________________ श्त्रुञ्जय-कल्पवृत्तौ ...... .00000000000000000000000000000000000000000000000000000000000000000 .00000000000000000 दुकूलसञ्चयान् भूरीन् स्थाने स्थाने निरीक्ष्य तु / लोकाः प्रोचुर्जगत् सर्व-दुकूलान्येयुरन. तु // 414 / / कृष्णनामश्रुते जीवयशा एत्य पितुः पुरः / जगाद तब जामातु-र्हन्ता सम्प्रति जीवति // 415 // तेन मे विद्यते शल्यं दुःखं कुर्वन् दृढे हृदि / तत् कर्षयाऽधुना तात ! नो चेन्मृतास्म्यहं द्र तम्। 1416 // जरासन्धो जगौ सर्वे यादवाः कृष्णासंयुताः / प्रविश्याग्नौ मृति जग्मु-रतो मा त्वं कराऽसुखम् / / 417|| इतस्तत्र समागत्य वणिजोऽप्यपरे पुनः / जरासन्धनृपस्याग्रे-ऽमुश्चन् स्थालं मणीभृतम् // 418 / / सन्मान्य तान नृगोऽप्राचीन रत्नानीदृशि कुत्र नु ? / विद्यन्ते च कुतः स्थाना-दानीतानि निवेद्यताम् / / 419/ रत्नानि चन्द्रमार्तण्ड-विम्वाभानि त्विषाम्भरैः / स्कारामलकमानानि मौक्तिकानि शुभानि च / 420 // दर्शयित्वा नृपस्योचु-वणिजो विनयाश्रितम् / अपश्चिमाधितटे द्वार-वत्यस्ति नगरी वरा // 421 / / युग्मम्।। तत्र कृष्णाभिधो राजा सर्वयादवपुङ्गवः / पालयन्न्यायतो राज्यं रामं स्मारयति प्रज्ञाः / / 422 // . समुद्रविजयो राजा नवसोदरसंश्रितः / प्रीतिमान् विद्यतेऽत्यन्तं लोकेषु निखिलेष्वपि // 423 / / ईदृक्षानि मणीमुक्ता-फलानि भूरिशो नृप ! / लभ्यन्तेऽन्यानि वस्तूनि रुचिरानि बहून्यपि // 424 // स्थित्वा द्वादश वर्माणि रहोत्याऽथ पाण्डवाः / समागत्य हरेः पार्वे तिष्ठन्ति साम्प्रतं सुखम् // 425 // तत्र सन्मानिता काढं यदुभिः पाण्डुनन्दनमः / स्वं राज्यं सस्मरुश्चन्द्र चकोरा इव सन्ततम् / / 426 // दूतं दुर्योधनोपान्ते प्रेष्य राज्यं निजं स्फुटम् / पाण्डवा मार्गयामासुः स्नेहवाक्यपुरस्सरम् / / 427 // यदा दुर्योधनो राज्यं पाण्डवेभ्यो ददौ न हि / तदा ते सुभटान् भूरीन् मेलयामासुरञ्जसा / / 428 / / दुर्योधनोऽपि सन्नह्म स्वकीयं शिविरं द्र तम् / अागच्छन् विद्यते युद्ध कत्तु तैः सार्धमञ्जसा // 429 // श्रु त्वैतत्तु जरासन्धो मेलयित्वा बलं बहुम् / चचाल वेरिणं कृष्णं हन्तु राजगृहात पुरात् // 430 // तदा दुर्योधनोऽभ्येत्य जरासन्धान्तिके नगौ / हन्म्यहं पाण्डवान् याव-त्तावत्वं तिष्टतात् स्थिरम् // 431 / / ततो दुर्योधनः कुर्वन् युद्धं पाण्डुसुतैः समम् / स्वसोदरयुतो यातः परलोकं रणाङ्गणे // 432 / / अयं सम्बन्धस्तच्चरित्राद्विस्तराद् ज्ञेयः। ततो दुर्योधनं भूपं पाण्डवैर्यममन्दिरे / प्रेपितं मगधाधीशः श्रुत्वा खिन्नोऽभवद् हृदि // 433 // रुतः प्राह जरासन्धः स्वभृत्यानां पुरस्त्विति / दुर्योधनो वरो भृत्यो हतः पाण्डुतनूभवैः // 434 // अतश्चेद् हन्यते कृष्णः पाण्डुपुत्रैः सहाचिरात् / तदा मे नितिश्चित्ते भविष्यति शुभोदयात् // 43 // विचार्येत्यनुगैः साई जरासन्धो, नरेश्वरः / शिक्षयित्वा वरं दूतं मदनाह्व स्फुटारवम् / / 436 // प्रेषयामास कृष्णस्य समीपे च जगौ स च / अहमस्मि जरासन्ध-भूपदको नरेश्वर ! // 437 // युग्मम् / / जरातन्धोऽगदन्माम-कीनाऽऽस्यादिति साम्प्रतम् / जामाता मे हतः कंस-स्त्वया यत्तद्वरं न हि // 438 // पार्थस्य सारथीभूत्वा दुर्योधनः सहानुजैः / मभृत्यो गमितो मृत्यु त्वया यतद्वरं न हि !439 // जरासन्धोदितं दृत-मुखाच्छ त्वा हरिस्तदा / धिक्कृत्य तं पुनः पश्चात् प्रेषयामास वेगतः // 440 // ततो दूतो जरासन्धा-पान्ते गत्वा जगाविति / पाण्डुपुत्रै नेनैव युतः कंसरि पुर्वली // 441 // न मन्यन्ते तृणं त्वां तु साम्प्रतं चान्यभूपतीन् / ...... // 442 / / ततः क्रुद्धो जरासन्धः सजोऽभूद्रणहेतये / यावत्तावद् हरिरपि सन्नह्य प्रस्थितोऽध्वनि // 443 / /