________________ शत्रुञ्जय-कल्पवृत्ती 1000000000000000000000000000000000000000000000000000000000000000000000 लक्ष्मणा च सुसीमा च गौरी पद्मावती ततः / गन्धारी चेति कृष्णस्याभूवन् यदष्ट वल्लभाः // 23 // अन्यदा रुक्मिणी स्वप्ने वलक्षवृषभस्थिते / विमाने स्वां निषण्णां तु दृष्ट्वा पत्युः पुरोऽवदत् // 236 // कृष्णोऽवक ते प्रिये ! पुत्रो भविष्यति मनोहरः / श्रुत्वेति सत्यभामायै कापि दासी न्यवेदयत् / / 237 // ईर्यया सत्यभामाऽपि गत्वा कृष्णान्तिकेऽवदत् / स्वप्नेऽदर्शि मया हस्ति-मल्लोऽथ गिरिसोदरः / / 238 / कृष्ण आचष्ट ते सू नु-रनूनवैभवक्रमः / भविष्यति लसद्र प-पराभूतमनोभवः // 23 // गर्वस्त्वया न कर्तव्यः कार्यों धर्मो जिनोदितः / श्रुत्वैतत् कापि दास्येत्य रुक्मण्याः पुरतो जगौ / 240 // सत्यभामोदितं कूटं ज्ञात्वाऽवग् रुक्मिणी तदा / कूटं कि जल्प्यते सत्यभामे ! सत्कुलया त्वया // 241 भामाऽऽचष्ट ममोक्त च कूटं भवति देवतः / ततः सूनोविवाहस्य समये समुपागते // 242 // रुक्मिक्षोणिभुगपुत्रि ! भवत्यै त्वरितं किल / भद्रीकृत्य शिरो देया वालास्तुभ्यं मया तदा // 243 / / रुक्मिण्यवग मयोक्त चेत् कूटं भवति दैवतः / भद्रीकृत्य शिरो देया वालास्तुभ्यं मया तदा // 244 // विधाय साक्षिणं ते द्व' गते स्वस्वगृहे क्रमात् / तदैव दधतु गर्भ पृथक् पृथक शुभेऽहनि / / 245 / / सुप्रद्योतं सुतं चारु-दिने प्रद्युम्ननामकम् / रुक्मिणी सुषुवे सत्य-मामाथ भानुसंज्ञकम् // 246 // पूर्ववैरात् सुरो धूम-केतुश्छन्नं दिनात्यये / रुक्मिणीपुत्रमादाया-मुचद् वैताट्यपर्वते ॥२४७॥युग्मम्।। गते तस्मिन् सुरे काल-संवराभिधखेचरः / लात्वा कनकमालायै पत्न्यै दत्त्वा जगावदः // 248|| त्वयोच्यं सर्वलोकानां पुर एव स्फुटाक्षरम् / मयाऽसावि सुतो गूढगर्भयाऽद्य शुभेऽहनि / / 246 | जल्पन्तीति पतिप्रोक्तं लोकानां पुरतस्तदा / पपाल तं सुतं स्तन्य-पानदानात् प्रमोदिता / / 250 // प्रद्युम्नाह्वां धरन् पुत्रः पोष्यमाणो दिने दिने / मातापित्रोदी मोदं वारिधेरिव चन्द्रमाः / / 251 / / इतोऽकस्माद् हृतं पुत्रं विज्ञाय रुक्मिणी हृदि / दुःखिताऽभूद् भृशं शश्वत् रुदन्ती करुणं स्वरम् / .252 / तदैत्य कृष्ण आचष्ट शोको नैव विधीयते / पूर्वार्जिताघपुण्यानां वियोगो न हि जायते / / 253 / / यतः-"यदुपात्तमन्यजन्मनि शुभमशुभं कर्मपरिणत्या / तच्छक्यमन्यथा नैव कत्त देवाऽसुरैरपि // 254 // आरोहतु गिरिशिखरं समुद्रमुल्लङ्घन्य योतु पातालम् / विधिलिखिताऽतरमालं फलति कपालं न भूपालम् // 255/ श्रुत्वैतद् रुक्मिणी पुत्र-वियोगसम्भवं तदा / दुःखं त्यक्त्वा सदा धम्म चकार जिनवरोदितम् / / 256 / / इतः सीमन्धरोपान्ते प्रद्युम्नस्य गतं भवम् / निशम्य नारदोऽभ्येत्य कृष्णस्य सन्निधौ जगी / / 257 / / रुक्मिण्या प्राग्भवे ह्य क-मण्डं प्रलिप्य कु'कुमैः / दुःखिनी चटिकां चक्रे षोडशप्रहरावधि // 25 // तेन षोडशवर्षान्ते रुक्मिण्या नन्दनोऽनघः / मिलिष्यत्यन्यथा नैव प्राक् कृतं कर्म जायते / / 256 / / यतः- "हसंतो हेलया कर्म ते कुर्वन्ति प्रमादिनः / जन्मान्तरशतैरेते शोचन्तेऽनुभवन्ति तत् // 1 // " इतो निःशेषशास्त्रार्थ-विदुरं मदनोपमम् / प्रद्युम्नं वीक्ष्य रागान्धा ऽभवत् खगप्रिया भृशम् / / 260 // प्रद्युम्नेन समं भोगं वाञ्छन्त्यवक खगप्रिया / तापं स्मरोद्भवं मे त्वं रतदानाद् दयां कुरु // 261 / / श्रत्वेति जननीवाणी विस्मितः कृष्ण सूर्जगौ / इदं दुर्गतिदं प्रोक्त वचः किं जननि ! त्वया // 262 // यतः- "अप्पउं धूलिहिं मेलिउं सयणह दीधउ छार / पगि पगि माथा ढाकणु जिणि जोइ परनारि // 1 अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि / सुकर्तव्यं तु कर्त्तव्यं प्राणैः कण्ठगतैरपि ||2||"