________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बन्धम्वरूपम् 211 000000000000000000000000000000000000000000000000 ततः कनकमालाऽवग नाहं ते जननी निजा / किन्तु त्वं कानने प्राप्तः पालितोऽत्र मयाऽधुना // 263 // जगञ्जयकर विद्य गौरीप्रज्ञप्तिकाभिधे / गृहाणाऽनुगृहाण त्वं भोगदानात् कृपाऽऽकर ! / / 264 // अकृत्यं न करिष्येऽह-मिति ध्यात्वाऽऽह कुष्णसः / मातः ! प्रयच्छ मे विद्य प्रमाणं वचनं तव // 265 // विद्य तयोदिते प्राप्य साधयित्वा स कृष्णसूः / याचमानां हृदं तां च त्यक्त्वाऽगान् नगराद् बहिः / / 266 / तदा दत्त्वा नखैः स्वागं तया कलकले कृते / उदायुधा रिपु हातु तत्रैयुस्तत्सुतास्तदा // 267 // मातुः पराभवकरं नरं ज्ञात्वाऽथ तत्सुताः / कुपिता बहिरुद्याने प्रद्युम्नं हन्तुमागमन् / / 268 // आयान्तस्ते हता विद्या-बलेन हरिसू नुना / तथा यथाऽगमन् रक्त वमन्तः स्वीयमन्दिरे // 26 // ताडितान् तत् सुतान् वीक्ष्य क्र द्धः संवरखेचरः / ययौ कृष्णसुतं हन्तु सर्वानुगसमन्वितः / 270 // प्रद्युम्नः संवरं खेटं बलिष्ठमपि लीलया / जित्योद्याने स्थितो यावन् नारदस्तावदागमत् / / 271 / / प्रद्युम्नो नारदं नत्वो-पविश्य यावदग्रतः / तारद् ऋषिजंगौ कृष्ण-रुक्मिण्योर्नन्दनोऽसि भोः ! // 272 / / केशदानादिसम्बन्धस्तव भानोश्च जन्मनि / रुक्मिणीसत्यभामाभ्यां कृतोऽस्ति कृष्णनन्दन ! // 273!! यदि त्वं नाधुना तत्र गत्वाऽम्बां श्राग प्रमोदय / तदा वालप्रदानेन मृत्युर्मातुर्भविष्यति // 274 // प्रज्ञप्त्या विद्यया वय-विमाने रचिते तदा / उपविश्याऽचलत् कृष्ण-सूनुन रदसंयुतः // 27 // पश्यन् पदे पदे ग्राम-नगराणि बहून्यपि / द्वारकानगरीपाचे कानने समुपागमत् // 276|| तदोत्तरकुरुभागे कन्यां दुर्योधनो नृपः / दातु भानुकुमाराया गत्याऽस्थात् स्वीयपत्तनात् / / 277|| विवाह्यां कन्यको हत्या प्रद्युम्नो नारदान्तिके / बहिर्यानेऽमुचद् विद्या-बलाददृश्यरूपभृत् // 278 // कृष्णोद्यानं ततश्चक्रे फलपुष्पच्छुतं स च / अशोषयञ्च पानीय-स्थानान्यखिलान्यपि // 276 / / यज्ञयात्राश्चमातङ्ग-गवां भक्षणहेतवे / यस्तृणोघः कृतस्तं चा-ऽदृश्यी चक्रे स कृष्णभूः // 280 // विद्यया साथयो भूत्वा प्रद्युम्नो वाहयन् हयम् / दृष्टो भानुकुमारेण ततस्तत्रागमत् स च // 28 // लातु मूल्यात् हयं भानु-र्वाहयन पातितो भुवि / प्रद्युम्न विद्यया सर्व-हस्यमानः पुरीं ययौ // 282 / / प्रद्युम्नः प्रपठन वेदं गच्छन् वाडववेपभृत् / भामायाः कुब्जिकां दासी सरला विदघेतराम् / / 283 / / दासीपाश्य तु भोज्यं समया विप्रोऽर्थयन बहु / दास्या स्वस्त्रामिनी पार्वे नीतोऽन्यासि तयाऽऽपने // 284 / भामाऽवग द्विज ! रुक्मिण्याः कुरु मां रूपोऽधिकाम् / विप्रोऽवक् प्रथमं शीर्ष रूपार्थं मुण्डयाऽधुना / / 285 वित्रोक्ता कर्यरूपार्थ सत्यभामाऽतिहर्पिता / आकार्य नापितं शीर्ष मुण्डयामास वेगतः // 286 / / जीर्णाम्बरधरा चक्षु-रञ्जयित्वैककं च सा / वषट् स्वाहेति वर्णाली जल्पन्त्यस्थात् सुरीपुरः // 28 // चेटीविश्राणितं भोज्यं भुञ्जानो वाडवो बहुम् / न तृप्तोऽभूधदा दासी तदेति प्राह तं प्रति // 28 // भक्षितं निखिलं भोज्य त्वयाऽद्य तिष्ठ साम्प्रतम् / उत्थाय स द्विजः प्राहा-न्यत्र भोज्याय गम्यते // 286 // सवालो मुनिवेषोऽथ यदाऽगात् रुक्मिणीगृहे / तदर्शनात्तदा तस्या चिशे श्वासोऽभवत्तराम् / / 260 // रुक्मिणी विष्टरं यावन्नानिनाय गृहान्तरात् / तावत् कृष्णासने दृष्ट्वो-पविष्ट तं जगाविति // 261 // हरिं वा हरिजातं वा विनाऽस्मिन् हरिविष्टरे / अन्यं नरं समासीनं सहन्ते न हि देवताः // 262 // मुनिः प्राह सुरा मां न विघ्नेयुस्तपोबलात् / षोडशाब्दतपोन्तेऽहं पारणार्थमिहागमम् // 263 //