________________ स्थापत्यासुत-शुकसुरिमुक्तिगमनस्वरूपम् सिद्धिक्षेत्रमुपागमत् // इतः शीलकसूरीशो रोगाक्रान्ततनुः क्रमात् / शीलके पत्तने स्वर्गि-पुरवर्ये समीयिवान् // आगतं पितरं बाह्यो-द्याने मण्डुकभूपतिः / ज्ञात्वा गत्वा च तत्राशु शुश्राव धर्मदेशनाम् / / नास्ति कामसमो व्याधि-नास्ति मोहसमो रिपुः / नास्ति क्रोधसमो वह्नि-र्नास्ति ज्ञानसमं सुखम् / कषायविषया"नां देहिनां नास्ति निर्वृतिः / तेषां च विरमे सौख्यं जायते परमाद्भुतम् / / धर्मं करोति यो नित्यं सम्पूज्यनिदशेश्वरैः / लक्ष्मीस्तं स्वयमायाति भुवनत्रयसंस्थिता // वैराग्यसारं भज सर्वकालं निम्रन्थसङ्गं कुरु मुक्तिबीजम् / विमुञ्च सङ्ग कुजनेषु मित्र ! देवार्चनं त्वं कुरु वीतरागे / देशनान्ते गुरूपान्ते श्राद्धधम्म महीपतिः। लात्वाऽप्राक्षीद् गुरो ! किं ते रोग ईदृग् विलोक्यते ? // चिकित्सा क्रियतां किश्चित् यया नीरोगता भवेत् / देहेन क्रियते धम्मों महोदयसुखप्रदः // इत्यादि-युक्तितः पर्य-वसाय्य भूपतिर्गुरुम् / अनैषीद् भेषजं रोग-छेदाय तत्र तत्क्षणात् // आदौ कुर्वन्नसावद्य-मौषधं स गुरूत्तमः / भुङ्क्ते मधुरमाहार-मौषधं च निरन्तरम् // कल्पाकल्पाविभागेना-हारादिकोषधानि च / भुञ्जानो गुरुराड नैव विरराम मनागपि // बहूनि हायनान्येवं भोजं भोजं यथेप्सितम् / आहारमौषधं सूरि-बुभुजे रसगृद्धितः // यतः- " क्रमाद्रोगे गतेऽप्येष सूरिः सुरसलोलुपः / भुङ्क्ते स्म स्वयमानीतं साध्वानीतं गलावधि // 1 // ततश्चारित्रिणः शश्वद् गुरूणां पुरतस्त्विति / उपदेशं ददुर्दैवाकल्पं भोक्तव्यमेव हि // धर्म एवौषधं शश्वत् कार्य स्वहितमिच्छुभिः / धम्मौषधाद् भवन्त्येव स्वर्गादिसुखसम्पदः // यतः-" व्याधिदुःखभराक्रान्ता नीयन्ते यममन्दिरे / प्राणिनः को भवेत् प्राता धर्म देवगुरुं विना ? // 1 // " धर्म ज्ञानं च चारित्रं तपो दानं जपादिकम् / शरण्यं मुनिभिः प्रोक्तं दुःखशोकान्तकं नृणाम् // स्वयं घर्षति हस्तौ च प्राणी भालं निहन्ति च / वाक्येनापि समर्थोऽयं हा ! हा! धर्म विना मृतः // निषिद्धः साधुभिवृद्ध-र्न निवृत्तो यदा रसात् / तदैकं पिच्छिकं साधु मुक्त्वाऽन्यत्र ययुश्च ते।। भुङ्क्त्वा स्वपिति सूरीश-स्तथा निर्भरमन्वहम् / यथा जानाति नो सायं प्रातर्वा धर्मकर्म च // कार्तिके मासि राकाया-मन्यदा पिच्छको यतिः / प्रतिक्रमन् गुरौ सुप्ते क्षमणार्थमदाच्छयम् / / हस्तस्पर्शनतोऽकस्मा-दुत्थितः शीतलो जगी / केनाथ पापिनेदानी-महमुत्थापितः खलु // पिच्छकस्तु गुरोः पादे लगित्वाऽऽचष्ट शिष्टधीः / चतुर्मासिकपर्वत्वात् क्षामिता गुरवो मया // अपराधो मया यो यश्चक्रे विमूढचेतसा / स एव भवतेदानी क्षन्तव्यो हितमिच्छता // यतः- " अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया / नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः // 1 // " विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि / विना प्रदीपं शुभलोचनोऽपि निरीक्षते कुत्र पदार्थसार्थम् ? // धिग मया क्षमणा-दम्भा-चतुर्मासिकपारणे / यूयं जागरिताः पूज्या-स्तत् क्षमध्वं क्षमापराः॥ शिष्यस्येति वचः श्रुत्वा चित्ते विलजितो गुरुः / चारित्रदूषकं बाढं निनिन्दात्मानमात्मसात् // रसनेन्द्रियदोषेन मया पापात्मना खलु / आनीन्ये धर्ममाणिक्ये मालिन्यं साम्प्रतं ध्रुवम् // यतः-" यो जिह्वालम्पटो मूढः खाद्याखाद्यं न मन्यते / अखाद्यं भक्षयित्वा स दुर्गतिं याति पापधीः // 1 // तिलमात्रसमे कन्देऽनन्ता जीवसंस्थिताः / तस्य भक्षणतो भुक्ताः सर्वे जीवाः कुदृष्टिमिः // 2 // " शीतलः सूरिराट् शिष्यं क्षमयित्वाऽऽत्मसाक्षिकम् / प्रतिक्रान्ति व्यधात् सम्यक् कृतपाप-ततिच्छिदे // " सीइज्ज कयावि गुरु तंपि सुसीसा सुनिउण-महुरेहिं / मग्गे ठवंति पुणरवि जह सेलगपंथगो नायं // 1 // " विकृतीः षडपि त्यक्त्वा स्वकृत्यगर्हणापरः / परिवारयुतोऽचालीद् भव्यान् बोधयितुं क्षितौ // धारापुरे धरापाल