________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 226 10000000000000 क्रमाजाते सुते माता देवकी भर्तृ संयुता / सूनो म ददौ गज-सुकुमालेति सोत्सवम् / / 748 // सोमभट्टस्य विप्रस्य पुत्री मनोरमाभिधा / पितुरादेशतस्तेन सूनुनाङ्गीकृता तदा // 749 // अन्येधुर्नेमिनः पाश्व माहात्म्यं सिद्धभूभृतः / सुश्राव केशवश्चैवं योजयित्वाञ्जलिद्वयम् / / 750 // प्राणिभियं समारूढोकाग्रमतिदुर्लभम् / प्राप्यते सर्वतीर्थशः शाश्वतोऽयं शिवाचलः // 751 / तीर्थ चानादि सिद्धाद्रि यत्रानन्ताः शिवं ययुः / तत्र यः कुरुते यात्रां नौति श्रीवृषभं जिनम् / / 752 / तस्य स्तोकभवैरेव मुक्तिर्भवति निश्चितम् / प्रभु पूजयतो भावात् स्तवतो रुचिरैः स्तवैः // 753 / नमस्कार समो मन्त्रः शत्रुञ्जयसमो गिरिः / गजेन्द्रपदशं नीरं निर्द्वन्द्वं भुवनत्रये / / 754 / / कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / शत्रुञ्जयं समाराध्य तिर्यश्चोऽपि दिवं गताः // 755 // पल्योपमसहस्र तु ध्यानाल्लक्षमभिग्रहात् / दुष्कर्म क्षीयते मार्गे सागरोपमसञ्चितम् / / 756 / / श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बभ्रमणतो न भवे भ्रमन्ति / तीर्थेश्वरार्चनकृतो जगदर्चनीया-स्तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः / / 757|| श्रत्वेति तीर्थमाहात्म्यं रैमयान् जिनपालयान् / प्रादौ पञ्चशती कृष्णः कारयामास मोदतः / 758|| यात्रां शत्रुञ्जये कत्तु सर्वान् देवालयान् क्रमात् / रथारूढान् व्यधात् कृष्णः शोभने वासरे किल ||759 / / काष्ठात्मकान् सहस्र तु शतानि सप्त च क्रमात् / कारयामास कंसारि भूयिष्ठविभवव्ययात् / / 760 // सम्प्रेष्य भूरिदेशेषु बह्वीः कुकुमपत्रिकाः / सङ्घमाकारयामास कृष्ण : शोभनवासरे / 761 / / नृणां कोट्यश्चतुर्विश-प्रमाणा भूधवादयः / मिलिता वृषभं देवं नन्तु सङ्घो हरेस्तदा // 762 / / ग्रामे ग्रामे पुरे पुर्यां श्रीजिनेश्वरसमसु / पूजोत्सवं वितन्वानः कृष्णः सङ्घयुतोऽचलत् / 763 / क्रमाच्छत्रुञ्जये गत्वा चक्रे स्नात्रमहोत्सवम् / विस्तगन्मुख्यसर्वज्ञ गेहे कृष्णनरेश्वरः // 764 / ततो गजादनी मुक्ता-फलरामलकोपमैः / मुदा वर्धापयामास त्रिःप्रदक्षिणया हरिः / 765 / / पुष्पैमनोहरः स्वामि-पादुके मुक्तिशर्मदे / कंसारिः पूजयामास भूरिसङ्घसमन्वितः / / 766 / / ततः सर्वेषु सर्वज्ञ गेहेषु श्रीजिनाधिपान् / अर्चयामास कंसारिः पुत्रपत्न्यादिसंयुतः / / 767 / / ततो रमाधयोऽभ्येत्य वरदत्तगुरोमुखात् / माहात्म्यं सिद्धशैलस्य सुश्रावेति कृतादरम् / / 768|| यतः-"भणखत्तियवइसा सद्धाविन्नाणबाहिरा जेवि / तित्यफलं पावें ति अचयसंताते वि सित्तुजे // 1 // जं लहइ अन्नतित्थे चरणेण तवेण बंभचेरेणं / तं लहइ पयत्तेणं सितजगिनिम्मि संपत्तो / / 2 / जं कोडीए दिन्नं कामिअाहारभोयणाए य / तं लहइ तित्यपुन्नं इक्को बासेण सित्तुजे // 3 // गाविय सुवण्णभूमीत्र दाणे अजं भवे पुष्णं / तं लहइ पयत्तेणं पूयाकरणेण सित्तजे // 4 // जो पडिमां चेयहरं सित्तुजगिरिस्त मत्थर कुगइ / भोत्तण भरहवासं वसई सग्गे निरुवसग्गे // 5 // पूयं करेइ विहिणा सित्तज्जे चेझ्याण सव्वेसि / सो पूइज्जइ निच्चं देवासुरमाणुसेहिपि / / 6 / / जंकिंचि नाम तित्थं सग्गे पायालि माणुसे लोए / तं सयलमेव दिट्ठ पुंडरीए वंदिए जाण / / 7 / / अट्ठाय सम्मेर चंपा पावाइ उजिंतनगे य / वंदित्ता पुण्णफलं सयगुणियं होइ पुण्डरीए // 8 // नवकारपोरिसिए पुरिमडगासणे य आयामे | पुंडरीअं च सरंतो फलकखी कुणइ अभत्तट्ठ // 6 / /