________________ 214 शत्रुञ्जय-कल्पवृत्ती .00000000 .00000000000000000000000 काले जाम्बुवती पुत्रं शाम्बाभिधमजीजनत् / भामाऽपि जन्मतो भीरु भीरुका सुतं तदा // 353 / / अथोपायात् कनी वाँ वैदर्भी रूक्मिणीसुतः / उपयेमे तदा शाम्बः सुहरिण्यां हिमात्मजाम् / / 354 // भामाऽन्यदाऽवदद् जाम्बु-वति !शाम्बः सुतस्तव / मतमूर्नु भीरुक भीष-यति त्वया स वार्यताम् / / 355 // भामया प्रेरितः कृष्णः प्राह जाम्बुवतीं प्रति / शाम्बस्त्वत्तनयो धीष्णो भीपयत्येव भीरुकम् / / 356 // जगौ जाम्बुवती शाम्बः सौम्योऽस्ति मे सुतः सदा / विरुद्धं न मनाक कस्य कुरुते कर्हिचित् प्रिय ! // 357 / / यतः-"जो जस्स वट्टए हियए सो तं ठावेइ सुन्दरसहावं / वग्घी छावं जणणी भदौं सोमं च मन्न इ // 1 // " कृष्णोऽवक ते सुतः सौम्यो विद्यते तत् सदा प्रिये ! ।तथाऽपि क्रियते सूनोः परीक्षा तस्य साम्प्रतम् // 358 / / आभीरिरूपभृजाम्बु-वत्याऽऽभीरोऽभवद्धरिः / तौ गतौ नगरस्यान्तर्दधिविक्रयदम्भतः / 356 / / दृष्ट्वाऽऽभीरी जगौ शाम्ब इहैहि लामि ते दधि / इत्युक्त्वा त बलानीन्ये शून्यनेहान्तरे स च ||360 // तदा जाम्बुवती लक्ष्मी-पतिभ्यां प्रकटीकृते / स्वरूप चानशन्छाम्बो लजितः स्थगिताङ्गकः / / 361 / / जगौ जाम्बुवती कृष्णः सूनोः कृत्यं त्वयेक्षितम् / वरं सौम्यं सुतं सा ही मन्यते करमप्यहो // 362 // द्वितीयेऽह्नि वजन शाम्बो हस्तात्तकीलको जगौ / वृत्तं यो यस्तनं मेऽत्र वक्त्याऽऽस्येऽस्य क्षिपाम्यमुम् / / 363 श्रुत्वैतद्वचनं तस्य रुष्टः कृष्णो जगौ तदा / स्वेच्छाचरण रे शाम्ब ! मा तिष्ठाऽत्र पुरे मम // 364 // शाम्बः प्रद्युम्नतो विद्यां प्रज्ञप्तिं प्राप्य निर्ययौ / प्रद्य म्नोऽप्यदेयच्छाम्ब इव भीरुकमन्वहम् / / 365 // भामयोक्त न किं याहि प्रद्युम्नान्यत्र शाम्बवत् / प्रद्यम्नोऽवकक्क गच्छामि मातः ! सम्प्रति गद्यताम् / / 366 // सत्यभामा जगौ प्रेत-बने गच्छ त्वकं द्रुतम् / प्रद्य म्नोऽवग् वचो मात-स्तव प्रमाणमेव मे // 367 / / अहं मातः ! कदेष्यामि सत्यभामा जगौ ततः / शाम्ब हस्ते गृहीत्वाऽहं पुर्यां यदाऽऽनयाम्यहम् / / 368 / / तदा त्वया समागम्यं महोत्सव पुरस्सरम् / ततो मातुः गिरा सद्यः प्रद्युम्नोऽगात् पितु हे / 369 / / भ्रमन् देशान्तरे शाम्ब-स्तत्र प्रेतवने क्रमात् / समेत्य मिलितो भ्रातुः प्रद्युम्नस्य करन्नतिम् // 370 // इतो भामा कनीनां त्वे-कोनशतममेलयत् / भीरूद्वाह कृते कन्या-नैकामिलति सुन्दरी ||371 / / प्रज्ञप्त्या विद्यया ज्ञात्वा भामाचेतसि चिन्तितम् / प्रद्य म्नः कृतवान् शाम्यं दिव्यकन्यां च विद्यया // 372 / / जितशत्रुनृपो भूत्वा स्वयमादाय तां कनीम् / द्वारकासनिधावत्य तस्थौ भूरि परिच्छदः // 373 / / ज्ञात्वा तामागतां कन्यां जितशत्रनृपं कनीम् / भामाऽयाचत पुत्रार्थ वयरन्मानपूर्वकम् // 374 // जितशत्रुर्जगौ चेन्मत्-पुत्रीं धृत्वा करे स्यम् / भामा नयति पुर्यन्तो महोत्सव पुर रसरम् // 375 / / उद्वाहसमये त्वरयाः शयं भीरशयोपरि / चेत् कात्यसि मामे ! र तदा भीरु णोरिवमाम् / / 686 // अङ्गीकृत्य वचस्तस्य धृत्वा तो कन्यकां करे / पुरे भामां समायान्तीं दृष्ट्वत्यूचुः पुरीजनाः // 377 // भामा पुण्यवती ह्यपा पुत्रोद्वाहक्षणोऽधुना / सन्मान्य शाम्बमानपीत पुरीमध्ये विचक्षणा // 378 // प्रज्ञप्त्या विद्यया शाम्ब कन्यारूपधरं स्फुटम् / सत्यभामेक्षते हृष्टा वधूबुद्ध्या पदे पदे // 376 / / शाम्यं पुरीजना दर्श दर्श तत्र नृपाध्वनि / दध्युः किं साम्प्रतं सत्याऽऽ-नयते जाम्बुवतीभवम् // 380 // एक जना जगुः सत्य-भामयं विद्यते वरा / यत आनयते शाम्बं सपत्नीज़मपि स्फुटम् // 381 / / नात्मीयं न परं लोका उत्तमा मन्यते क्वचित् / उत्सवे तु रिपु केचि-न्मानयन्ति जनाः सदा // 382 //