________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 231 0000000000000 naasa000000000000000000000000000000. 0000000 पतित्वा पादयोस्तस्य कृष्णो जगाविदं तदा / क्षमस्व दुर्विनीतत्वं मम देहभूवां ऋषे ! / / 766 / न कुप्यन्ति रिपौ सन्तः पीडिता अपि बालिशैः / किन्तमःपीडितोऽपीन्दुः कर दहति जातुचित् // 767 / / द्वीपायनो जगौ क्षान्तं मयाऽद्योपरि ते नृप ! / निदानं नान्यथा प्रायो जायते विहितं नृप ! // 798 / / प्रणम्य तमृषि कृष्णो गत्वा पुर्या विस्मृत्य तत् / पपाल जनता भुङ्क्त भोगान् स्वचित्तचिन्तितान् / / 766 / / ततो मृत्वा ऋषिर्वह्नि कुमारेषु सुरोऽभवत् / जज्ञौ चावधिना कृष्ण-पुत्रैः कृतं पराभवम् // 800 // इतोऽप्राक्षी जिनं कृष्णः कथं शाम्यत्युपप्लवः / पुरस्यास्य ततः प्राह नेमीशस्तपसा खलु // 801 / / श्रुत्वैतत् पट हात् कृष्ण-वादितान् नगरीजनः / आचाम्लादि तपः शश्वत् कुरुते स्माऽऽदरपूर्वकम् / / 802 / / अत्रान्तरे प्रभुः कुर्वन् विहारं रैवताचले / उपेत्य समवासाद् िभूरिसंयतसेवितः / / 803 // तत्र प्रभोगिरं भूरि-भवासातापहारिणीम् / यादवा बहवा दीक्षां जगृहुः स्वामिसन्निधौ / / 804 // शाम्बप्रद्य म्ममुख्यास्ते कोटिशो हरिसूनवः / वैराग्यवासितस्वान्ताः स्वाम्यन्ते संयमं ललुः / / 805 / / रुक्मिण्याचा हरेः पत्न्यो बढ्योऽन्याः श्राविकाः पुनः / प्रभोः प्रायें व्रतं लात्वा तेपुश्च प्रचुर तपः // 806 / / भाविनं द्वारकादाहं निशम्य प्रभुसन्निधौ / जिनं नत्वा हरिः पुर्या जगामाऽमलमानसः / / 807 // तपस्यति जने तीव्र तपः श्रुत्वा जिनाननात् / दग्धुन नगरी शक्तः कृष्णद्वीपायनस्तदा ||808 // देवयोगाद् विहारं तु प्रभावन्यत्र कुर्वति / कारं कारं तपो लोको निवृत्तस्तपसोऽखिलः // 809 / / ऋषिः सोऽग्निसुरः पुर्या-मुत्पातान् दर्शयन् जने / वात्याभिस्तृणकाष्टानि चिक्षेपान्तः पुरेऽभितः // 10 // सर्व पुरं तदा सोऽग्नि-कुमारोऽमरशात्रवः / भस्मीचक्रे विना राम-कृष्णो दीक्षाभिलाषिणः // 811 / / उक्तश्च-'पष्टिं बाह्या कुलकोटिः द्वासप्ततिं तु मध्यगाः। संपीड्य द्वारकापुर्या सो सुरोऽग्निमदीपयत् / / 812 / दह्यमाना जना ये येऽस्माष्मि व्रतेच्छवः / ताँस्तान सुराः प्रभूगन्ते मुमुचुस्ते व्रतं ललुः / 813 / / देवकीवसुदेवौ च कृष्यमाणौ पुराबहिः / पुत्राभ्यां ददते नासौ सुरो निर्गन्तुमंहसा / / 814 // वसुदेवो देवकी च रोहिणी च समाधिना / गृहीत्वाऽनशनं प्रापु-निर्जगलयमञ्जमा / / 815 / / बलकृष्णौ तदा देव-त्रोत्तौ पुर्या बहिभुवि / गत्वाऽग्निदह्यमानां तु पुरी वीक्ष्योचतुर्मिथः / / 816 / / यतः 'अनित्यानि शरीराणि विभयो नैव शाश्वतः / नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसङ ग्रहः // 1 // " स्फुरन्त्युपायाः शान्त्यर्थ-मनुकूले विधातरि / प्रतिकूले पुनन्ति तेऽप्युपाया अपायताम् // 817 / / ज्यालामालाकुलां स्वीय-पुरीं द्रष्टुमशक्नुवन् / कृष्णो भ्रातृयुतोऽचालीन् मथुरां प्रति तत्क्षणाद् / / 818 // इतोऽनलासुरो ज्वाल-यित्वा तामग्निना पुरीम् / षण्मासातिक्रमे वार्द्धि-वारिणाऽप्लाययत् पुनः / / 819 // मार्गे यान्ती बलश्रीशी जातो बुभुक्षितो तराम् / हस्तिकाह्वपुरोद्याने जग्मतुः कर्मयोगतः / / 820 // मुक्त्वा कृष्णं वने भक्ता-नयनाय पुरान्तरे / गतो बलो निरुद्धस्तत् पुरेशेनारिणा द्रुतम् // 821 // युद्धं कुर्वन् बलस्तेना-रिणा सार्धं पुरान्तिके / सिंहनादं तथा चक्रे यथा तत्राऽगमद्धरिः / / 822 // बलकृष्णौ रिपु जित्वा तस्मिन्नेव पुरान्तरे / बुभुजाते ततोऽटव्यां जग्मतुनिर्भयो तदा // 823 / / गच्छन्नथ हरिर्लग्न-तृषो बलं जलहेतवे / प्रेष्य स्वयं तु सुध्वाप वसनाच्छादिताननः / / 824 // इतो भ्रमन् मृगव्येन वने तत्र जराङ्गजः / मृगबुद्वया न्यहन् कृष्णं बाणेन चरणे दृढम् / / 825 //