________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 215 .00000.00 00000000000000000000000 0000000000000000000 भामौकसि गता कन्या दक्षिणं स्वशयं तदा / भीरोहस्तोव॑मायातः तस्थावुद्वाहमण्डपे // 383 // कन्यानां नवनवतेः पाणीनामुपरि स्वयम् / कृत्वा निजं शयं कन्या-ऽनलस्य परितोऽभ्रमत् / / 384 // उद्वाहादनु शाम्बेन स्वरूपे प्रकटीकृते ! भ्रकुट्या भीपितो भीर मायाः शरणं ययौ / / 385 // भामाऽपि शाम्पमालोक्य प्राह रे ! केन हि त्वकम् / अनीतोऽसि पुरीमध्ये पापिन् ! मूर्वोत्तमाऽधुना // 386 // ततो मातुः पदौ नत्वा भक्त्या शाम्बो जगाविदम् / पानीतोऽस्मि त्वयेदानी-महं सज्जनसाक्षिकम् // 387 / / सर्वासां कन्यकानां तु भीरुकस्य करग्रहम् / भवत्याऽऽकारितः सर्व-लोकमज्जनसाक्षिकम् // 388 // तया पृष्टा जनाः प्रोचुः शाम्बोऽस्माभिर्निरीक्षितः / अनेन कन्यका सर्वा परिणीता सदुत्सवम् / / 386 / / जितशत्रुपो जातः प्रद्य म्नो रुक्मिणीसुतः / सत्यभामा जगौ खिन्ना शाम्यं प्रतीदमीष्येया॥३६०॥ मायी बन्धुः पिता मायी मायिनी यस्य च प्रमः / मायी सोऽछलयकन्या-रूपो मां सहजो रिपुः॥३३१॥ जननीजनक भ्रातृ-प्रमुखा यस्य मायिनः / मायावी स भवत्पुत्रो-ऽछलयन्मां रिपूपमः // 362 // उक्त्वेति दुःखिनी भामा निःश्वस्य सुचिरं तदा / आगत्य स्वगृहे जीर्ण-मञ्चमाशिश्रियद् द्रुतम् / / 363 // वसुदेवं नमस्कृत्य शाम्बोऽवग् भ्रमता त्वया / परिणीता बहूः कन्याः मयाल्पेनानेहसा शतम् // 364|| वसुदेवोऽगदत् कन्याः स्वयंवरसमागताः / सहस्रशः तदम्बादि-दत्ता अङ्गीकृता मया // 365 // जननीं छलथित्वा त्वं मायया बन्धुसंयुतः / एकोनं च शतं कन्याः पर्यणेपी रिहागताः // 366 / क्रुद्ध पितामहं मत्वा नत्वा शाम्बो जगावदः / क्षन्तव्यं मत्कृतं सर्व-मपराधं पितस्त्वया // 397 / / ताहग विनयगर्भेण वचसा प्रीणितो भृशम् / शाम्ब पितामहस्तत्र प्रशशंस लसगिरा // 398 // यादवानां कुमारास्तु प्रद्युम्नप्रमुखा वराः / पाण्डुभूपसुतैः साई रंरम्यन्ते मुदा तदा // 399 / / इतश्च यवनद्वपाद् वणि जो रत्नकम्बलान् / विक्रीणन्तः पुरे पुर्यां द्वारवत्यां समाययुः / / 400 // सपादलक्षद्रव्येण तत्रैक रत्नकम्बलम् / विक्रीणतोऽन्यदा तेषु वणिजः शुश्रुवुध्र वम् // 401 // पुरे राजगृहे रत्न-कम्पलं ह्य ककं किल / द्विलक्ष्या लभ्यते नैव प्राप्यते स्तोक एव सः // 402 / / वणिजस्ते ततो रत्न-कम्मलान् निखिलानपि / लात्वा राजगृहे जग्मु-र्मगधादेशभूपतेः // 403 // विक्रीणन्तः क्रमात्पुर्यां जरासन्धमहीपतेः / गेहोपान्ते ययुर्यावद् वणिजस्ते च तावता // 404 // जरासन्धमहीशल-पुत्री जीवयशाः खलु / वणिजः सन्निधौ याता गृहीतु रत्नकम्बलान् // 40 // अल्पमूल्येन सा मार्ग-यन्ती जीवयशास्तदा / वणिभिर्जगदे पुण्य-वत्येवं किं प्रजल्प्यते ? // 406 // द्वारकापुरीमध्ये एते च रत्नकम्बलाः / विक्रीता द्विद्विलक्ष्या तु कथं त्वमिति मार्गय ? // 407 // अतस्तन्नगरं वयं विद्यतेऽतः पुरा ननु / ततो जीक्यशाः प्राह कुत्रास्ति सा पुरी वरा ? // 408 // वणिजो जगदुः स्फुटं पश्चिमाम्भोधिसन्निधो / विद्यते द्वारका नाम्ना पुरी स्वर्गपुरीसमा // 409 / / तत्र यादववंशीयः कृष्णो नाम महीपतिः / पपाल जनता न्याय-मार्गेण शक्रविक्रमः // 410 // समुद्र विजयो भूपो नवसोदरसं पुतः / प्रतापी विद्यतेऽन्येऽपि यादवाः कोटिसम्मिताः // 411 // हट्टवेगौ मणीनां तु राशीन कैला पसोदरान् / वीक्ष्य जैस्तय॑तेऽम्भोधि-मणिशेषोऽधुनाऽभवत् / / 412 / / स्थाने स्थाने तु कल्याण-पुञ्जाव प्रौढतरान् बहून् / स्वर्णद्वीपः किमत्रागाद् वीक्ष्येति चिन्त्यते बुधैः // 413 / /