________________ 206 शत्रुञ्जय-कल्पवृनी .000000000000 .....0000000 "गयवसहमीहदामससिदिणयरं झयं कुम्भं / पउमसरसागर-विमाण-भवण-रयणुच्चय सिहिं च // 114 / / " तदैव कार्तिके कृष्ण द्वादश्यां त्वाष्ट्रगे विधौ / अवातरत् शिवाकुक्षौ च्युत्वाऽपराजितात् प्रभुः // 115 // नभसि श्वेतपञ्चम्यां निशीथे त्वाष्ट्रगे विधौ / शिवाऽमूत सुतं कृष्ण-देहं सच्छङ्घलाञ्छनम् / / 116 // षट्पश्चाशदिगकुमार्यः स्वस्थानादेत्य तत्र च / चक्रुनिजं निजं कृत्यं वैयावृत्त्यादिकं प्रभोः // 117|| स्वस्वस्थानात् ततोऽभ्येत्य चतुःषष्टिश्च वासवाः / मेरुशी व्यधुर्जन्मोत्सवं तस्य जिनेशितुः // 118 // "मेरु-अह-उडलोया चउदिसिरुयगाउ अट्ठ पत्तेय / चउविदिसिमझस्यगाउ पइंति छप्पन्न दिगकुमरी // ' गतासु दिक्कुमारीषु कृत्वा कार्य निजं निजम् / इन्द्र इन्द्रयुतो जन्मोत्सवं मेरौ व्यधात् प्रभोः // 120 // तासु दिक्कुमारीषु कृत्वा गतासु शकः सर्वेन्द्रसहितोऽभ्येत्य जन्मोत्सवं प्रभोः करोति स्म / इन्द्रा 10 देवलोकात् व्यन्तरेन्द्रा 32 भवनेन्द्रा 20 द्वौ चन्द्रसूर्यो एवं शक्राः // प्रातः पिता व्यधाजन्मो-त्सवं बन्दिविमोचनात् / अरिष्टनेमिरित्याह्वा-मदात् सज्जनसाक्षिकम् / / 122 // वर्धमानो जिनोऽरिष्ट-नेमिनिर्जरसेवितः / मातापित्रोरदान्मोदं स्वपराक्रमदर्शनात् // 123 / समेत्य स्वर्गतः शक्रो नित्यं श्रीनेमिनः प्रभोः / सेवां वितनुते भूरि-देवनिर्जरसंयुतः // 124 / नैमित्तिकमितोऽप्राक्षीत् कंसो मे स्यान्मृतिः कुतः / नैमितिको जगौ केशो मेपो हयः खरो रिपुः / .125 / / पूतना वृषभोऽरिष्टो दुर्दमाः दुष्टमानसाः / हनिष्यतेऽथ येनैते स ते हन्ता भविष्यति / / 126 / आरोपयिष्यति यः शाङ्ग धनुगुणं स्वलीलया / वरिष्यति च यः सत्य-भामां स त्यां हनिष्यति // 127 // अथ केशि-हयारिष्ट-मुख़्यान् नैमित्तिकोदितान् / कृष्णेन निहतान् ज्ञात्वा कंसोऽभूदाकुलो हृदि // 128 / / कंसो ज्ञातुमरिं शाङ्ग धनुः पूजापुरस्सरम् / सत्यभामां निजी जामि धनुरग्रे न्यविविशद् // 129|| कंसोऽवग् य इमं चापं गुणे चारोपयिष्पति / तस्मै दास्याम्यहं सत्य-भामा जामि सदुत्सवम् // 130 // कंसेनाऽऽकारिता भूपा भृरिशस्तत्र मण्डपे / आययुर्वरितु सत्य-भामां स्वस्वपुरात्तदा // 131 / तत्र कर्मण्यनादृष्टि-वसुदेवसुतो बलो / रथारूढोऽचलद्धीर-भूपेषु मिलितेष्वथ // 132 / / रात्रौ स गोकुले सुप्तः कृष्णं सहायिनं प्रगे / कृत्वा विनिर्ययौ यातु मथुरायां ततस्तदा // 133 / / रथस्खलनहेतु दु रथादु तीर्य माधवः / द्रुतमुन्मूलयामास तदा कमल नालवत् / / 134|| उपविश्य रथे कृष्ण प्रीत्यानावृष्टिरञ्जसा / सभायां शाङ्गकोदण्ड-रोचिष्टौ समुपाययौ // 135 / / गृह्णन् चापमनावृष्टि-रस्खलद् यदा तदा / जनोऽहासीत् समः सत्य-भामा लजामुपाययौ // 136 // तदा स कुपितः कृष्णोऽधिज्यं शाङ्ग विधाय द्राग् / कृत्वा करे टणत्कारं चक्रे तथा स लीलया // 137 // यथा कटाक्षकुसुमैः सत्य-भामाऽतिहर्षिता / अपूजयद् भुजायुग्मं कृष्णस्य देववत्तदा // 138|| कंसाहूतास्तदाऽनेके भूया एयुः स्वदेशतः / मण्डिते मल्लयुद्धे तु मल्लयुद्धदिदृक्षया // 13 // कृष्णोऽपि कौतुकी सार्धं श्रीरामेणा व्रजन् पथि / कालियाहिं जघानाशु यमुनायो हदे खलु // 140 // कृष्णोऽवधीद् गजं पद्मो-तरं रामश्च चम्पकम् / ज्ञातमेतच्च कंसेन ज्ञातौ शत्रू ततः स्वकौ ॥१४१॥पुग्मम्॥ मल्लयुद्धाङ्गणे मल्लौ चाणूर-मुष्टिकाभिधौ / भुजास्फोटं वितन्वाना-वागतौ कुञ्जराविव / / 142 / / राम-कृष्णौ कुमारौ तु कुर्वाणौ केलिमादरात् / तत्रायातौ वितन्वानौ कौतुकं भूभुजामपि // 143 //