________________ 204 शत्रुञ्जय-कल्पवृत्ती .000000000000 000000000000000 जरासन्धोऽन्यदा कंस-युतं यदुवरं वसुम् ! जेतु सिंहरथं सद्यो-ऽचालयत् सुबलं रिपुम् / / 54 // युधे सिंहरथो वैरी हतः कंसेन भूभुजा / ततस्तत्र जरासन्ध-भूपस्याऽऽज्ञा प्रवर्तिता // 55 / / वसुदेवः समायातः पश्चात् कंसाय भूभुजे / अदापयज जरासन्ध-पार्थाजीवयशोऽङ्गजाम् // 56 // पश्चाद्भवोद्भवाद् वैराद् जरासन्धसमीपतः / विवाहानन्तरं कंसो मथुराराज्यमाप्तवान् / / 57|| उग्रसेनं नृपं तातं स्वं मत्वा कस्यचिदाननात् / कंसश्चिक्षेप कारायां पूर्ववैरनियोगतः // 5 // भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणा क्षणध्वंसिनः, स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः क्रियास्वस्थिरा।। तत् संसारमसारमेव निखिलं बुद्ध्वाऽऽत्मपापक्षये, लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् // 56 // पितृदुःखाद् गुरूपान्ते-ऽतिमुक्तस्तत्तनूभवः / प्रव्रज्यामाददे मुक्ति-सातसन्ततिदायिनीम् // 60 // जरासन्धनृपं कंसो दशार्दा अन्धवृष्णिजाः / सेवमानास्तदा स्वं स्वं राज्यं यान्ति निरन्तरम् // 61 / / यतः-"राज्ञि धम्मिणि धम्मिष्ठाः पापे पापाः समे समाः / राजानमनुवर्त्तन्ते यथा राजा तथा प्रजा // 62 // इतः सूर्यपुरे रूपं वसुदेवस्य सुन्दरम् / पश्यन्त्यो नाबला गेहे कृत्यानि कुर्वते मनाम् // 63 // समुद्रविजयोपान्ते स्वस्वपत्नीविचेष्टिते / पौरैः प्रोक्त नृपः प्राह सर्व वयं भविष्यति / / 64 // समुद्रविजयः प्राह वसो-तुः पुरोऽन्यदा / वत्स ! ते भ्रमतः पुर्यां क्लमो देहेऽभिजायते / / 6 / / अतस्त्वया निजावासात् प्रतोल्याश्च बहिः क्वचित् / न यातव्यं विलोक्येत यद्यत्ते तच्च लास्यताम् / 66 / भ्रात्रोक्त वसुदेवोऽथ प्रतिपद्य स्थितो गृहे / यद्यद् विलोक्यते खाद्यं तत्तदाऽऽनयतेऽनुगैः // 67 / / श्रीखण्डरससम्पूर्ण रूप्यकच्चोलकं वरम् / दासीहस्ताच्छिया प्रेषीत् पत्युरन्ते तु तापहृत् / 68 // दासी हस्तात्तदाऽऽकर्ण्य कच्चोलं वसुवासवः / चान्दनेन रसेन स्वं देहं लिलिम्प बाल्यतः // 66 // तदा दासी जगौ कुर्वन्नकृत्यं चेदृशं भवान् / न्यायेन गुप्तिवद् गेहे भ्रात्राऽस्यापि किलाऽधुना // 70 / / वसुदेवस्तदा दध्यौ यद्य सोदरो व्यधात् / तदा मयाऽत्र न स्थेवं गन्तव्यं दूरतः क्वचित् / / 71 / / यदि दूरं व्रजन्तं मां ज्ञास्यते च सहोदरः / तदा यातुन दास्येत भ्रात्रा मम मनागपि / / 7 / / तेन छन्नमहं यामी-ति ध्यात्वा वसुनिर्जरः / पुर्या बहिश्चितां चक्रे रात्रौ रहसि दारुभिः // 73 / / तन्मध्ये मृतकं क्षिप्त्वा दत्वा वह्नि च गोपुरे / अक्षराणि लि.लेखेति वसुः स्वाङ्गासृजा तदा ||74 // वसुदेवश्चितामध्ये प्रविश्य मृतिमीयिवान् / तेनान्यत्र न कुत्रापि विलोक्योऽहं सहोदरः // 7 // पत्तने च पुरे ग्रामे वैशाढ्य विपुले गिरौ / खग-भूमिधवादीनां कन्यकानां सहस्रशः // 76 / / स्वकलादर्शनात् रूप-सौभाग्याभ्यां वसुः सुरः / तदीयमातृपितृभ्यां दत्ताश्च परिणीतवान् // 77 // युग्मम् // रोहणक्षोणिभुग पुज्या रोहिण्याः सत् स्वयंवरे / भूपानाकारयामास भूरीनुद्वाहहेतवे // 78|| भूयःसु भूधवेवेव वाञ्छत्सु रोहिणीं तदा / परिणोयामिलद् भ्रातु-ज्यष्ठस्य वसुनिजेरः // 7 // हलभृजन्मकथकान् सुस्वप्नाश्चतुरो निशि / निरीक्ष्याऽसावि रोहिण्या शोभने वासरेऽन्यदा // 80 // जन्मोत्सवं पिता कृत्वा सूनोः सज्जनसाक्षिकम् / बलभद्रति नामाऽदात् जनाल्हादकरं मुदा ||81 / / कंसोपरोधतोऽन्येद्यु-देवकपमापनन्दिनीम् / देवकी वसुगीर्वाणः परिणिन्ये सदुत्सवम् // 12 // तस्मिन् क्षणे जरासन्ध-पुत्री कंसस्य गेहिनी / मद्यं जीवयशाः पीत्वा ग्रहिलाऽभूत् सखीयुता / / 83 //