________________ कृष्णचरिते नेमिनाथ-साम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 207 चिरं तत्र वितन्वानौ मल्लयुद्धं बलाऽच्युतौ / समुद्रविजयक्ष्माप-मुख्य भूपे समागते // 144 // मल्लाविव भुजास्फोट-परौ सिंहरवायुतौ / विराजेतांतरां तौ तु यमविग्रहसोदरौ / 145 // चाणूरं हतवान् कृष्णः सोमित्रो मुष्टिकं यदा / मृत्युभीतस्तदा कंसश्चकम्पे हृदये दृढम् // 146 / / अथ साहसमालम्ब्य भुजास्फोटं दृढं तदा / कुर्वाणः कंस प्राचष्ट बल-कृष्णौ प्रति स्फुटम् / / 147 // रे रे गोपौ गवां दुग्धं पीत्वा पीनतनू स्फुटम् / युवां स्वमरणं नैव पश्यतं मम पार्श्वतः // 14 // कृष्णः प्रोवाच भो कंस ! स्वोत्कर्ष यत् प्रजल्पसि / लभिष्यसि फलं तस्य गमनाद्यमसद्मनः // 146 // ततः कंसः समुत्थाय हन्तु कृष्णमधावत / तदा कृष्णोऽपि तं हन्तु-मुत्थितः स्फोरयद्भजाम् // 15 // मल्लक्रीडां मिथः कृष्ण-कंसयोः कुर्वतोस्तदा / देवा अपि समायाता द्रष्टुव्योम्नि क्षितौ नृपाः // 151 // तथा चण्डबलः कृष्णः कंसं जघान मर्मणि / यथा मुक्तौ मुनिः कंसो यमसद्म समीयिवान् // 152 // कंसे मृतेऽथ कारोको-मध्यानिःकाश्य तत्क्षणात् / उग्रसेननृपं राज्ये समुद्रविजयो व्यधात् / / 153 / / रामकृष्णाङ्गजौ लात्वा समुद्रविजयादयः / प्राययुः स्वपुरे सूर्य-पुरे सूत्सवपूर्वकम् // 154 // इतो जीवयशा रोदं रोदं पत्यो मृते चिरम् / जरासन्धनृयोपान्ते गता प्राहेति गद्गदम् // 155 / / वसुदेवसुताभ्यां ते जामाता दुर्दमोऽपि हि / गमितो यमगेहे तु मल्लयुद्धविधानतः // 156 / / ज्ञात्वा कंसवधोदन्तं जरासन्धो जगी सुताम् / वत्स ! मा त्वं रुदस्तेऽरीन रोदयिष्याम्यहं द्रुतम् // 157 // जरासन्धस्ततो भूपं सोमा स्वाङ्गरक्षकम् / प्रजिघायानुशिष्येति समुद्रविजयान्तिके / / 158 // समुद्र सोमको नत्वा-ऽऽवष्टे ति भूपतेः पुरः / रामकृष्णौ कुलाङ्गारौ जरासन्धोऽय याचते // 15 // एतो कंसस्य हन्तारौ रामकृष्णौ तवाङ्गजौ / अतो वध्याविमौ नूनं शूलादिक्षेपणैः स्फुटम् // 160 // स्वकीयकुलरक्षाय बलकृष्णौ बलोत्कटौ / जरासन्धान्तिके प्रेष्य कुरु राज्यं चिरं नृप ! // 161 // श्राद्यो दशार्ह आचष्ट भोः सोमक ! पतिस्तव / अर्थयन् रामकृष्णौ तु बालको लज्जते न हि // 162 / / क्रीडयाऽऽभ्यां हतः कंसः कुर्वन् मल्लरणक्रियाम् / तयोरूचं कथं कोपः क्रियते स्वामिना तव / / 163 / / समुद्रविजयप्रोक्त पश्चादागत्य सोमकः / यावजगी जरासन्ध-स्तावत् क्रुद्धोऽभवद् भृशम् // 164 / / इतः स्वनन्दिनी सत्य-भामा पूर्वानुरागिणीम् / उग्रसेनो ददौ प्रीत्या कृष्णाय लसदुत्सवम् / / 16 / / मेलयित्वा निजान् सर्वान् यादवान् यादवेश्वरः / स्वभद्रहेतवेऽप्राक्षीत् क्रोष्टिकं कुशलं तदा // 166 / / क्रोष्टिकोऽवग भवत्पुत्रौ रामकृष्णौ महाभुजौ / त्रिखण्ड भरताधीशौ भविष्यतः क्रमादिमौ // 167 / / एष नेमिकुमारस्तु भविष्यति सुभाग्यवान् / तेनेदं स्थानकं त्याज्यं भवद्भिर्हितमिच्छुभिः // 16 // अधुना तु जरासन्धाद् भवतामिह तिष्ठताम् / मया विलोक्यते विघ्नं युक्त तेनात्र न स्थितिः॥१६६।। समुद्रोऽवग् गमिष्यामो वयं कस्यां दिशि द्रुतम् / जगाद क्रोष्टिको यातं यूयं च वारुणीदिशि / / 170 // सत्यभामा सुतद्वन्द्व यत्र सूते स्म वासरे / तत्र निवेश्य नगरं स्थातव्यं सुखहेतवे // 171 / / युष्माकं तिष्ठतां तत्र भविष्यति रिपुक्षयः / वर्द्धिष्यति कुटुम्बादि सर्व राज्यं च सर्वतः // 172 / / युष्माकं गच्छतां मागे कुलाधिष्ठातृदेवता / भवन्तीरापदः सर्वा हनिष्यति न संशयः // 173 // षट्पश्चाशत् कुलः कोट्या यादवानां सहाऽन्यदा / पश्चिमी दिशमुद्दिश्या-ऽचालीघादवभूपतिः /