________________ शत्रुञ्जय-कल्पवृत्ती 11111111111110191191100210211016110000 .00000000000000 तस्मान्मुञ्च रुषं शत्रु-समागमसमुद्भवम् / तवाऽयं विद्यते भ्राता-ऽरिष्टनेमिली नयी // 527 // आकण्यतन्निजभ्रातु-लं श्रीनेमिनस्तदा / कंसारिय॑रमद् वैरि-वधारम्भाच्च तत्क्षणात् / / 528|| तदा नेमिः समागत्य तत्र संसदि केशवम् / बलभद्र ननामान्य-द्धानपि च यादवान् / / 526 / / नमन्तं नेमिनं बाल-कुमारं वीरविक्रमम् / वीक्ष्य ब्रीडावनम्रोऽभूद् भूमिं पश्यन् जनार्दनः / / 530 / / क्षणात् कृष्णो जगौ भ्रात-र्गत्वा त्वमायुधालये / शङ्खस्य वादनं बाढं व्यधात् तच्च वरं कृतम् / 531 // चक्रासिभ्रामणं चाप-ताडनं विहितं हि यत् / भवता तदपीदानीं वरं बालत्वभावतः // 532 / / कदाचिद् हस्ततश्चक्रं भ्रमत्पतति मस्तके / तदाऽकरमाद्भवत्येव मृतिर्वा तेऽङ्गभञ्जनम् / / 533 / / तेन नैवंविधा क्रीडा क्रियते बालभावतः / त्वं विज्ञोऽसि ततः शिक्षा दीयतेऽस्माभिरत्र किम् ? // 534 // शङ्खादिपूरणं क्लश-कारकं दुःखदायकम् / विद्यतेऽतो मया तेऽग्रे कथ्यते मृदुवाक पुनः / / 535 // नेमिर्जगौ त्वया कष्ण ज्येष्ठभ्रात्राऽत्र शिक्षणम् / जलप्यते तद्वरं भ्रातु-र्लबोहितकते भवेत् / / 536 / / श्रुत्वैतचकितः कष्णो द्रष्टु नेमिबलं जगौ / मया तेंडसे शयो न्यस्तः सधस्त्वं बालयाऽधुना // 537 // नेमिः सुलीलया कृष्ण-शयं कमलनालवत् / अवालयत् ततः कृष्णः प्राहेति नेमिनं प्रति // 538|| स्वस्कंधे स्वशयं बाढं स्थापय त्वं तु लीलया / वालयिष्याम्यहं श्रीश-प्रोक्त नेमिस्ततो व्यधात् / / 539 / / मुकुन्दो बालयन्नेमि-हस्तं न बलतो यदा / तदा दोषि प्रभोः शाखा-लग्नकीर इवाभवत् / / 540 // नेम्यसतरुशाखायां कष्णो हिण्डोलिते सति / हरिहिण्डोलितः ख्याति-रिति जाता तदा जने // 541 / / नेमेस्तादग् बलं दृष्ट्वा विखिन्ने केशवे सति / बलभद्रो जगौ कृष्ण ! त्वं विषादं कुरुष्व मा / / 542 // अस्मिन् नेमौ स्थितो गर्भे शिवा माता वराशया / चतुर्दश महास्वप्नान् सुखसुप्ता ददर्श सा / / 543 // तेनासौ न हि राज्यार्थी दीक्षार्थी नेमिरस्ति च / दृश्यतेऽस्य मनो नित्यं निस्पृहं शिवशर्मणि ||544 // असो नेमिकुमारन्तु द्वाविंशो जिननायकः / तीर्थ चतुर्विधं स्थाप-यिष्यति शिवशमणे / / 945 / / कृष्णेन स्वबलाव नोकनकृते बाहुं तिरोनामितं, प्रोद्दण्डं निजलीलया व्यनमयत् स्वं नालनामं तदा / यद् बाहुं नमयन्नयं पुनरभृत् पादोज्झितोर्वीतलः, शाखालम्बितकीरबत् म जयतात् त्वं विश्वविश्वाद्भुतः / / श्रुत्वैतद् बलभद्रस्य व वस्तत्र जनार्दनः / हृष्ट सन्मान्य नेमिं तु निजावासे समीयिवान् / / 547 // यतः-एवं बलोक्तमाकर्ण्य भिन्नसंशय आशये / स्वागसः क्षमयामास नेमिमालिङ्गयन हरिः // 548 / द्वास्थायुधगृहाध्यक्षा-नाकार्यादिशदच्युतः / निषेध्यो न हि कुत्राप्या गच्छन् वान् नेमिरेप हि / / 546 / शिवा वक्ति मुकुन्दस्य पुरतो नेमिनन्दनः / बोधनीयस्तथा कन्यां यथाऽङ्गीकुरुतेतगम् / / 550 // भो गोपिका ! भवन्तीभिस्तथा योधाऽङ्ग नो मम / यथाऽसौ बृणुते व.न्या-मित्याचष्ट शिवा तदा / / 551 // वत्सोद्वाह कनी माता यदाऽऽहाऽवग् तदा सुतः / कन्यां योग्यां यदा लप्स्येऽङ्गीकरिष्ये तदाऽम्ब ! ताम्।।५५२ "वत्स ! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्त श्रीशिवयाऽम्बया जिनमतोऽवादीस्त्वमेवं तदा / योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्ता मोदयदंविका गुरुतरं तत्ते गुरुत्वं गुरोः // 1 // " अन्यदा के रावो नेमि-युक्तोऽन्तःपुरसंयुतः / दीपिकायां जलक्रीडां विधातु प्राविशत्तमाम् / / 553 / / कृष्णेन प्रेषिता गोप्यो मेरुद्वाहहेतवे / जलोच्छलनदम्भेना-छोटयन् देवरं भृशम् / 554 / /