीभावमात्मनः / मौनं प्रचक्रतुः कान्त-पत्नीत्वं संश्रितौ ध्रुवम् / ततः श्रेष्ठी जगावेतौ जल्पत स्म यथा तथा / विधीयेते त्वया ज्ञानिन् ! ततो ज्ञानी जगावदः // प्रजल्पन्तौ कृतावेतो संयम लास्यतः खलु / श्रेष्ठी प्राह विधीयेते प्रजल्पन्तौ त्वया त्वरा // ततो ज्ञानी जगौ मौनं मुक्त्वा स्वस्वमनोरथम् / जल्पतं तु युवां मातृ-पित्रोरने हि साम्प्रतम् / ततस्त्यक्त्वा तु तौ मौनं जजल्पतुः स्फुटाक्षरम् / प्राग्भवे भगिनीभ्रातृ-भावावभवतां हि वाम् // अस्मिन् भवेऽभवत् कान्त-कान्ताभावोऽधुना पुनः / अतः संयममावाभ्यां गृहीतव्योऽधुना द्रुतम् / / ततस्तौ संयम लात्वा ज्ञानिनः सन्निधौ तदा / तपतः स्म तपस्तीनं स्वर्गापवर्गशर्मदम् // कमलायतिनी माया-रहितं संयमं तदा / पालयन्ती बबन्धाऽऽशु नृभवं सरलाशया // ततो मृत्वाऽच्युते स्वर्गे चन्द्रः पत्नीयुतः क्रमात् / उत्पन्नो निर्जरो दिव्य-देहधुतिधरः स्फुटम् / ततश्च्युत्वा रमापुर्यां मुकुन्दमेदिनीपतेः / अभूतां नन्दनौ पद्म-चन्दनाहौ मनोहरौ // राज्यं प्राप्य क्रमाच्छत्रु-जये कृ(ग)त्वाऽतिविस्तरात् / कारयामासतुः स्वामि-प्रासादं प्रवरं मुदा / / धर्ममाकर्ण्य सार्वोक्तं चन्द्राचार्यान्तिकेऽन्यदो। लात्वा दीक्षां तपस्तीवं तपेते भूपनन्दनौ / तपःपरायणौ तौ तु विहरन्तौ भुवस्तले / शत्रुञ्जये गतौ ध्यानं कुर्वतः स्म जिनोदितम् / / तत्र क्षिप्त्वा स्वकर्माणि सम्प्राप्य ज्ञानमव्ययम् / आयुःक्षये तु कल्याण-नगया तौ समीयितुः // 38 // इति शत्रुअये उद्धारकथा