________________ 230 शत्रुञ्जय-कल्पवृतौ .000000 छट्टट्ठमदसमदुवालसाई मासद्धमासखमणाई / तिगरणसुद्वो लहइ सितज संभरंतो य // 10 // " इत्यादि तीर्थमाहात्म्यं श्रुत्वा कृष्णो धनं बहु / व्ययित्वा तत्र भूमिधे भूरि पुण्यमुपार्जयत् / / 766 // ततः श्री उज्जयन्ताद्रो गत्वा नेमिजिनेश्वरम् / अर्चयन् विस्तरात् कृष्ण-भूपः सङ्घसमन्वितः // 770 // परिधाप्याखिलं सङ्घ वस्त्र वरतरैस्तदा / विसृज्य चाऽऽगमत् स्वीय-पुर्यां मधुरिपुः कमात् / 771 / / ततः प्रतिदिनं ध्यानं शत्रुञ्जयसमाश्रितम् / कृष्णश्चकार पूतात्मा 'प्रातः प्रमोदतः // 772 // अन्यदा नेमिनः पार्श्वे देवकीनन्दनो गजः / धर्मोपदेशनामेतां सुश्रावाऽनघमानसः // 773 // अनाज्यभोज्यमप्राज्यं विप्रयोगः प्रियः समम् / अप्रियः सम्प्रयोगश्च सर्वपापविजम्भितम् / 774 // निद्रव्यो धनचिन्तया धनपतिस्तद्रक्षणे व्याकुलो, निश्रीकस्तदुपायसङ्गतमतिस्त्रीप्राप्त्यपत्येच्छया / प्राप्तापत्यपरिग्रहोऽपि सततं गेगैरभिट्रयते, जीवः कोऽपि कथञ्चनाऽपि नियतं प्रायः सदा दुःखितः / 775 // अाकण्यंतच्च सम्प्राप्त-वैराग्यो गजनन्दनः / नेमिपार्वे व्रतं लात्वा तीव्र वितनुते तपः / / 776 // कायोत्सर्गे स्थितं गज-सुकुमालं यति स्थिरम् / विलोक्य श्वशुरो रुष्टो जगावेवं पुनः पुनः / 777 / मुश्च व्रतं न चेद् हन्मि त्वां नः पुत्रीपते ! द्रुतम् / ध्यानलीनोऽभवत् साधु-र्गजस्तत्र क्षणे दृढम् / / 778|| तदा तन्मस्तके मुक्त्वा शकटीं वह्निपूरिताम् / चिक्षेपेन्धनसङ्घातं भूयोभूयः स वाडवः // 776 // गजस्य कुर्वतः शुक्लं ध्यानं सर्वतमःक्षयात् / उत्पन्नमव्ययं ज्ञानं मुक्तिश्चाभूत्तदा द्रुतम् // 780|| तदाऽग्राक्षीद्धरिः स्वामिन् ! गजस्य कस्य हस्ततः / अभून्मृतिस्ततोऽवादी-न्नेमिह रे पुरः किल // 781 // तवाऽद्य गच्छतः पुर्यां स्फुटित्वा हृदयं स्वयम् / मृति यास्यति ते भ्रातुर्हन्ता स एव भूपते ! // 782 // आगच्छन् केशवः पुर्यां सोमभट्ट द्विज तदा / अकस्मान्मरणे यान्तं भीत्या ददर्श वेगतः // 783 / / ततः कृष्णो जगावेष भाग्यहीनो द्विजो नन् / मुधाऽनेन यतिः प्राण-त्यागश्च कारितः किल / / 784 // कृष्णेनाभिग्रहो नेमि-पार्वे लले इति ध्र वम् / यो लास्यति व्रतं पुत्रः पुत्री वा प्रभुसन्निधौ // 785 / / न निषेध्यो मया स्वामिन् ! स एव नन्दनः क्वचित् / ततो लले व्रतं विष्णो-भू रिपुत्रीसुतादिभिः / / 786|| कृष्णोऽन्यदा जगौ स्वामिन् ! द्वारकेयं मनोहरा / संस्थास्यति कियत्कालं कुतो मे स्यान्मृति पुनः // 787 द्वारकायाः स्वरूपं तु भावि ज्ञात्वा दृढं तदा / प्रभुर्ने मिजिनः प्राह विष्णोरिति पुरः स्फुटम् / / 788|| कृष्णद्वीपायनान्मद्याद् दाहः पुर्या भविष्यति / जराकुमारतो भ्रातु-मृत्युर्भावी तवाऽचिराद् // 786 // ततः कृष्णो बहिः पुर्या सुरामत्याजयत् क्षणात् / कृष्णद्वीपायनो बायो-द्याने तस्थौ तपः परः / / 760 // __अस्माद् भ्रातुमृति मत्वा जराको दृग्मीयिवान् / 791 / / प्रद्युन्नसाम्बभीर्वाद्याः कुमाराः कंसविद्विषः / क्रीडां कत्तगता बाह्यो-द्याने शिलस्थितां सुराम् / / 762 / / वीक्ष्याऽऽकण्ठं पपुर्नर्म-कुर्वाणाश्च परस्परम् / कृष्णद्वीपायनं दृष्ट्वा दध्युस्ते कृष्ण नन्दनाः / / 763 // अस्माद् ऋपेः पुरश्छेदो भ व्यतः पापमानसः / त्वं पापी त्वं पुरछेद -कारीति कृष्णमनवः / जल्पन्तो यष्टिमुष्टया तु बाढं तेऽकुट्टयंस्तदा / हन्यमान ऋषिस्तैश्च निदानमकरोदिति / द्वारकाया विनाशाय भूयासमहमग्रतः / / 764 // मृतप्रायं ऋषिं कृत्वा गत्वास्ते नगरान्तरे / स्वपुत्रचेष्टितं श्रुत्वा कृष्णोऽगाद् ऋषि सन्निधौ / 765 //