________________ मुक्तिनिलयनामदाने वीरसेननृपकथा 0000000000000000000000000000 0000000000000000000000000000 अधूलिकपदे देवं प्रपूज्य प्रथमं जिनम् / सङ्घ शो ददते दान-मर्थिभ्यो मुखमार्गितम् / / 45 // स्नात्रपूजाध्वजादान-मुख्यकृत्यान्यनेकशः / कृत्वा मुख्याहतश्चक्र नृपः पादुकयोः पुनः // 46 // भपः प्रदक्षिणीकृत्य राजादन्या वराक्षतैः / वीपनं व्यधाद् भूपो गीतगानपुरस्सरम् / / 47 // तदा तीर्थस्य माहात्म्यात् साधूनां कोटिपञ्चकम् / सम्प्राप्य केवलज्ञान-मलञ्चक्रऽक्षयां पुरीम् / / 48|| मुक्तिं गतान बहून् साधून निरीक्ष्यावनिनायकः / तीथस्य प्रददौ मुक्ति-निलयेत्यभिधां यदा // 46 // तदाऽन्येपि जनाः प्रोचु-रेवं तीर्थस्य तस्य तु / एतच्च मुक्तिनिलयं तीर्थ मुक्तिप्रदानतः / / 50 // एवं विस्तरतो यात्रां विधायाऽवनिनायकः / निजे पुरे समायातः प्रवेशोत्सवपूर्वकम् // 51 // वीरसेनः प्रजां न्याय-मार्गेण पालयन् सदा / चकार दानशीलादि-धर्म चतुर्विधं मुदा // 52 // तुर्ये वयसि पुत्रस्य मीनकेतोरिलापतिः / दत्त्वा राज्यं ललौ दीक्षां श्रुतसागरसन्निधौ // 53 / / कुर्वाणो गुरुणा साद्ध विहारं वीरसेनकः / ययौ विमलभूमिघ्र तीर्थे मुक्तिसुखपदे // 54 // तत्र वितन्वतो ध्यानं वीरसेनस्य सुन्दरम् / उत्पन्न केवलज्ञानं लोकालोकप्रकाशकम् / / 5 / / सर्व कर्मक्षयाद् वीर-सेनवाचंयमो मुनिः / तत्रैव निवृतिं प्राप भूरिसाधुसमन्वितः // 56 // मुनिसुन्दरसूरीशस्तपागच्छखभास्वतः / शुभशीलेन शिष्येण वृत्तिरेषा विनिर्मिता // 57 / / * इति मुक्तिनिलयनामढाने वीरसेननृपकथा * शुकभूमिपतिः शत्रु-जयेत्याहवां यथा ददौ / तथा सङक्षेपतोऽत्रैव कथ्यते मयका किल // 1 // श्रीभदिलपुरे वर्ये जितारेर्मेदिनीपतेः / हंसी च सारसी पत्न्या-वभृतां वरमानसे // 2 // स्वभावात् सरला हंसी सारसी कुटिलाशया / नरोत्पत्तिभवं कर्म हंसी बबन्ध सद्वृषात् // 3 // शत्रुञ्जये नृपो यात्रां कृत्वाऽभ्येत्य निजालये / प्रासादमर्हतः प्रौढं कारयामास सुन्दरम् / / 4 / / कृतपुण्योऽपि भूपालोऽन्यदा मृत्युक्षणे किल / प्रासादशि बरे कीर-मुपविष्टं व्यलोकत / / 5 / / शुभध्यानान्नृपो मृत्वा वने चन्द्रवराभिधे / शुकोऽजनि यतः प्रान्ते या मतिः सा गतिभवेत् / / 6 / / भतु मरणकर्त्तव्यं कृत्वा ते वल्लमे वरे / व्रतं जगृहतुस्तीत्र तपश्च चक्रतुः सदा // 7 // मृत्वा वे अपि ते देव-लोके गत्वाऽवधेर्वलात् / ज्ञात्वा निजं पति कोरं तत्रैत्येत्यूचतुः स्फुटम् // 8 // . जितारिस्त्वमभृद्राजा भदिलाह पुरे वरे / इत्यादि चरितं मृत्यु-प्रान्ते कीरपुरस्तदा // 6 // (युग्मम् ) त्वं चेदनशनं लाहि साम्प्रतं कीरभावनः / देवलोके सुरस्फार-रूपधारी भविष्यसि // 10 // गृहीत्वाऽनशनं कीर-स्तयोर्देव्योरभृत् पतिः / च्युत्वा देव्यौ ततो मर्त्य-भवं चालभतां क्रमात् // 11 // ततस्तत्र सुरावासे कीरस्य वल्लभे वरे / अभूतां पूर्वपुण्येन हृष्टोऽभूत्स सुरस्तदा // 12 // हंसी देवी च्युता वर्गात् क्षितिप्रतिष्ठपत्तने / भृगध्वजोऽभवद् भूपो रूपलावण्यसुन्दरः // 13 // सारसी स्वर्गात् च्युत्वा गागलेश्व तपस्विनः : पुत्री कमलमालेति बभूवाहतधर्मकृत् // 14 // जितारिनिर्जरोऽन्येद्यः पप्रच्छ ज्ञानि सन्निधौ / भविष्यत्यहतो धर्म-प्रोप्तिर्न वा निगद्यताम् // 15 // केवल्याहाभवद् हंसी मृगध्वजमहीपतिः / क्षितिप्रतिष्ठनगरे मरुत्पुरसहोदरे // 16 // गागलेस्तापसस्यासीत् सारस्या असुमान् पुनः / नाम्ना कमलमालेति रूपनिर्जितनिर्जरी // 17 //