________________ 232 शत्रुञ्जय-कल्पवृनो 0000000000 .00000000000000000000000 BA00000000000000000000000 उत्थायाऽथ हरिः प्राह हतोऽहं केन पत्रिणा / वृक्षान्तरे स्थितो जज्ञौ जरामूनुर्हरेर्वचः / / 826 // आगत्य सोदरस्याङ्छी नत्वा जरासुतो जगौ / मया मृगधिया त्वं तु हतः पापात्मनाऽधुना // 827 // द्वादशाब्दीमहं दूर-देशेऽस्थां ते मृतेभिया / पापात्मना मयाऽद्य त्वं हतो दुर्गतिहेतवे ||828 // कृष्णो जगौ न छुट्यत कर्मतः केनचित् क्वचित् / जरासूनो ! व्रजाह्राय दृरे व्रजतु साम्प्रतम् / / 829 // गतोऽम्बुनो(धुना) बलोऽत्रैतो मां त्वया निहतं यदि / ज्ञास्यति त्वां तदा सद्यो हनिष्यति सहोदर ! // 830 // क्षमयित्वा ततः कृष्णं सद्यो जरासुतो ययौ / यावद्धरिमृतस्तावत्तृतीयं नरकं ययौ // 831 // यतः-'एगो य सत्तमाए पंच य छट्ठीइ पंचमी एगो / एगो य चउत्थीए कण्हो पुण तच्चपुढवीए / / 1 // " यतः- "ब्रह्मा येन कुलालवनियमितो बह्माण्डमाण्डोदरे, रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः / विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे // 1 / " इतो बलो जलं नीत्वाऽऽगतः सुप्त सहोदरम् / मत्वा सोऽवक् पिब भ्रात-रुत्थाय सलिलं वरम् // 833 // अब्रुवन्तं हरिं स्नेहा धूनयन् सोदरो बलः / मृतं सहोदरं मत्वा मुमूर्छ च रुरोद च // 834 // अपश्यन् घातकं भ्रातु-र्वनेऽभितो हली नदा / सिंहनादान बहून् जीवान-त्रासयन् निरन्तरम् / / 83 // स्नेहादसे हरिं कृत्वा स्थाने स्थाने वने भ्रमन् / क्षितौ मुक्त्वा वचोभिस्त-मुदलापयदञ्जसा // 836 // यदा न मन्यते कृष्णं मृतं लाङ्गलभृत्तदा / देवा एत्य शिलायां तु पयोजरोपणं व्यधुः // 837|| प्रपील्य वालुकास्तैलं कर्षयन्तः पुनः पुनः / प्राबोधयन् मृतं कृष्णं हलिनं युक्तिहेतुभिः / / 838 / / षण्मासातिक्रमे कणं मृतं ज्ञात्वा तु लागली / चकार वह्निसंस्कारं तस्याऽस्थीनि जलेऽक्षिपत् ||839 // श्रीनेमिसन्निधौ दीक्षां लात्वा हली तपस्तपन् / तुङ्गिकाक्षितिभृच्छ्रङ्ग तस्थौ ध्यानपरायणः / / 840 // पारणायाऽन्यदा गच्छन् पुर्युपान्तेऽवटे स्त्रियम् / स्वरूपमोहितां रजवा बघ्नन्ती स्वसुतं गले // 841 / / कुम्भबुद्धया विमुञ्चानां वीक्ष्याद्विग्नोहली जगौ। मा पुत्र प्रक्षिपाऽन्धौ त्वं सावधानी भवाऽधुना |८४२॥युग्मम् तस्यां त्रिवि निवृत्तायां पुत्रकण्ठस्य बन्धनात् / अभिग्रहं हली तत्र जग्राहेति स्वचेतसि // 843 // अतः परं मयाऽऽहारो निरवद्यो वनान्तरे / गृहीतव्योऽन्यथा भूया-दुपवासो निरन्तरम् / / 844 / / तपस्यतो मुनेस्तस्य साम्यभाजोऽनुभावतः / व्याघ्रसिंहादयः सेवां कुर्वते श्वापदाः सदा / '845 // पूर्वसंसारसम्बन्धी कश्चिदेको मृगो वने / हल्यर्षेः शिष्यवत् सेवां करोति स्म पदोस्तले / / 846 / / यदा तत्र. वने कोऽपि सार्थो जिमति तत्र च / ऋषि नीत्वा सदा प्रत्य-लाभयत् पारणे मृगः / / 847 / / अन्यदा स मृगस्तं च मासक्षमणपारणे / काष्ठहेत्वागताऽनःकृत्-पार्वेऽनैषीत् स्वसंज्ञया [मृगः] // 848 // ऋषि भिक्षा कृते तत्रा-गतं निरीक्ष्य सूत्रकृत् / मुक्त्वा छिन्नार्द्धशाखाकं वृक्षं दानोत्सुकोऽभवत् / / 849 / / ददानो रथकृदानं यतये ध्यातवानिति / मदीयं विद्यते भाग्य-मीटक्साध्वन्नदानतः / / 850|| साधुर्द ध्यौ तदा भाग्यं विद्यते च ममाधुना / यतो मे प्रासुकान्नस्य प्राप्तिर्वर्याधुनाऽर्जिता ||851 // मृगो दध्यौ ममान्न चेत् प्रासुकं भवतीदृशम् / तदाऽहं साधुमीदृशं प्रत्यलाभयमादरात् / / 852 / / तदाऽहं साधवे दानं ददामीक्षमादरात्, पाठान्तरे-एवं चिन्तयतां तेषां मुन्यादीनां तदात्मनि / अकस्मान्मस्तके वृक्ष-शाखाऽपतन्महत्तमा / / 853 / /