________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम 213 उक्त्वेति स्यन्दनारूढां विधाय रुक्मिणी लघु / शंखमापूरयन् राजमार्गेऽचालीत् स कृष्णभूः // हत्वाऽहं रुक्मिणी यामि कृष्णो वाऽन्योऽपि रक्षतु / प्रद्य म्नो व्याहरन्नेवं ययौ पुर्या बहिः द्र तम् // 323 / / वैरिणं रुक्मिणी हृत्वा गच्छन्तं नगराद्धहिः / श्रुत्वा कृष्णोऽचलद् हन्तु प्रियां वालयितुंद्र तम् / 324 // तत्र गत्वा दृढं शाङ्ग-मास्फालयन् हरिर्जगौ / रे! मुमूर्षुः कथं पत्नी-मिमां मम हरिष्यसि ? // 325 // मुश्चमां रुक्मिणी सद्यो नो चेन्मत्तो मरिष्यसि / न ज्ञातं किं बलं माम-कीनं वैरिहरं त्वया ? // 326 / / भक्त वा तच्छिबिरं विद्यः-बलात् सद्यः स कृष्णभूः / कृष्णं निरायुधं चक्रे निर्दन्तमिव दन्तिनम् // 327 // यद्यच्छस्त्र करे कृष्णः कुरुते तच्छिरश्छिदे / तत्तद्द रे क्षिपत्येष कृष्णपुत्रोऽतूलवत् // 328 // विषण्णेऽथ हरावेत्य नारदः प्रोक्तवानिति / प्रद्य म्नोऽयं सुतस्ते यो रुक्मिण्याऽसावि दीप्तिमान् / / 329 // श्र त्वेति हरिरालिङ्गय प्रद्य म्नं प्रेमपूर्वकम् / कृत्वा पट्टभमारूढं चचाल स्वपुरं प्रति // 330 // प्रद्य म्न-रुक्मिणीयुक्तः कृष्णः कुर्वन् महोत्सवम् / दृश्यमानः पुरीलोकैः स्वीयगेहं समाययौ // 331 / / इतो दुर्योधनोप्पेत्य जगौ पुत्रकृते तव / आनीताऽत्र कनी सा तु हृता केनाऽधुना रहः // 332 / / कन्या विलोक्यमानापि यदा लब्धा न केनचित् / तदाऽतिदुःखिनश्वासन सर्वे दुर्योधनादयः / / 333 / / अथ कृष्णो जगौ कोऽस्ति यः कन्यां नयतेऽत्र हि / पानयिष्याम्यहं कन्या-मित्युक्त्वा कृष्णजोऽचलत् // 334 / तेनानीतां कनी तस्मै दीयमानां बलादपि / प्रद्युम्नो दापयामास भानवे लसदुत्सवम् // 335 // खेचराः खेचरीभूमि-चरा भूमिचरीबहूः / प्रद्य म्नाय ददुश्वारूत्सवं तत्रैत्य कन्यकाः // 336 // जोर्णमञ्चस्थितां भामां दृष्ट्वाऽप्राक्षोद्रमापतिः / किं तेऽस्ति हृदये दुःखं ? मत्यभामा ततो जगौ // 337 / / प्रद्युम्नसदृशं पुत्रं प्रापेऽहं तव पार्श्वतः / कृष्णोऽवग न त्वया दुःखं कार्य पुत्रो भविष्यति // 338 // चतुर्थतपसा तुष्टो नैगमैषी हरिं जगौ / किं ते विलोक्यते कृष्ण ! ततो हरिर्जगावदः // 339 / / तथा कुरु यथा सद्यः प्रद्युम्नस्य समः सुतः / जायते सत्यभामाया बलरूपामादिभिः // 340 // हारं दत्त्वा जगौ देवः पत्न्या देयस्त्वया ह्ययम् / भविष्यति क्रमात्पुत्रो भामाया मदनोपमः // 341 / / गतेऽय निर्जरे हार-स्वरूपं विद्यया तया / ज्ञात्वा जाम्बुवतीं भामा-तुल्यां घुम्नो ह्यकारयत् // 342 / / विद्यया प्रेरिता जाम्बु-वती कृष्णान्तिके ययौ / भामाभ्रान्त्या च तं हारं दत्वा तां बुभूजे निशि // 343 // सुस्वप्नसूचितः स्वर्गा-च्च्युतः कोऽपि सुधाशनः / चश्चत् पुण्यप्रभावेन तस्याः कुक्षाववातस्त् / / 344 / / गतायां जाम्बुवत्यां तु भामाऽगाद् भोगहेतवे / कृष्णो दध्यावियं भोग-कृतेऽगात्तत्क्षणात् पुनः // 345 // भोगेनैकेन जायेत तृप्तिः पुंसश्च न स्त्रियः / जायतेऽष्टगुगः कामो यतो नार्या नरात् किल // 346 / / यतः-'पाहारो द्विगुणः स्त्रीणां निद्रा तासां चतुर्गुणा। षड् गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः // 347 // सुवंशजो-ऽप्यकृत्यानि कुरुते प्रेरितः स्त्रिया / स्नेहलं दधि मथ्नाति पश्य मन्थानको न किम् ? // 348 // ध्यात्वेति मुञ्जमानस्य कृष्णस्य तां प्रियां पुनः / भंभामवादयद् द्य म्नो नि.शेषवलतस्तथा // 349 / / केनेयं वादिता भम्भेत्येवं संशयवान् हरिः / रत्यासक्तोऽभवचित्ते चकितो हृदये बहु / / 350 // प्रद्युम्नताडितां भम्भां ज्ञात्वा दुब्धो हरिजंगौ / भावी तव सुतोऽनय रूपो भामे ! प्रियोत्तमे ! / 351 // प्रगे जाम्बुवतीकण्ठे हारमालोक्य केशवः / प्रद्युम्ननिःकृति शंसन बाढं विस्मयमाप्तवान् // 352 //