________________ 07900000 7000000000000000000000000000000000000000000 .00000000000000000000000000000000000000000 0000000000000 शत्रुञ्जय-कल्पवृत्तौ नृपोऽभाणीत सुतः स्वामिन ! जल्पन्नेव (ल्पेदेव) विधीयताम् / ततो ज्ञान्यखिलं पूर्व भवं प्रोक्त्वा जगावदः॥६६॥ स्वपूर्व भवसम्बन्धो मातापित्रादिसम्भवः / ज्ञातोऽपि ज्ञानतो जीवैश्चिन्तनीयो न चेतसि // 67 / / पुत्रपित्रादिसम्बन्धा विद्यन्ते नैकशी मिथः / नृणां स्त्रीणां भवेत्तेन सम्बन्धो नैव चिन्त्यते // 68 // यतः-"अतीतं नैव शोचन्ते भविष्यं नैव चिन्तयेत् / वर्तमानेन कालेन वर्त्तन्ते च विचक्षणाः // 66 // यत्वं चिन्तयसि स्वान्ते माता तातो प्रिये मम / अतो माता पितेत्यत्र कथं जल्पामि साम्प्रतम् // 70 // इत्यादि / ततःप्राग्भवसम्बन्धं त्यक्त्वाशेषं शुकाऽधुना / वन्दस्वाऽस्मान् पितुर्मातुर्नाम लाहि ग्रहं त्यज / / 71 // श्रुत्वेति शुक उत्थाय वन्दित्वा विधिवद् गुरुम् / लात्वा मातुः पितुर्नाम्नी ननाम चरणौ मुदा / / 72 / / ततः सम्यक्त्वमूलानि श्रावकस्य व्रतानि हि / राजा राड्यन्यलोकाश्च ललुः केवलिसन्निधौ / / 73 / / मृगध्वजो जगो में क्व वैराग्यं प्रभविष्यति ? / ज्ञान्याचष्ट यदा चन्द्र-वत्याः पुत्रं निरीक्षसे / / 74 // ततः स केवली स्वीय-चरितं गहनं तदा / प्रोक्त्वा भव्यप्रबोधाय विजहार धरातले // 7 // क्रमात्पुत्रोऽभवद्धंसनामा तस्य महीपतेः। ऋषिपुत्री सुतौ द्वौ तु वर्द्धयामास सन्ततम् // 76 / / . अन्यदा गागलिगत्वा मृगध्वजनृपान्तिके / आपृच्छय भूपतिं पुत्रीं शुकं स्वावटजेऽनयत् // 77 / / तत्र तीर्थावनकृते मुक्त्वा शुकं सुतासुतम् / सिद्धाद्रौ ऋषभं नन्तु-मचालीद् गागलिमुदा // 78 / / शुकः कुर्वन् युगादीश-पूजां सततमन्यदा / देवौकस्थां स्त्रियं वीक्ष्याणाक्षीत् त्वमागमः कुतः ? // 7 // नारी साऽऽचष्ट चम्पाया-मरिमर्दनभूपतेः / श्रीमतीगेहिनीजाता पद्मावत्यभवत् सुता / / 80 // धाच्या मात्रा च सा पाल्य-माना यौवनमासदत् / पिता विलोकमानोऽभूद्वरस्य कन्यकाकृते // 8 // पद्मावती मया सार्द्ध गवाक्षस्थां दिनोदये / वायुवेगः खगो लात्वा विमानस्थोऽम्बरेऽचलत् / / 82 // विमानात् पतिताऽत्राहं प्रासादे समुपागमम् / खेटः पद्मावतीं लात्वा क्वाप्यगात्तेन रोदिमि // 83 // ततः शुको वजन द्रष्टुं तां कन्यामाप्तवान् धुरि / ततोऽग्रे यान् नरं त्वेकं क्रन्दन्तं वीक्षते स्म सः // 4 // शुकोऽवक क्रन्द्यते कस्मात् सोऽवक पद्मावती कनीम् / लात्वा विमानमारूढो यावदत्राहमागमम् // 8 // तावदेकाऽबला यानात् पपाताऽनघबालिका / ततोऽहमपतं नष्टं विमानं च क्वचिन्मम // 86 // खगामिनी गता विद्या तेन रोदिमि साम्प्रतम् / स्त्र्यपहारो मयाऽकारि यत्ततः श्वभ्रगाम्यहम् // 87 // पापादुपरतं तं तु ज्ञात्वाऽऽनीय जिनाश्रये / नत्वा देवं खगस्त्रीयुक् स्वाश्रये शुक ईयिवान् // 8 // वानेयानप्रदानेन भोजयित्वाऽऽदराच्च तान् / शुकोऽवग् व्योमगा विद्याऽऽयाति वा विस्मृता तव // 86 // खगोऽवक् प्रथमं पद्यं समेति मम साम्प्रतम् / शुकोऽवक श्रावय त्वं तत् कर्णयोयोमगाऽधुना // 30 // खगामिनाऽऽदिमे पद्ये प्रोक्ते सति शुकस्तदा / सम्पूर्णा व्योमगां विद्या शिक्षयामास तं तदा // 61|| शुकेनापि (स्वगेनापि) खगा विद्या शुकाय प्रददे मुदा / द्वावप्यथ खगौ जातौ वायुवेगशुकावपि // 12 // शत्रुञ्जये जिनान् नत्वा गागलौ समुपागते / शुकः खगयुतश्चम्पा-नगर्यां समुपेयिवान् / / 63 // खगोऽरिमर्दनक्षोणी-पतेरग्रे जगाविति / मया पापात्मना पद्मावती तव हृता सुता / / 6 / / इत्यादि सकलं स्वीय-वृत्त तत्रागमान्तिकम् / वायुवेगो जगौ वृत्तं शुकस्य च नृपाग्रतः-॥६५॥ शुके पद्मावतीचेतो ज्ञात्वाऽरिमर्दनस्तदा / शुकाय प्रददौ चारु-महोत्सवपुरस्सरम् // 66 //