________________ असङ्ख्योद्धारप्रतिमाविषये कथानकम् यान्ति च निवृतिम् // प्रासादं कारयन्त्येवो-द्धारं च जिनसद्मनः / त एव क्षीणकर्माणो व्रजन्ति शिवपत्तने / श्रुत्वेति चन्द्रभूपालो गत्वा शत्रुजयाचले। पूजयित्वा युगादीशं व्यधात् ध्वजादिकं पुनः / / द्वासप्ततिसुरावास-सहितं जिनमन्दिरम् / कारयित्वा नृपो नाभि-पुत्रबिम्वमतिष्ठिपत् / / ततश्चन्द्रनृपस्तत्र लात्वा दीक्षां क्रमान्मुदा / शत्रुञ्जये ययौ मुक्ति-पुर्यां सर्वतमःक्षयात् // धर्मपुर्यां धनक्षोणी-पति ायैकमन्दिरम् / तथाऽपात् पृथिवीलोकान् यथाऽभूवन् सुखान्विताः // आगते परचक्रे तु भूपः सन्नह्य तत्क्षणात् / निर्गत्य विद्विषो शेषान् वशीचक्र भुजौजसा // अन्येऽपि धर्मसूरीशो-पान्ते धर्म जिनोदितम् / शुभाव भूपतिर्भक्त्या कल्याणसातदायकम् // आत्मानं सततं रक्षेद् ज्ञानध्यानतपोबलैः / प्रमादिनोऽस्य जीवस्य शीलरत्नं विलुप्यते // छित्त्वा स्नेहमयान् पाशान् भित्त्वा मोहमहार्गलाम् / सच्चारित्रसमायुक्ताः शूरा मोक्षपथि स्थिताः // कर्मणा मोहनीयेन मोहितं सकलं जगत् / धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः // अहो ! मोहस्य माहात्म्यं विद्वांसो येऽपि मानवाः। मुह्यन्ति तेऽपि संसारे कामार्थ रतितत्पराः // शत्रुजये गिरावेत्य येऽर्चयन्ति जिनेश्वरान् / तेषां स्यात् सफलं जन्म जीवितव्यं धनं पुनः // शत्रुञ्जये जिनागारं कारयन्ति जना हि ये / तेषां करतले स्वर्ग-कल्याणशर्म जायते / / पूजाऽर्हतां गुरौ भक्तिः श्रीशत्रुञ्जयसेवनम् / चतुर्विधस्य सवस्य सङ्गमः सुकृतैर्भवेत् / / श्रुत्वेति धर्मभूपालः प्रेष्य कुङ्कुमपत्रिकाः। सङ्घमाकारयामास गन्तुं शत्रुजयाचले // भूरि . स्वर्णजिनावासान् कारयित्वा वरेऽहनि / स्थापयित्वा जिनांस्तेषु चचालावनिनायकः // ग्रामे प्रामे पुरे पुर्या स्नात्रपूजाध्वजादिकम् / कुर्वाणः कारयन् शत्रुञ्जये तीर्थे नृपोऽगमत् // तत्र मुख्यजिनावासे स्नात्रपूजाध्वजादिकम् / कृत्यं स्वयं वितन्वानो नृपश्चाकारयज्जनान् // मुख्याईदालये तीर्थो-द्धारं विधाय रैव्ययोत / स्नात्रपूजादिकृत्यानि चकारावनिनायकः // शिखरे मरुदेवाया अजितस्य जिनेशितुः / प्रासादं कारयित्वा तद्-बिम्बं न्यवीविशत् क्रमात् // श्रीसम्भवजिनाधीश-प्रासादं प्रौढमन्यदा / कारयित्वा च तद् बिम्बं तत्र न्यवीविशन्नृपः // क्रमाल्लात्वा व्रतं क्षिप्त्वा सर्वकर्म शुभाशुभम् / कल्याणनगरे भूपो जगामामलमानसः // 32 // .. इति असङ्ख्योद्धारविषये कथा। अन्यदा पार्वतीर्थशः प्रधोधयन् भुवस्तलम् / भूरिसाधुसुरासेव्यः सिद्धाद्रौ समवासरत् / / कृते वप्रत्रये रुप्य-स्वर्णरत्नमये सुरैः / उपविष्टः प्रभुर्धम्मों-पदेशमिति चकृवान् / / 'आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुमिः कालोऽपि न ज्ञायते / दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् ' / जइ धम्मक्खर संभलइ नयणे निद्द न माइ / वत्त करंता मरकलई कवकई रयणि विहाई।। अनादि-भवपाथोधि- तारकोऽयं शिवाचलः / यं श्रयन्ति जना भव्या नाभव्याः स्प्रष्टुमप्यहो ! // सर्वतीर्थमयोऽद्रीशो विमलो विमलात्मनाम् / दुर्गतिद्वितयं हन्ति दृष्टमात्रोऽर्चया तु किम् ? // नामुष्य तीर्थतोऽप्युच्चो विद्यते कनकाचलः / अत्रस्थस्त्वरितं मुक्तिः प्राप्यते दूरगापि हि / / आकण्यतज्जना भूपा बहवः श्रीजिनोदितम् / धम्म ललुबतं चापि