________________ कृष्ण चरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 217 0000000000000 B000000000. गुर्जरात्रस्य देशस्य भूषणे वर्द्धिकारके / विषये चाऽमिलत् सैन्यं जरासन्धमुकुन्दयोः // 444|| जरासन्धोऽथ सेनानी हरिण्यनाभभूपतिम् / विधाय गरुडव्यहं प्राववर्त्त युधे द्र तम् // 445 // कृच्छात् कृत्वा त्वनावृष्टिं सेनान्यं वरविक्रमम् / डुढौके वैरिणं हन्तुं धर्मपुत्रादियुग् हरिः // 446 / / हयानां हेषितैः साम-योनीनां च गर्जितैः / भटानां सिंहनादेन नभोऽभूद्धधिरं तदा // 447|| विभिद्य गरुडव्यहं महानेमि-धनञ्जयौ / अनावृष्टिश्च भूयिष्ठ-शत्रून यमगृहेऽनयत् // 448 / / अथ रुक्मी महानेमि शिशुपालो धनञ्जयम् / हरिण्यनाभोऽनावृष्टिं योद्धं क्रोधादचीचलन् / |449 // पण्णामपि महीशानां तेषां विशिखवर्षिणाम् / संग्रामो दारुणोऽत्यन्त-मसह्योऽभून्मिथस्तदा / / 450 // न स सादी निषादी न पदाती न रथी न च / महानेमेः शरा यत्र निपतन्ति रणाङ्गणे / / 451 // महानेमिशरैयाप्त रुक्मिणं रक्षितु नृपाः / वेणुवारिमुखाः सप्त जरासन्धाज्ञया स्थिताः // 452 // महानेमिशरैस्तेपा-मष्टानामपि सायकान् / चिच्छेद लघुहस्तत्वाज ज्योतिषीव प्रभाकरः / / 453 / / तदा यादवसुरेशै-र्मगधेशस्य भूपतेः / सङ्ग्रामे जनिरे क्र बै-बहवो बाहुशालिनः // 454 / / अवधीजयसेनं तु हरिण्यनाभभूपातः / न्यहन् हरिण्यनामं तु क्रु द्धोऽनावृष्टिभूधवः // 45 // एकोनविंशतिं सूनून जरासन्धस्य भूपतेः / रथनेमिर्यमावासं प्रेषयामास वेगतः / / 456 / / . विलोडिते निजे सेन्ये भूभुजा रथनेमिना / शिशुपालं च सेनान्यं जरासन्धो व्यधात्तदा // 457 / / रामकृष्णवधे कृत्वा प्रतिज्ञां मगधेश्वरः / शिशुपालयुतोऽचाली-न्निहन्तु रामकेशवौ // 458 // चिह्न न मुरविषि-हलिनावुपलक्ष्य च / जरासन्धो निहन्तु तौ समागात् समराङ्गणे // 456|| इतोऽष्टाविंशतिः पुत्रा जरासन्धावनिपतेः / रामेण सह युध्यन्तो-ऽलश्चक र्यममन्दिरम् // 460 // रामपुत्रान् जरासन्धो हत्वा नव निजासिना / गच्छन् भीमेन गदया निहतो न्यपत- वि / / 461 / / क्षणादुत्याय भीमं तं नथा शिरस्यताड़यत् / जरासन्धो यथा वायुपुत्रोऽवनितलेऽपतत् // 462 / / तदाऽर्जुनो जरासन्ध-मताडयत् तथा शरैः / यथा शक्नोति नो चाणं संधितु कामु के मनाम् // 463 // एकोनसप्ततिं पुत्रान जरासन्धस्य युध्यतः / अवधीद् रुक्मि गीनाथ-स्ततश्च नव सप्त च // 464|| प्रगेऽन्यदा चम सुप्त-प्रायां वीक्ष्य हरिर्जगौ / भो नेमे ! स्वं बल सुप्त किं नोशिष्ठति साम्प्रतम् ? // 465 / / नेमिः प्राह जरा विद्या मुक्ता मगधभूभुजा / तेनात्मीयं बलं सुप्त-मिवाऽरोपं विलोक्यते / / 466 // शान्तिकादिपु भूयिष्ठो-पचारेषु कृतेष्वपि / यदोत्तिष्ठति नो चक्र तदाऽऽह नेमिमच्युतः / / 467 // त्वं विज्ञोऽसि कृपावाँस्त्वं नेमे ! जल्प यथाऽधुना / यथा स्वं शिविरं सर्वं जायतेऽत्र सचेतनम् / / 468 // नेमिजगाविह क्षोणी-मध्ये पाच जिनेशितुः / बिम्बमस्त्यहिनाथाच्यं सुप्रभावं शिवप्रदम् // 469 / / उपवासत्रयप्रान्ते तुः पातालनायकः / तुभ्यं दास्यति लक्ष्मीश ! विम्यं पार्श्वजिनेशितुः 1470 / / तस्य स्नात्राम्बुना सेना-ऽभिषिक्ता निखिला लघु / उत्थास्यति यतोऽस्यास्ति प्रभावः प्रबलो भुवि / / 471 // नेम्युक्तकरणात् पार्श्व-बिम्बस्य स्नात्रवारिणा | अभिषिक्त बलं कंस-शत्रुणोत्थितमञ्जसा / / 472 // तत्र स्थाने मुकुन्देन प्रासादः कारितो महान् / तस्मिन्निवेशितं पाय-नाथबिम्ब च सूत्सवम् // 473 // स्थापयित्वा पुरं तत्र वयं शङ्ख श्वराभिधम् / अपूरयत्तथा शङ्ख कृष्णो-रोभीर्यथाऽजनि / / 474 / /