________________ शत्रुञ्जय-कल्पवृत्ती 0000000000000000 00000000000000000000000000 000930000000000000000000000000000000000000000 मृगध्वजस्य कमल-मालायाः पाणिपीडने / जाते त्वं चैतयोः पुत्रो भविष्यसि शुकामर ! // 18 // तदा ते सर्व विद्धर्म-प्राप्तिर्भवति निश्चितम् / श्रुत्वैतत् स सुरः कीररूपभृदभवत् क्षणात् // 16 // क्षितिप्रतिष्ठनगरे यावद्यातः शुकामरः / तावद् भूपः पुरोधाने चूतस्याधःस्थितो मुदा // 20 // क्षणाद्धया (स्थाः) प्रिया दृष्ट्वा सर्वा दध्याविदं हृदि / ममान्तःपुरनारीणां तुल्या नारी न विद्यते // 21 // तदा माकन्दशाखायां स्थितः सुरः शुक्रः स च / जगौ गर्वो न कर्त्तव्य उत्तमैर्मानवैरिति // 22 // यतः-'स्वचित्तचिन्तितो गर्वः कस्य नाम न विद्यते ? / उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद् भुवः // 1 // रे ! पक्षिन्नागतस्त्वं कुत इह सरसः तत् कियद्भो ! विशालं, किं मद्धाम्नोपि बाढं नहि नहि सुमहत् पाप ! मा जल्प मिथ्या / इत्थं कूपोदरस्थः शपति तटगतं ददुरो राजहंसं, नीचः स्वल्पेन गर्वीभवति विषया नापरे येन दृष्टाः // 2 // दन्ताः सप्त बलं विषाणयुगलं पुच्छं चलः कर्बुरः, कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् / अस्मिन् दुष्टवृषे वृषाग्रिमगुणग्रामानभिज्ञात्मनो, ग्रामीणस्य तथापि चेतसि चिरं धुर्येति विस्फूर्जितम् // 3 // शुकोक्तं भूप आकर्ण्य जगौ मेऽन्तःपुरं वरम् / यादृशं विद्यते तादृक शुक ! क्वापि न वीक्ष्यते // 23 // शुकोऽवग भूपते ! गर्वः क्रियते न सता क्वचित् / यतो हि विद्यते तार-तम्यं विश्वत्रयेऽपि हि // 24 // श्रीपुरनगरे वयें बभूव गागलिनृपः / स चोत्पनविरागः सन् जग्राह तापसं व्रतम् // 25 // सगर्भापि प्रिया कान्त-पृष्ठावजनि तापसी / ऋषभस्य जिनेशस्यो-पास्तिं तौ कुरुतः स्म च // 26 // वने सा तापसी पुत्री प्रसूय मूतिरोगतः / प्राय मृत्यु ततस्तातो वर्द्धयामास तां क्रमात् // 27 // यादृक् कमलमाला सा सुरूपा विद्यतेऽवला / ताहगेकापि नो ताव-कोनाऽस्ति सहचारिणी // 28 // यद्यस्ति वीक्षितु कन्यां तां वाञ्छाऽस्ति तवाधुना / तदा पृष्ठौ ममाऽऽगच्छ दर्शयामि यथाऽद्भुतम् // 26 // इत्युक्त्वा चलिते कीरे वायुवेगं तुरङ्गमम् / आरुह्य नृपतिस्तस्य पृष्ठी चचाल वेगतः // 30 // तथाऽश्वो वेगतोऽचालीद् यथा गच्छति कीरराट् / क्रमाद्ययौ महाटव्यां महीशः कीरपृष्ठितः / / 31 / / दृष्ट्वाऽऽद्याहंद्गृहं कारं गत्वा मध्ये जिनेश्वरम् / योवन्ननाम तावच्च स शुकः क्वचिदीयिवान् // 32 // ततो भूपो विशिष्टार्थ-स्तोत्रैश्चारुतरैस्तदा / तुष्टावेति जगद्वन्द्यं युगादीशं जिनाधिपम् // 33 // सुरासुरमहीनाथ-मौलिमालानतक्रम! | श्रीनाभिभूपपुत्र ! त्वं स्तवीमि शिवशर्मणे // 34 // संसारविपुलाम्भोधि-तारणैकतरीनिभ ! / दत्तानन्तसुख ! श्रीमवृषभ ! त्वं चिरं जय // 35 // श्रुत्वैतद् गागिलिस्तत्राऽऽगत्य नत्वा जिनेश्वरम् / स्वाश्रये नृपतिं नीत्वाऽभोजयत् स्वान्नदानतः // 36 // ततो गागिलिराचष्ट कन्यामेनां ममाऽधुना / परिणीय व्रज स्वच्छ ! ततो भूपो जगावदः॥३७॥ अज्ञात्वा मत्कुलं मह्य त्वं दास्यसि कनी कथम् / ऋषिः प्राह शुकेनोक्तं समेत्येति ममाश्रमे // 38 // अहं मृगध्वजं भूप-मानेष्येऽत्र ऋषे ! तु तम् / तस्मै दत्वा सुतां कुर्या भक्तिं श्रीवृषभप्रभोः // 36 // तेनोक्तस्त्त्वमगा अत्रो-द्वाहयाङ्गभवां मम / ततः कमलमालां तु परिणीय मृगध्वजः // 40 // यियासु स्वपुरी कान्तं मत्वा तापसनन्दिनी / वृषभावसथे नत्वा युगादीशं जगाविति // 41 // सामी सुणइ अतुलबल बल जाणीसि इहेव हीअडा। अभितर मइ गहिरो जइसकि नीकलि देव ! // 42 //