________________ कृष्णचरिते नेमिनाथ-साम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम 205 .000000000000s... 1000000000000 यतः-"मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे / गूढं च स्वमभिप्रायं प्रकाशयति लीलया // 1 // " वारुणीपानतो यान्ति कान्तिः कीर्तिः धृतिः श्रियः / विचित्राश्चित्ररचना विलुठत्कजलादिव ||84 // तत्र भिक्षाकृते स्वीयं देवरं चातिमुक्तकम् / आगतं वीक्ष्य कंसस्य पत्नी जीवयशा जगौ ||85 / / अस्मिन् क्षणे वरं कान्तानुज ! त्वमतिमुक्तक ! | आगतोऽसि मया सार्द्ध मद्य पिब रमस्व च // 86 // जल्पन्त्येति तया कण्ठैः श्लिष्टः कसाऽनुजो जगौ / देवक्याः सप्तमो गर्भो हन्ता ते तात-कान्तयोः / / 87 / / आकण्येतद् वचो जीवयशा गतमदा क्षणात् / पत्यू रहो मुनिप्रोक्त कंसस्य पुरतो जगौ // 88 // मृत्युभीतेन कंसेन प्रीत्यै-वानकदुन्दुभिः / अथितो देवकी गर्भान् जल्पन्नेवं कृपास्वरम् / / 86 / / स्वम मेघसुरः कश्चित् प्राहेति कंस ! चेद्यदि / देवक्याः सप्तगर्भास्त्वं वर्द्धिष्यसि गृहे रहः / / 10 // तदा ते जीवितं भावि चिरं नो चेन्मरिष्यसि / अनुमेने वचस्तञ्च वसुदेवस्तदादरात् // 11 // देवक्या जनितं गर्भ कंसो नीत्वा रहस्तदा / हन्ति निःकरुणं स्फार-शिलायामुपरि स्फुटम् // 62 / / नैगमेषी तदाऽभ्येत्य रहोवृत्त्या तमर्भकम् / नीत्वाऽदात् सुलसाश्राद्धय कंसाय तत्सुतां पुनः // 63 / / मृतं वसुसुतं गत्वा स्फालयित्वा दृढाश्मनि / न्यक्षिपद् धरापीठे कंसभूपो रहोऽन्यदा // 64 // एवं एडपि तत्पुत्रान सुलसाश्राद्ध्यै सुरो ददौ / सुलसाया सुताः पञ्च मृताः कंसाय चार्पयत् / / 6 / / कंसोऽप्यास्फालयन स्फारः पाषाणोपरि निर्दयम् / अहो ! निर्दयता पुसौ विद्यते दुःखदायिनी // 66 // नाम्नाऽनीकयशोऽनन्त-सेनावजितसेनकः / निहतारिदेवयशा शत्रुसेनोऽभवत् क्रमात् / / 17 // सुलसाऽपालयत् पुत्रान् देवक्याः षडपि स्वयम् / यथा यथाऽभवन् देव-कुमाराभाः स्वरूपतः // 18 // अन्येद्य देव की सिंह-सूर्याग्निकुञ्जरध्वजान् / विमानपद्मसरसी निशीथे सप्त चैक्षत |6|| सम्प्राप्तसमये प्राप्त-दोहदा देवकी क्रमान् / नभःसिताऽष्टमीरात्रौ प्रासूत तनयं वरम् // 100 // शुभकम्मोदयात्तस्य शिशोः कंसानुयापिनाम् / नियुक्तानां ददौ निद्रां बालकाश्रितदेवता // 101 // नीत्वा शिशु करे दुन्दु-र्मोक्त तु गोकुले यदा / चचालावक तदा कारा-गृहस्थ उग्रसेनकः // 102 / / कोऽधुना मध्यरात्रौ तु गच्छति त्वरितं रहः / तदाऽऽकाशेऽभवद्वाणी दिव्येति प्रकटाक्षरम् // 103 / / वर्द्धमानो शिशुयेप कारागृहादितः किल / कर्पयित्वा भवन्तं तु सुखिनं श्राक् करिष्यति / / 104 / / नन्दपत्न्या यशोदाया दत्त्वा पुत्रं निजं तदा / गोकुलात्तत्सुतां दुन्दुः स्वीय गेहे समानयत् / / 105 / / अथ कंसानुगा बुद्धा-स्तामादाय सुतां तदा / कंसायार्पयन् दध्यौ ततः कंसो हृदि त्विति // 106 // हनिष्यति कथं ह्यषा बाला मां बलिनं नृपम् / मत्वेति छिन्ननासां तां कृत्वा कंसोऽमुचत्तदा // 107 / / कंसोऽथ ध्यातवान साधो-र्वाग् मया विहिताऽन्यथा / यतो मया हता गर्भाः सप्तापि देवकीभवाः // 108|| एवं छलात् तदा गत्वा गोकुले देवकी मुदा / स्तन्यपानादिना पुत्रं मोदयामास चेतसि // 106 // कृष्णां गत्वाद् ददौ नाम कृष्णेति नन्दगोकुली / शकुनि पूतनां कृष्णोऽवधीदादी बलादपि // 110 // ततो विभेद शकटं पादपो यमलार्जुनौ / बभञ्ज बलतः कृष्णो मातुर्मोदं ददौ ततः // 111 / / कृष्णरक्षाकृते राम दुन्दुस्तत्रामुचत्तदा / रेमाते तौ दशधनु-देही परस्परं सदा // 112 // . इतः सूये पुरे वर्ये समुद्र विजयप्रिया / चतुदेश महास्वमान् शिवाऽपश्यन्निशान्तरे / / 113 / /