________________ शत्रुञ्जय - कल्पवृत्तिः (द्वितीयो विभागः) अन्नेवि भरह-सेलक-थावच्चासुयसुयाइ असंखा / जहिं कोडिकोडि सिद्धा जयउ तं पुंडरी तित्थं // 23 // अन्येऽपि भरतः सेलकः स्थापत्यासुतश्च तस्य सुतः, इत्यादयोऽसङ्खथा कोटिकोट यः सिद्धाः यत्र जयतात् तत् पुण्डरीकाख्यं तीर्थम् / अत्र कथा द्वारवत्यामभूत् स्थाप-त्याह्वः सार्थपतिर्वरः। स्थापत्या गेहिनी तस्य बभूव शीलशालिनी // स्थापत्यासू नुरित्याह्नः सू नुस्तस्याऽभवत् क्रमात् / द्वात्रिंशत्कन्यकानां तु चकार पाणिपीडनम् // यतः“धम्मेण कुलप्पसूइ धम्मेण य दिव्वरूवसंपत्ती / धम्मेण धणसमिद्धी धम्मेण सवित्थरो कित्ती॥१॥' अन्येधुर्नेमिनः पार्श्वे स्थापत्यानन्दनोऽनघः / धर्मस्य देशनां सम्यक् सुश्रावेति कृताञ्जलिः // संसारे पर्यटन जन्तु-र्बहुदुःखसमाकुले / शारीरं मानसं दुःखं लभतेऽतीव दारुणम् // आर्तध्यानगतो मूढो न करोत्यात्मनो हितम् / तेनासौ सुमहत् क्वेशं परत्रेह च गच्छति // ज्ञानभावनया जीवो लभते हितमात्मनः / विनयाचारसम्पन्नो विषयेषु पराङ्मुखः // आत्मानं भावयन्नित्यं ज्ञानेन विनयेन च / दुःखं न लभतेऽमुत्र परत्र च जनः कचित् // इत्यादि-देशनां नेमि-नाथस्य सन्निधौ तदा / निशम्य विषय-ग्रामे विमुखोsजनि स क्रमात् // स्थापत्यासू नुरन्येद्यु-र्ययाचे मातरं व्रतम् / माताऽवग् दुष्करा दीक्षा त्वं लघुर्विद्यसे सुतः // पुत्रः प्राह लघुः कोऽस्ति वृद्धो वा मानवोऽत्र हि / वृद्धं लघु यतो लाति दुःखिनं सुखिनं यमः / / यावत् स्वास्थ्यं शरीरस्य यावच्चेन्द्रियसम्पदः / तोवधुक्तं तपः कत्तुं वार्द्धके केवलं श्रमः // यतः"गर्भस्थं जायमानं शयनतलगतं मातुरुत्सङ्गसंस्थं, बालं वृद्धं युवानं परिणतवयसं विज्ञमाय खलं वा / वृक्षाने शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरे वा, पाताले च प्रविष्टं हरति सततं दुर्निवार्यः कृतान्तः // 1 // " गुरुशुश्रूषया जन्म चित्तं सद्ध्यानचिन्तया / श्रुतं यस्य शमे याति विनियोगं स पुण्यवान् / / छित्वा स्नेहमयान् पाशान् मित्त्वा मोहमहार्गलाम् / सच्चारित्रसमायुक्ताः शूराः मोक्षपथे स्थिताः॥ कर्मणा मोहनीयेन मोहितं सकलं जगत् / धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः / इत्यादि-सूक्तसतिः स्थापत्यानन्दनः क्रमात् / जननी मानयामास संयमादानहेतवे // तदा सर्वाः स्नुषाः प्रोचुः श्वश्रू प्रति कृतादरम् / यत् पतिः करोत्येवा-स्माभिः कार्य तदेव तु॥ यतः-.-"पत्यौ प्रव्रजिते सा स्त्री गृहाति संयम किल / तस्याः शिवेन्दिरा हस्ते जायते नात्र संशयः // 1 // " स्थापत्यो रत्नसम्पूर्ण स्थालं मुक्त्वा हरेः पुरः / व्यजिज्ञपत् स्वसूनोस्तु दीक्षादानकदाग्रहम् // कृष्णोऽवक् ते सुतो धन्यो यस्यास्त्येवं मनोरथः / ममाभाग्यवतो नेच्छा संयमग्रहणे मनाम् // ततस्तत्र समाकार्य स्थापत्यासुतमच्युतः। प्राह कथं त्वया सौख्य-मीदृग यत्र विमुच्यते // स्थापत्यानन्दनः प्राह संसारे विषमेऽत्र हि / दुःखाघ्रातं सुखं सर्व दृश्यते साम्प्रतं मया // 23 //