________________ शत्रुक्षय-कल्पवृत्ती यतः-"अहो ! मोहस्य माहात्म्यं विद्वांसोऽपि च मानवाः / मुह्यन्ति तेऽपि संसारे कामाय रतितत्पराः / / कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः / मदो माया तथा मोहः कन्दपों दर्प एव च / / एते हि रिपयो घोरा धर्मसर्वस्वहारिणः / एतैर्बम्ध्रम्यते जीवः संसारे बहुदुःखदे // रागद्वेषमयो जीवः कामक्रोधवशं गतः / लोभमोहमदाविष्टः संसारे संसरत्यसौ // श्रुत्वैतद्वचनं तम्य कृष्णो दीक्षाभिलाषिणः / पटहोद्घोषणात् तत्रा-कारयत् सर्वतो बहून्॥ अमिलन् पुरुषा वृत्तेच्छवः सहस्रशस्तदा। स्थापत्या कारयामास पुरीशोभां पदे पदे / / स्थापत्यानन्दनोऽसङ्खय-सज्जनश्रेणिसंयुतः / मातृकंसरिपुभ्यां च कार्यमाणे महोत्सवे / / पूजयित्वा जिनं दानं ददत् पदे पदेऽर्थिने / नेमिनाथान्तिके दीक्षां गृहीतुं समुपेयिवान् / / युग्मम् / / स्थापत्यानन्दनस्यैव गृह्णतः संयम तदा / दीक्षोत्सवं व्यधात् कृष्णो भूयिष्ठकमलाव्ययात् / / तदा सहस्रशो भूप-सुता इभ्याङ्गजादयः / नेमिपार्श्व ललु-दीक्षां कल्याणकमलाप्तये // स्थापत्यासू नुगेहिन्यः सर्वाः पत्या समं तदा / संयमं जगृहुर्नेमि-जिनेशस्यान्तिके मुदा // ज्ञातनिःशेषसिद्धान्त स्थापत्यानन्दनं क्रमात् / ज्ञात्वा नेमिर्ददौ तस्मै पदं सूरेः सदुत्सवम् / / स्थापत्यासू नुराचार्यः समेत्य शैलके पुरे। शैलकं भूपति जैन-धर्ममग्रोहयत्तदा / / तत्र सुदर्शनो मिथ्या-दृष्टिः शैलकसन्निधौ / त्यक्त्वा मिथ्यात्वमादातु-कामोऽभूदाहतं वृषम् // यतः-"या देवे देवताबुद्धि-गुरौ च गुरुतामतिः / धम्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते // 1 // अदेवे देवताबुद्धि-रगुरौ गुरुधीः पुनः / अधर्मे धर्मधीरेव मिथ्यात्वमिदमुच्यते // 2 // " सुदर्शनगुरुः शिष्य-सहस्रयुक शुकामिधः / सुदर्शनस्य बोधाय सद्यस्तत्र समागमत् // गत्वा सुदर्शनोपान्ते परिबाट शुक ऊचिवान् / त्वया पाखण्डिनः पार्श्व धर्मः किं जगृहेऽधुना / / सुदर्शनो जगौ ज्ञानी स्थापत्यानन्दनो गुरुः / कृपापात्रं गुरुधिया-ङ्गीचक्रे साम्प्रतं मया / / स गुरुः सेव्यते सद्भिः योऽपारभववारिधिम् / स्वयं तरन् परानुत्ता-रयत्येव जनान् बहून् // " भारी कम्मा जीवड़ा जो बुझिस्सइ तो बुज्झ / सयल कुटुंबह खायसि माथाइ पडिसेह तुझ // 1 // बाहिरि मूढ म जोइ ए खाइवा मेलावड़ो / धणकारणे सहु कोइ तू कारणी कोइ नहीं // 2 // " धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः / सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते // " अक्खर अक्खइ किंपि न इहई चउगइ भव संसारह बीहइ / संजमनियमेहिं खण नवि मुच्चइ साहम्मी सुहगुरु वुच्चइ // 1 // दुहं थ घरि भज्जा करिसण किज्जइ कवण सीस कवणु / गुरु भणिज्जइ-मूढउ लोओ अयाणु भणिज्जइ (न बुज्झइ) कदम कद्दमेण किमु सुज्झइ // 2 // " इत्यादि-युक्तिवचनैः सुदर्शनेन सद्धिया। शुको निरुत्तरीचक्रे तथा मौनं यथा व्यधात् // ततो धर्ममयैर्वाक्यै-मिथ्यात्वगरलं क्रमात् / उत्ताय सूरिणाऽग्राहि शुकः शिष्ययुतो व्रतम् / / पठित्वा जैनशास्त्राणि प्रोप्य सूरिपदं गुरोः। शुकाचार्यों बहून् भव्यान् प्राहयामास धीवरः / / प्रबोध्य भविनो भूरीन् जैनधर्मे शिवप्रदे / ज्ञात्वा मृत्युं ययौ सिद्ध-शैले स्थापत्यकाङ्गजः // संसारभीलुकस्तत्र स्थापत्यानन्दनो गुरुः / क्षमित्वा निखिलान् जीवान् सम्प्राप्याऽनशनं तदा // मासान्ते केवलज्ञानं प्रोप्य स्थापत्यकाङ्गजः। परिवारयुतः कर्म-क्षयात्तत्र शिवं ययौ / / इतः शुकगुरुः पृथ्व्यां प्रबोधयन् बहून् जनान् / शीलकाख्यपुरं प्राप शीलकक्ष्मापपालितम् / / शुकः सूरिः प्रबोध्य च शीलकं तत्र भूपतिम् / मन्त्रि-पञ्चशतीयुक्त-मदीक्षयत् सदुत्सवम् / / अधीत-द्वादशाङ्गः श्री शीलकाचार्य इद्धधीः। प्राप्य सूरिपदं भव्यान् बोधयामास भूरिशः // शुकाचार्योऽपि भव्याङ्ग-भाजः प्रबोधयन् बहून् / गत्वा शत्रुञ्जये प्राप केवलज्ञानमादरात् // मासान्ते ज्येष्ठराकायां सहस्रसाधुसेवितः / सर्वकर्मक्षयात्तत्र