________________ शत्रुजव-कल्पवृत्ती यः शत्रुञ्जयतीर्थे तु यात्रां कुर्वन् जिनाधिपान् / प्रपूजयति मोक्षं स प्राप्नोति रामविप्रवत् / / तथाहि भाग्येन सर्वसम्पत्तिः सजायेत पदे पदे / द्वियामरामविप्रस्य यथा तथा नृणामपि / / अवन्त्यां हरिविग्रस्य गेहिनी हरिसुन्दरी / बभूव विना लक्ष्मी दुःखी विप्रोऽभवद् भृशम् // भ्रामं भ्रामं पुरी. मध्ये स्वल्पं प्राप्य धनं सदा / कष्टेन विदधे स्वीय-निर्वाहं विभवं विना / / क्रमात् सप्ताऽभवन् पुत्र्यस्तस्य न श्रीगृहे पुनः / अतो बुभुक्षयाऽत्यन्तं पीड्यते तत् कुटुम्बकम् // यतः-" कुग्रामवासो(सः) कुनरेन्द्रसेवा कुभोजनं क्रोधमुखी च भार्या / कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवन्ति / / व्रजत्येवं तदा काले पुत्रोऽभवद्यदा तदा। मध्याह्ने द्रम्मलाभोऽभूत्तदा तस्यैव भाग्यतः // जन्मोत्सवे कृते तस्य सूनोः सज्जनसाक्षिकम् / द्विप्रहरक राम इति प्रददौ जनकस्तदा / / क्रमात् स यौवनं प्राप्तो जगौ मातुः पितुः पुरः / द्रव्यार्थमन्यदेशेऽहं गमिष्याम्यनुमन्यताम् / यतः- " दीसह विविहचरियं जाणिज्जइ सुजणदुज्जणविसेसो / अप्पाणं च किलिज्जइ हिंडिज्जइ तेण पुहवीए // 1 // " इत्युक्त्वा मातृपित्रंही-न्नत्वा देशान्तरे चलन् / रामोऽप्राक्षीन्नरं कश्चित् कुत्र श्रीः प्राप्यते वद ? | नरोऽवग् रोहणे वाडौं रत्नानि सन्ति भूरिशः / यस्य भाग्यं भवेत्तस्मै दत्तस्तौ तानि निश्चितम् // ततो वार्द्धितटे गत्वा जगौ स जलघे ! त्वकम् / रत्नाकरोऽसि तेन त्वं मह्यं रत्नानि देहि भो! // नो चेदहं करिष्याम्या-त्मनो हत्यां तवोपरि / महत्त्वं तेऽम्बुधे ! सर्वं गमिष्यति न संशयः // उपवासेषु बहुषु जातेषु स वारिधिर्जगौ। साहसं तु त्वया चक्रे प्रसन्नोऽस्मि ततस्तव / / यतः-“साहसियाण लच्छी हवइ न हु कायराण पुरिसाई(ण)। कन्नह कुण्डल रयणमय अंजणं होइ नयणाई।।१॥" मह्यं रत्नानि देहि त्व-मित्युक्ते तु द्विजन्मना। वितीर्य पञ्च रत्नानि जगाविति पयोनिधिः / / कष्टेन तव रत्नानि स्थास्यन्ति सन्निधौ द्विज ! / विप्रोऽवग मयि रत्नानि कथं स्थास्यन्ति वारिधे ! // अब्धिदेवोऽभणद् वाम-याम्यौ मार्गों स्त एव तु / वामे मार्गेऽटवीमध्ये भिल्ला विद्यन्त एव हि // ते लुण्टन्ति धनं पान्थ-पाश्र्वात् सर्वं बलादिना / ज्ञापयन्ति व्रजन्तं श्री-मन्तं नन्वत्रवायसाः // यास्यामि दक्षिणे मार्गे गदित्वेति तदा द्विजः / सभीरूरं विदार्यैव रत्नानि प्राक्षिपद्रहः // ततश्चलन् द्विजो मूढो वाममार्गे गतो यदा / तदोवं तम्य शीर्षस्य चक्रुः कोलाहलं द्विकाः // रामो दध्यावभाग्यं मे साम्प्रतं विद्यते भृशम् / यतोऽब्धिमरुता मार्गे निषिद्धोऽपि समागमम् // यतः-" अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते / विधिरेव तानि घटयति यानि पुमान् नैव चिन्तयति // एवं चिन्तयतस्तस्य पल्लीशसेवकास्तदा / गृहीत्वा तं हठात् पल्ली-पतेः पार्वेऽनयन् द्रुतम् // पल्लीशः प्राह जामातः ! कुत आगा इहोधुना / स साहसी जगौ वार्द्धि-तटादत्रागमं ध्रुवम् // पल्लीशोऽवक् पवित्रं मे गृहं जातं तवाऽऽगमात् / त्वं तिष्ठाऽत्र सुखं दास्ये भोजनं वसनादि च // एका मे विद्यते पुत्री वर्या तां वृणु साम्प्रतम् / ततः कपटतः पुत्री तस्मै पल्लीपतिर्ददौ / / ततश्च मर्दनामङ्गे दापयित्वाङ्गमर्दकात् / पल्लीशः पञ्च रत्नानि जज्ञौ तस्यान्तिके तदा // ततः पुत्र्यन्तिकाद् वयं दापयित्वाऽथ भोजनम् / हत्वा तमीहते पञ्च रत्नान्यात्तुं स पल्लिराट् // ततः पल्लोपतेः पुत्री भोजयन्ती पतिं निजम् / अन्तरा घूर्णिकं मद्यं ददौ रत्नाप्तये रहः // शायितं वरपल्ल्यङ्के सुप्तं पल्लीपतेः सुता / छन्नं करौ क्रमौ तस्याऽबध्नात्तल्यांहिषु ध्रुवम् // हन्तुं कान्तं गले पोशं यावद् दत्ते प्रियाऽधमा / तावदुत्थाय रामोऽवग वाण्या मधुरया प्रियाम् // यतः-" महुरं निउणं थोवं कज्जावडिअं अगव्वियमतुच्छं / पुव्वं मइसंकलियं भणंति जं धम्मसंजुत्तं // 1 // " भो कान्ते ! त्वं कथं हंसि मां पतिं प्राणवल्लभम् / भर्तुर्हत्या