________________ कृष्ण चरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धवरूपम् 10000000000000000000000.00000000000000000000000000000000000000000000000 00000000000.. चश्चत् कुङ्क मपिण्डेन निजघान हरेरुरः / काचित् कृष्णं जलक्षेपाद् व्याकुलं कुरुतेतराम् // 555|| भो देवर ! जलक्रीडां क्रियतां हरिवल्लभाः / जल्पन्तीति जलक्षेपा-न्नेमिनं व्याकुलं व्यधुः / / 556 / / गोपीनां बहुभिर्हाव-भावचिनकूणितैः / न विकारमगान् नमि-चित्तं मेरुरिवानिलैः / / 557 / / निर्गत्य जलतो गोप्यः सुमनोमुकुटादिभिः / भूपयन्त्यो हरि नेमि भूषयामासुरादरात् / / 558 // हास्यं रसं वितन्वन्त्यो गोप्यो भामादयो जगुः / भो नेमे ! कुरु कन्यायाः सङ्ग्रहं सुखहेतवे / / 556 / / पुरुषः शोभते नार्या नरेण तु नितम्बिनी / भाति भूपोऽनुगैर्भू राजन्ते सेवकाः पुनः // 560 // किं नेमे ! प्रियया रिक्तो लब्धं देहमिदं किल / विश्वबंध ! त्वमेकाकी हा ! हा ! हारयसि वृथा // 561 / / स्युः षोडश सहस्राणि स्त्रीणां भ्रातुर्ह रेस्तव / एकस्या योषितोऽपि त्वं निर्वाह किं करोषि न ? / / 562 / / जगौ जाम्वुवती भामे ! देवरोऽयं नपुसकः / विद्यते तेन न स्त्रीणां सडग्रहं कुरुते मनाग // 563 // भामाऽवग नाभिपुत्राद्या जिनाः कृतपरिग्रहाः / शिवं ययुरतः स्थान-मधिकं किं समीहसे ? // 564 / / नेमिः प्राह कनी योग्या लप्स्ये तदा वृणोमि ताम् / भामा प्रोवाच ते योग्यां कन्यामत्रानयाम्यहम्।।५६५॥ यतः-'वसन्ते विविधाः क्रीडा गोपिकागणमध्यगः / चकार निर्विकारस्तु सविकारं न मानप्तम्' / / 566 / / नेमिर्दध्यौ रुपमेपा विधाय स्थास्यति स्वयम् / तेन मौनव्रतं श्रेय इदानीं मम निश्चितम् // 567 // आत्मनो मुखदोपेण बध्यन्ते शुकसारिकाः / बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधकम् / / 568 // नेमिना विहिते मौने सत्यभामा जगावदः / पाणिग्रहमसौ मेने देवरो नेमिनायकः / / 566 / / तदा गोप्योऽखिला प्रोचु-यं जातमिदं खलु / यतोऽसौ देवरः पाणि-ग्रहणं च करिष्यते / / 570 // मया न मानितं ह्य तद् यद्ययं च वदाम्यहम् / तदैताभिः प्रजल्प्येत देवरोऽसत्यवागयम् / / 571 / / एवं मोने कृते तत्र कुमारेण जनार्दनः / नेमिनं गजमारोप्य सप्रियो गृहमाययौ // 572 / / नेमिर्मातुः पितुः पायें गत्वाऽऽचष्ट रमापतिः / कन्यापाणिग्रहोऽमानि नेमिना मद्वचश्छलात् / / 573 / / मत प्रियोदितान ...... // 574|| समुद्रविजयश्रीश-शिवाः प्रोचुर्वरां कनीम् / विलोक्य कायते पाणि-ग्रहं नेमिरयं क्षणात् / / 575 / / भामा तदा जगौ राजी मती मे भगिनी कनी / योग्याऽस्ति नेमिनो रूप-लावण्यसम्पदा स्फुटम् / / 576 / / शिवाया रुचितं ज्ञात्वा यदोग्रसेनसद्मनि / कृष्णो गतस्तदाऽमानि तेन विष्टरदानतः // 577|| कृष्णोऽवग् भवतो राजी-मती पुत्री तु विद्यते / तेन नेमिकुमारेण सहोद्वाहश्च कार्यते // 578|| उग्रसेनो जगौ गेहा-दिकं सर्व तवास्ति च / म किं प्रक्ष्यसि लक्ष्मीश ! यथारुचि विधीयताम् / / 576 / ततो नैमित्तकं सद्य कार्य कमलापतिः / श्रावणश्वेतपष्टयां तु ललो लग्नं समीपतः / / 5-0 // ततो यदुनिसतेषु मधुरैर्धवलारवैः / गापन्त्यो योषितः श्रुत्वा श्रोतु लोकाः समाययुः / 5.1 / / मुकुन्दो द्वारकापुर्या-मुद्वाहासन्नवा सरे / प्रत्यदृच प्रतिद्वारं तोरणालीमकारयत् / / 582 / / शृङ्गारितेषु सर्वेषु सजनेषु मुरारिणा / दीयते स्वनपानादीरतेभ्योऽप्यादरपूर्वकम् / / 583 // कर्पूरगन्धथल्यादि-वासितैर्वारिभिर्वरैः / स्नपयित्वा प्रभु गोप्यः प्रददुर्धवलानि तु // 584 // स्नानान्ते दिव्यवसनैः परिधाप्याऽथ नेमिनम् / गोप्यः सिंहासने वर्ये सद्यो न्यवीवश मुदा / / 585 //