________________ शत्रुञ्जय-कल्पवृत्तौ . पालिते शैलको गुरुः / ययौ यावत्तदाऽऽयातो वन्दितुं तं महीपतिः // शीतलोऽवक् तदा जीवदयामूलं घृषं तु यः / करोति स व्रजत्येव महोदयपुरी रयात् / / यश्चारित्रमादाय गत्वा शत्रुञ्जये गिरौ। तंतन्यते तपस्तीनं स याति परमं पदम् // श्रुत्वेति देशनां पुत्रं राज्ये न्यस्य निजे क्षणात् / धरापालो ललौ दीक्षा शीतलाचार्य-सन्निधौ / / भूपेन सह भूपालाः सहस्रं तस्य सेवकाः / संयम जगृहुस्तत्र कल्याणसुखदायकम् // प्रबोध्यैवं नृपान भूरीन जनांश्च जिनधम्मिणः / ययौ शत्रुञ्जये शैले कल्याणकमलाप्रदे // तत्रस्थः शीतलाचायों बोधयन् भविनो बहून् / अनेक-साधु-संयुक्तो ललावनशनं तदा / / तदा शैलकसूरीश-शिष्यः शुभङ्कराभिधः। देवान् नन्तुं शिवक्ष्माभ्रे समागाद् भूरि-साधुयुग् // तत्रोपदिशतस्तस्य सूरेभविकमानवाः। लक्षमेकं ललौ दीक्षां संसारार्णवतारणीम् // धर्मध्यानपरः सूरिः शीतलोऽसङ्खथ-साधुयुग / अवाप केवलज्ञानं घातिकम-ततिक्षयात् // तत्र शीलकसूरीशः शुकाचार्यादि-संयुतः / सर्वकर्मक्षयान्मुक्तिनगर्या समुपेयिवान् / / शुभकरगुरोः शिष्य-शतानन्दगुरूत्तमः / विहरन् पृथिवीपीठे भृगकच्छपरे ययौ // तत्र कुन्तलभूपालो गुरूपान्ते वरोशयः / धर्म श्रोतुं यदायासी-त्तदेति गुरुरूचिवान् / औषधं परमं ज्ञेयं धर्मो वृत्तं तपो जपः / दानं पूजादिकं सर्व-रोगक्लेशविनाशकम् / / नश्यन्ति येन धर्मेण जन्ममत्यजरादिकाः। किं न नश्यन्ति तेनैव रोगक्लेशभयादयः ? / / इन्द्रियाणां जये शरः कर्मबन्धे च कातरः। तत्त्वार्थाहितचेतस्कः स्वशरीरेऽपि निस्पृहः / / कुन्तलो भूपतिः श्रुत्वा धर्मं सोमाभिधं सुतम् / स्वपट्टे न्यस्य जग्राह चारित्रं मुक्तिदायकम् // कुन्तलोऽथ यतिः शत्रु-अये गत्वाऽन्यदा क्रमात् / ध्यानं कुर्वन् ययौ मुक्ति-नगर्या तमसः क्षयात् / / एवं स्थापत्यकासू नु-सूरिमुख्या गणाधिपाः / शत्रुञ्जये गिरौ सिद्धि-नगर्या समुपाययुः // एवमन्येप्यासङ्ख्याताः साधवः सिद्धपर्वते / क्षिप्त्वा काष्टकं मुक्ति-नगर्या समुपागताः // 89 // इति स्थापत्यासुत-शुकसूरिमुक्तिगमनस्वरूपम् / ' अस्संखा उद्धारा असंखपडिमाउ चेहआसंखा / जहिं जाया जयउ तयं सिरिसत्तुंजयमहातित्थं // 24 // यत्र शैले प्रासादबिम्बोद्धाराः, असङ्ख्याता ‘जाता' बभूवुः, तत्तीथं जयतात् / / तथा हि भरतप्रमुखक्षोणी-नायकैर्बहुभिः क्रमात् / यैरुद्धाराः कृताः शत्रु-अये तीर्थ शिवप्रदे // तेषां सङ्ख्या मनाग नैव ज्ञायते मन्दबुद्धिभिः / श्रूयन्ते ज्ञायन्तेऽधुना तेषां क उद्धारका जने // अयोध्यायां पुरि क्षोणी-नाथश्चन्द्रमहीपतिः। स्वामिवंशेऽभवत् प्रौढो बहुसेनासमन्वितः॥ सोऽन्यदा कमलाचार्यसमीपे धर्ममार्हतम् / शृण्वानः सिद्धशैलस्य माहात्म्यमशृणोदिति / / यो दृष्टो दुर्गति हन्ति प्रणतो दुर्गतिद्वयम् / सङ्घशाहन्त्यपदकृत् स जीयाद् विमलाचलः / / महास्नात्रमहापूजा-ध्वजावारिकयान्वितः / सधपूजेति कृत्यानि पञ्च साधिपे क्रमात् // तौ द्राविडवारिखिल्लो दशकोटिसमन्वितौ। निर्मलं केवलं प्राप्य सिद्धिं शत्रुञ्जये गतौ // यथा चैत्रस्य राकायां पुण्डरीकोऽगमच्छिवम् / कार्तिकस्य तथैवेति तदेते पर्वणी स्मृतौ // सिंहव्याघ्राहिशबर-पक्षिणोऽन्येऽपि पापिनः। दृष्ट्वा शत्रुञ्जयेऽहन्तं भवन्ति स्वर्गगामिनः // यात्रां शत्रुञ्जये तीर्थे ये कुर्वन्ति सुधर्मिणः / त एव स्वर्गसौख्यानि लब्ध्वा