________________ 208 शत्रुञ्चय-कल्पवृतौ 00000000... देशानुल्लङ्घयन् भूरीन् मध्ये विन्ध्याचले क्रमात् / समुद्रविजयस्तस्थौ विश्रामार्थ कुटुम्बयुग // 174 // इतः समुद्रविजय-प्रोक्त सोमकवक्त्रतः / श्रुत्वा हन्तुं रिपू स्ताँश्च जरासन्धोऽचलत् क्षणात् // 175 / / कालकोऽथ सुतोऽभ्येत्य नत्वा तातं जगावदः / निहन्तु कीटिकां स्वामि-न्तुद्यमस्ते न युज्यते // 176 // त्वं तिष्ठाऽत्र रिपून हन्तु-मादेशं देहि मेऽधुना / स्वामर्त्य-बिलादिस्थान् हनिष्याम्ये कहेलया / 177 // हत्वा कंसं नृपं यच्च मेलितं पातकं किल / प्रायश्चितं प्रदास्यामि तस्य तेषां द्विषामहम् / / 178 // यतः-अत्युग्रपुण्य-पापाना-मिहेव फलमाप्यते / त्रिभिर्वस्त्रिभिर्मासै-स्त्रिभिः पक्षस्त्रिभिर्दिनैः // 17 // जठराग्निः पचत्यन्नं फलं कालेन पच्यते / कुमन्त्रैः पच्यते गजा पापी पापेन पच्यते // 180 / / राज्ञां सप्तशतीयुक्तो भूरीभाश्वभटान्वितः / कालकः प्राप्य ताताज्ञां हन्तु तान् विद्विषोऽचलत् / 181 / जरासन्धसुते काल-कुमारे समुपेयुपि / कृतान्त इव रामस्य कृष्णस्य रक्षका सुरी // 182 // एकद्वाराश्रि(चि)ता बह्वी-ज्वलन्ती वह्निना भृशं / कृत्योपान्ते स्थिता वृद्ध-रूपा रोति कृपास्वरम्।।१८३युग्मम् कालस्तत्रागतोऽप्राक्षीद् भो रोदिषि किं त्वकम् ? / सा प्राहाऽस्ति जरासन्धो नृपस्त्रिखण्डभूमिभुम् // 184 / / जरासन्धनृपाद् भीताः समुद्रविजयादयः / यादवा बलकष्णाभ्यां युक्ता नेशः स्वदेशतः // 185 // मार्गे ते यादवाः सर्वे चलन्तस्त्वरित क्रमात् / अत्रायातां नृणामास्यात् शुश्रुषुस्त्विति सादरम् // 186 // हन्तव्याः यादवाः सर्वे यत्र तत्र गता मया / प्रतिज्ञामिति कत्वा स कालकः सबलोऽचलत् / 187|| श्रुत्वेति यादवाः सर्वे वारिता मयका बहु / चितास्त्राशु प्रविष्टास्ते मृत्युहेतोः कृतत्वराः // 18 // तेषां वियोगतोऽत्राहं दुःखिता मानसे भृशम् / रोदिम्युच्चैःस्वरं नाभू-द्रक्षिता कोऽपि निर्जरः // 18 // स्वां प्रतिज्ञां स्मरन् काल-कुमारो यादवाँस्तदा / कर्षितु ज्वलने सद्यः प्रविष्टो मूढमानसः // 160 / / अपरे बहवः काल-कुमारस्यानुगास्तदा / प्रविष्टाः स्वामिनः पृष्ठे स्वामिभक्ताः कृतत्वराः // 161 / / यत:-'क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते / अनुकूलः शुचिर्दक्षः स्वामिन्! भृत्योऽपि दुर्लभः / / 162 / / प्रविश्य यादवा वह्नौ मृता विन्ध्याचलान्तिके / तत्पृष्ठ कालको गत्वा मरणं समुपागमत् / 163 // आकण्यतज्जरासन्धो हर्षशोकभयाकुलः / भूत्वा दध्यौ मृतः काल-कुमारो न हि तद्. वरम् / 164|| यादवानामितो यातां पश्चिमाकुभि द्र तम | अब्धेः कूले सुतौ सत्य-भामाऽमूत वरेऽहनि / 165 // तयोर्जन्मोत्सवं कृत्वा यादवा भानुभामरौ / ददुर्नाम ततो देवा-नुज्जयन्तेऽचलेऽनमन् // 166 // समुद्रविजयेनोक्तः कृतस्नानो बलिहरिः / कताष्टमतपा पूजां चकार पश्चिमाम्बुधः / 167|| तृतीय निशि पाथोधि-देवोऽभ्येत्य जगी हरिम् / स्मृतोऽहं भवता कस्मै हेतवे वद माधव ! // 138 / कृष्णोऽवग नगरी स्फारा कारयित्वाऽम्बुधेस्तटे / श्रावासान् विपुलान् वास-हेतोः कुरु साम्प्रतम् // 16 // द्वादशयोजनायामां नवयोजनविस्तृताम् / ररत्नवा संयुक्तां पुरी स धनदो व्यधात् / / 200 // तत्रैकद्वित्रिकादींश्च भौमान् सप्तान्तिकान् वरान् / अालयान् धनदश्चक्रे जिनचैत्याननेकशः // 201 // तस्या द्वारवतीत्याह्वां प्रददौ धनदो यदा / तदैव यादवाः सर्वे तत्र वासं व्यधुमुदा // 202 // पाञ्चजन्याभिधं शङ्ख हरायाऽदात्तदा सुरः / रामाय च सुघोषं तु रत्नमाल्याम्बराणि च / / 203 // कुबेरो हरये पीत-वाससी कौस्तुभं मणिम् / शाङ्ग चापं वरं खड्गं नन्दना प्रदतवान् // 204 //