________________ शत्रुञ्जय-कल्पवृत्ती कल्याणशर्मदायकम् // प्रभोाख्यानतः सर्प-नकुलेभकुरङ्गकाः / प्रबुद्धाः प्रययुस्तत्र शिवं साम्यसमाश्रयाः // रैवतादिषु शृङ्गेषु विहृत्य त्रिजगद्गुरुः / काशीपुर्या समायोतो भूरिसाधुसमन्वितः / / हस्तिसेनः प्रभोता राजाऽभ्येत्य नृपान्वितः / प्रणम्य स्वामिनं धर्म शुश्रावेति तदादरात् // शत्रुञ्जयः सुरेशार्चा संयतत्वं च सद्गुरुः / सम्यक्त्वं शीलसाम्ये च शिवसौख्याय सप्तकम् / / अनन्तभवसम्भूतदुष्कृतद्रोहकृगिरिः / शत्रुञ्जयः सिद्धिपदं शाश्वतः सेव्यते न कैः ? / / मिथ्योत्वविषसङ्घातं जनं सम्यग्वचोऽमृतः / निर्वापयन् गुरुातः पातकान्तकरोऽङ्गिनाम् / / तावज्जीवो भ्रमत्येव भवेन्मिथ्यात्वमोहितः / सम्यक्त्वं न स्पृशत्येष यावन्निःशेषपापनुद् // जलत्यग्निविष पीयू-पत्यत्राही रज्जति / किकरन्ति सुरा यस्मात् तच्छीलं सेव्यमङ्गिभिः // हस्तिसेनस्ततः प्राह सधेशत्वं शिवाचले। प्राप्यते भविकः स्वामिन् ! ततः पाश्र्वप्रभुर्जगौ / मेलयित्वा बहु सधं देवालयस्थितान् जिनान् / पूजयन् नगरे प्रामे जिनेन्द्रजिनसद्मसु // तिलकं सङ्घनाथस्य पाश्र्वात् स मेदनीपतिः / कारयन् विभवं भूरि सफलं विदघेतराम् // युग्मम् / / क्रमाच्छत्रुञ्जये गत्वा कृत्वा स्नानं जिनेशितुः। पूजयामास सधेशः सुगन्धिकुसुमैर्वरैः // ततो ध्वजां जिनागारे शृङ्गे दत्त्वोऽतिविस्तरात् / चकाराऽऽरात्रिकं दीपं मङ्गलं च नराधिपः // तत आदिजिनाधीश-पादुके कुङ्कुमादिभिः / अर्चयित्वा स्तुति चक्र' श्रीमतो वृषभप्रभोः // ततो राजादनीं मुक्ता-फलैरामलकप्रमैः / हस्तिसेनो नृपो वर्धा-पयामास प्रमोदतः // तदा राजादनी क्षीर-वर्षतः सङघनायकम् / त्वरितं स्नपयामास बाह्येऽङ्गे मानसेऽपि च / / ततः सर्वेषु सर्वज्ञगेहेषु जिननायकान् / हस्तिसेनोऽर्चयामास तुष्टाव च स्तवैवरैः // ततस्तत्र गिरी पाश्र्व-नाथस्य सदनं महत् / कारयित्वा प्रभोर्बिम्ब हस्तिसेनो न्यवीविशत् / / ततोऽन्येषु च सिद्धाद्रि-शृङ्गेषु श्रीजिनालयान् / हस्तिसेनो महीपालोऽकारयद् भूरि-रैव्ययात् // ततोऽनपानसद्वस्त्र-दानेन हस्तिसेनकः / सधं गौरवयामास श्रीमद्गुरुसमन्वितम् / / ततोऽभ्येत्य पुरे स्वीये दत्त्वा राज्यं स्वसूनबे / हस्तिसेनो ललौ दीक्षां श्रीपार्वजिनसन्निधौ // कुर्वस्तीनं तपः शत्रु-अयेऽभ्येत्यान्यदा क्रमात् / हस्तिसेननृपालर्षि ानं चक्रे प्रभोः पुरः // हस्तिसेनस्य राजर्षेः शुक्लं ध्यानं वितन्वतः। उत्पन्नं पञ्चमं ज्ञानं सर्वकर्मततिक्षयात् // तदा तेषां यतीशानां बहूनां ध्यानसजुषाम् / उत्पन्नं पञ्चमं ज्ञानं सर्वकर्मततिक्षयात् / / तत्रायुःक्षयतो हस्ति-सेनो भूयिष्ठसाधुयुग् / यदाऽगानिवृतिं देवा-स्तदा चक्रुर्महोत्सवम् // 33 // इति असहयोद्धारप्रतिमाविषये कथानकं समाप्तम् ललितावे पुरे भीम-श्रेष्ठिनः पद्मिनी प्रिया / असूत तनयं चन्द्र-कुमार मारसन्निभम् // वर्द्धमाने सुते तस्मिन् गृहे लक्ष्मीदिने दिने / वर्द्धते स्म तथा श्रेष्ठी यथाऽभूच्छीदभः श्रिया // अन्यदा श्रेष्ठिना लक्ष्मी-पुरे सोमधनेशितुः / पुत्र्यो कमलया सार्द्ध विवाहोऽमिलि सद्दिने / / लग्नं लात्वाऽन्यदा भीमो भूरिसज्जनसंयुतः / दुकूलैरेमयैर्वर्य-भूषणैर्भूषितो भृशम् // रैरत्नशालितैः शृङ्गे शृङ्खलाश्रितैर्गलैः / वृषभभूषितांश्चक्रे स्यन्दनान् भूरिशस्तदा / / चलन् श्रेष्ठी यदा लक्ष्मी-पुरोधाने समीयिवान् / सोमो दथ्यौ तदाऽनेन श्रेष्ठिना भूषिता वृषाः / / अतोऽहमपि कुर्वेऽत्र तथा यथा हि गौरवम् /