________________ 100000000000000000000000 000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000.. शत्रुञ्जयनामोपरि शुकभूपकथा एवं स्तुत्वा प्रभु भक्त्या गागल्यङ्गभवा तदा / प्रणम्य पितरं पत्युः समीपं समुपागमत् // 43 // मृगध्वजोऽपि सर्वज्ञं प्रणम्य गागलिं पुनः। यावचलितुकामोऽभूत् तावत्कीरो जगावदः // 44 // मत्पृष्ठौ भवताऽऽगम्यं त्वरितं त्वरितं नृप ! / ततोऽचलद् नृपः कीर-पृष्ठौ पत्नीसमन्वितः // 45 // इतश्चन्द्रवतीपत्न्या पत्यूराज्ये स्वसोदरम् / आनीय वेष्टयामास नेतु नगरमञ्जसा // 46 // सोऽपि मृगध्वजं भूप-मागतं चावगत्य तु / गत्वा सन्मुखमाचष्ट पातु ते पुरमागमम् / / 47 / / त्वत्सेवकरहं शत्रुः कृत्वेति पुरमध्यतः / सम्प्रविशन्निषिद्धस्तु पूर्या बहिः स्थितस्ततः // 48 // मृगध्वजो जगौ वयं कृतं तु भवताऽधुना / रक्षितं नगरं यस्मात् त्वया मे चन्द्रशेखर ! // 46 // ततोऽभ्येत्य पुरीमध्ये मृगध्वजो लसन्महम् / तस्यै पत्न्यै ददौ सम स्फारं वासकृते तदा // 50 // मृगध्वजविसृष्टोऽय चन्द्रशेखर ईयिवान् / मृगस्ततः पपालोवर्वी न्यायमार्गेण सन्ततम् // 51 // कीरो जितारिजीवस्तु स सुरः स्वर्गतश्च्युतः / अवातरत् ऋषेः पुत्र्याः गर्भे शोभनवासरे // 52 / / क्रमाजाते सुते पित्रा कृत्वा जन्मोत्सवं महत् / शुकेति प्रददे नाम सर्वस्वजनसाक्षिकम् // 53 // कौमुद्या उत्सवेऽन्येद्य-भू मीनाथः प्रियायुतः / गत्वोद्याने निविष्टः सन् चूतस्याधो जगाविति // 54 // अस्मिन् चूते स्थितो गर्व कुर्वन् शुकेन केनचित् / निषिद्धोऽहं पुरा श्लोक-जल्पनात् प्रेयसि ध्रुवम् // 5 // 'स्वचित्तचिन्तितो गर्व' इत्यादि ऋषिनन्दिन्यास्वगेहानयनान्तिमे।प्रोक्ते विवाहसम्बन्धेशुको मूर्छामुपागमत् वायुक्षेपादिना पुत्रो लब्धचैतन्यवैभवः / जातिस्मृत्या भवं पूर्व दृष्ट्वा जजल्प नो मनाग // 57 // उपचारेषु भूयस्सु कृतेषु भूभुजा तदा / शुकोऽजल्पद् यदा नैव तदेति मनुजा जगुः // 5 // यतः- "शशिनि खलु कलङ्क कण्टकाः पद्मनाले, उदधिजलमपेयं पण्डिते निर्धनत्वम् / ___ दयितजनवियोगो दुर्भगत्वं सुरूपे, धनपतिकृपणत्वं रत्नदोषी कृतान्तः // 1 // " द्वितीयवत्सरे लोकाभ्यर्थितो मेदनीपतिः / कौमुद्या उत्सवे बाह्य चूते पूर्ववदीयिवान् // 56 // पुत्रयुतो जगौ राजा तस्मिन्नाम्रतरौ त्वया / मयापि च न गन्तव्यं यतो मूकोऽभवत् सुतः // 6 // जल्पत्येवं नृपे कश्चिदागत्य सेवको जगौ / तस्मिन् आम्रतले साधो-रुत्पन्नं ज्ञानमव्ययम् // 61 / / राजा राज्ञीयुतस्तत्र गत्वा नत्वा मुनीश्वरम् / धर्म श्रोतुमुपाविष्टः भूरिलोकसमन्वितः // 62 / / सदशजन्म गृहिणी स्पृहणीयशीला, लीलायितं वपुषि पौरुषभूषणश्रीः। पुत्राः पवित्रचरिताः सुहृदोऽपदोषाः, स्युर्धर्मतः खलु फलानि पचेलिमानि // 1 // विरोधिता बन्धुजनेषु नित्यं, सरागता मूर्खजने प्रसङ्गः / / क्ररस्वभावः कटुवाक् सरोषा, नरस्य चिह्न नरकाऽऽगतस्य // 2 // स्वर्गच्युतानामिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति / दानप्रसङ्गो विमला च वाणी, देवार्चनं सद्गुरुसेवनं च // 3 // देशनान्ते महीपालो योजयित्वा करद्वयम् / पप्रच्छ भगवन् ! केन हेतुना वक्ति नो सुतः // 63 // ज्ञान्याचष्ट भवो ह्यष विद्यते गहनो भृशम् / पिता पुत्रो भवेत् पुत्रः पिता वा जननी पुनः // 64 // यतः-“मातापितृसहस्राणि पुत्रदारशतानि च / संसारेऽत्र व्यतीतानि कस्याऽहं कस्य बान्धवः" // 65 //