________________ 222 शत्रुञ्जय-कल्पवृत्ती उग्रसेनालये गत्वा कोसुम्भी वघटिकां वराम् / राजिमत्यै ददौ कृष्णः सद्यः सम्मानपूर्वकम् / / 586 // अथ लग्नक्षणे श्वेत-वस्त्राभरणभूषितः / गोशीर्षचन्दनालिप्त-तनुः स्वामी विराजते / / 587 / / चामरैर्वीज्यमानो स्व-धृतछत्रोलसच्छिरा / नेमिरारूढवान् वर्य-रथं मन्मथसन्निभः ॥५८८||युग्मम्।। यदनों कोटिभिर्वर्य-कुमारैः सदृशै रयात् / कृष्णादिभिर्नरेन्द्र श्च नेमिः परिवृतोऽभितः // 586 // उचार्यमाणैर्धवले नृत्यद्भिर्नर्त कैजनैः / पठविन्दिभिर्वाद्य-मानेस्तूरनेकशः // 560 // दृश्यमानोऽक्षिकोटिभि-वर्ण्यमानो विचक्षणैः / वप्यमानो नारीभिः नेमिनाथः पदे पदे / / 561 / / चचाल भूमिभुगमार्गे उग्रसेननृपात्मजाम् / राजीमती लसद्रूपां परिणेतु शुभेक्षणे // 562 // त्रिभिविशेषकम् इतः स्नाता लसद्वस्त्रा वर्यभूषणभूषिता / सखीपरिवृता तस्थौ ध्यायन्ती नेमिनं हृदि // 563 // वातायनमथाऽऽरुह्य सखी राजीमती जगौ / आयान्तं नेमिनं पश्य रूपावर्जितमन्मथम् / / 564 / / तदा राजीमती वीक्ष्य नेमिमायान्तमध्वनि / अयं चेन्मे पतिर्जात-स्तदा भाग्यं महनमम् // 565 / / क्षणेन दक्षिणे नेत्रे स्फुरिते राज्यवक् तदा / दक्षिणं प्रस्फुरचक्षुः किं करिष्यति साम्प्रतम् ? // 566 / / यतः-"साहेइ विष्फुरंत इट्ठ पुरिसस्स दाहिणं नयणं / वामं कहेइ अणि? इय भणियं पुव्वपुरिसेहिं // 1 // साहेइ इट्ठ नारीण वामयं चक्खु दाहिणं कहेइ अणि8 इय० // 2 // " थूत्कारं तु सखी कृत्वा जगौ राजीमती प्रति / अशुभं ते गतं श्रेयः समेतं विद्धि साम्प्रतम् // 567 / / राजीमती जगौ भद्र-वाण्या किं जायते शुभम् ? / शर्करोच्चारतो वक्त्रे शर्करा किं प्रविक्ष्यति ? ||568 // सखी प्राहेति तदा-इक्कच्चित्र राइमई विणयावग्गंमि वण्णणिजगुणा / जीसे नमि करिस्मइ लावणनिही करगहणं / / 1 / / चन्द्रानना जगौ तदो-'रायमईए रूवं विहीं विनिम्मिय रंभरूवहरं / न करिज्जावि संजोगं हविज ता नूणमजसभरं॥ किंवा पायालकुमरो किंवा मयद्धो अह सुरिंदो / मह चेव मुत्तिमतो अह एसो पुण्ण(संदोहो)मय वरो।।२" हसित्वैका सखी जगो-एषा परिणीतात्मनो नोपलक्षिष्यति इत्यादि,। इतो नेमिः समागन्छन् पशून करुणसंरवान् / श्रुत्वा सारथीमप्राक्षी-देते के पशवो बद ? / 566 / / सारथिः प्रोक्तवान् पाणि-पीडने ते शिवाङ्गज ! / यदूनां गौरवायते परावो मेलिता यथा / / 600 / छागी छग हुडा हुडो ललायुर्गण्डकः किरिः / भल्लूकोऽपि च जम्बूको मर्कटो हरिणो हरः / / 601 // कलापो बर्हिणः काक पुटः सकृत्प्रजः पुनः / मद्गुर्वनाश्रयो घूफ-स्ताम्रचूडः सितच्छदः / 602 // चरटा खञ्जरीटश्च खञ्जरीटः सलक्षणः / क्रौञ्चः किकिदिवश्वन-वाकश्चयुटकरचुटी / / 603 / / दात्यूहश्च बकोटश्च कूररः शारिकस्तथा / पारापतः शकुन्तश्च गुञ्जनो विषसूचकः // 604 // तित्तिरं कुम्भकारश्च हारीतो मरुलस्तथा / इत्याचा पशवोऽनेके मेलिताः सन्ति साम्प्रतम् / / 605 / / स्वं स्वं मोचयितु ह्य तान् पशून प्रजल्पतः सतः / नेमिर्ज्ञात्वा जगौ सूत ! रथं वालय सत्वरम् / / 606 // तदलंबन्धुवर्मास्य स्नेहेन विषयेन मे / प्रस्थितस्य शिवागारे जीवहिंसाऽर्गला स्मृता (तेनैव पापात्मनः)॥६०७ छोटयित्वा पशून सर्वान् बन्धान सारथिपाव॑तः / नेमिः स्वस्यन्दनं सद्योऽवालपत् सूत पार्वतः / / 608|| नेमि व्यावर्तितरथं दृष्ट्वा तदा यदूत्तमः / समुद्रविजयो माता शिवा गोप्योऽखिला जगुः / / 606 / /