________________ शत्रुअय-कल्पवृत्ती .000000000 000000000000001 तदद्यापि महातीर्थ श्रीमच्छङ्घ श्वराभिधम् / विनानि निजभक्तानां हन्ति ध्यानार्चनादिभिः / / 475 // अथ सन्नह्य मगध-नाथो हन्तु द्विषद्धलम् / समेत उत्थितान् शत्रून् वीक्ष्येति ध्यातवान् हृदि / / 476 / / मया दत्ता जरा ह्यषां केनाथोत्तारिता लघु / पार्श्व स्नानाम्बुनोत्तीणां ज्ञात्वा मगधभूभुजा // 477 // नभोमण्डपमातन्वन् रविमाच्छादयन समम् / जरासन्धो व्यधाराण-वृष्टिं पाथोदवत्तदा // 478 / / एकदा मगधाधीशे सम्पूर्णानुगसंयुते / कुर्वाणे सङ्गरे शत्रु-संहारकारकं भृशम् / / 476 / / इन्द्रदत्तग्थारूढो नमि-लक्षमितद्विषाम् / परितो भ्रामयामास तथा स्वं स्यन्दनं दृढम् ।।४८०॥युग्मम्।। यथा निगडसन्नद्धा इवासंस्ते द्विषोऽखिलाः / स्तम्भिता इव ते तत्र दृश्यन्ते नरनिज रैः // 481 / / निवृत्तेऽथ रणे ते तु मुत्कलाः प्रभुणा कृताः / कम्पमाना द्विपो नेमुः प्रभुपादाम्बुजद्वयम् / / 482 / / बलभद्रोऽथ शत्रुघ्नं मुशलेन रणाङ्गणे / चूर्णयन् विदधेऽकस्मात् प्रलयानेहसं तदा // 483 / / पश्चापि पाण्डवाः स्वस्त्र-शस्त्रैः शत्रून् प्रयुध्यतः / अतिथीन् विदधे प्रेत-पतेः प्राणापहारतः // 484 // जरासन्धः शये चक्र स्फुरद् वह्निकणाऽऽचितम् / लात्वा जगाद भो गोप ! मुञ्च मानं च मां श्रय / / जीवन् भद्रमवाप्नोति जीवन् पश्यति मेदिनीम् / जीवन् करोति पुण्यानि जीवन् पासि निजं पुरम् // 486 // श्रयिष्ये त्वं न मे पादौ तदा चक्रमिदं द्रुतम् / कृष्ण ! भेत्स्यति ते मौलिं पयोजनालवद् द्रुतम् / / 487 // जल्पन्तमिति मगधा-धीशं प्राह जनार्दनः / हत्वा त्वामहं समागां तु पाताऽस्मि न्यायमार्गतः // 488 // मुश्च चक्र जरासन्ध ! मा विलम्ब कुरु त्वकम् / इदं चक्र ममेदानी-मनुकूलं भविष्यति // 486 // क्रुद्धस्ततो जरासन्धो भ्रामयित्वा शिरोऽभितः / कल्पान्तानलवद् भीदं चक्र मुमोच तं प्रति / 490 // चक्र प्रदक्षिणी कत्य कृष्णस्य सुकृतोदयात् / अलञ्चक्र शयं विद्युत्-पुञ्जबद्धरणीधरम् // 461 // स्वमद्धंचक्रिणं कृष्णो जानन सुस्वप्नसूचनात् / भ्रामयित्वाऽभितःशीप (धन) ग्राहेतिं वैरिणं प्रति / / 462 / / चक्र मम शये तस्थौ तव सेन्यं हतं बहु / यद्यद्यापि श्रेय त्वं मां चक्रं मुञ्चामि नो तदा / 463 / / जरासन्धो जगौ चक्रौं ममेदं विद्यते हरे ! / तेन मे च न किमपि विघ्नमत्र करिष्यति / / 494|| कृष्ण मुक्त तदा चक्र जरासन्धस्य मस्तकम् / तथाऽछिन्दद् यथा सद्यो जरासन्धो मृतिं गतः / / 465 / / जरासन्धो हतः कंस-द्विषा चक्रेण तत्क्षणात् / जगाम नरकं तुर्य नानादुःखप्रदायकम् / 466 / / यतः-"एगो य सत्तमीए पंच य छडीइ पंचमी एगो / एगो य चउत्थीए कण्हो पुण तञ्चपुढवीए // 1 // " जीयादेष मुराराति-श्विर वा पत्रविक्रम ! / इत्युक्त्वा ववृषुर्देवाः पुष्पौघं तस्य मस्तके ||467 // इतो मगधनाथस्य सहदेवमुखा सुताः / एत्य नेमुमुरारातिं मुक्त्वा प्रामृतमद्धतम् // 46 // मुकुन्दो विनयातेषां तुष्टो राजगृहेशताम् / तेभ्यो ददौ लसन्मान-दानपूर्व तदाऽचिरात् / 466 / / पाटलाह्वां पुरीं वाँ संस्थाप्य पञ्च पाण्डवाः / स्वकारिते जिनागारे-ऽतिहि पन्नेमिनायकम् // 500 / / पुरं पञ्चासुरं पञ्च सुराः संस्थाप्य हर्पिताः / प्रासादान् कारयामासुः पञ्च कैलाससोदरान् // 501 // तेषां पार्श्वमहावीर-शान्तिनेम्यादिबोधिदान् / अस्थापयन् गुरास्ते तु भूयिष्ठकमलाव्ययात् / / 502 / / कुमारावपुरं राज-कुमाराः कमलाव्ययात् / स्थापयित्वा जिनागारे नेमिनाथमतिष्ठिपन् / 503 / / पुर्ण छत्रपतीत्याह्वां स्थापयित्वा शुभेऽहनि / नृपाश्छत्रधराः स्फारं जिनागारमकारयत् / / 504 / /