________________ कृष्णचरिते नेमिनाथ-साम्ब-प्रद्युम्नादि सम्बन्धस्वरूपम् 203 100000000000000000000000000000000000000000000000000000000000000001 एवं चासङ्ख्यभूपेषु जातेषु भुजशालिपु / हरिवंशेऽभवद्भपो यदुनामा लसद्धलः // 23 // यदोभूपस्य पुत्रोऽभूद् यादवोऽरिवनानलः / तस्याऽजनि सुतः सूरनामा सूरसमप्रभः // 24|| सूरस्य नन्दनौ शौरि-सुवीरौ वरविक्रमौ / अभृतां हरिवंशे तु वैरिकुम्भिभिदाहरी // 2|| सूरः सञ्जातवैराग्यः शौरि राज्ये निजे न्यधात् / युवराजपदं दत्त्वा सुवीराय व्रतं ललौ // 26 // शौरिदत्त्वा सुवीराय मथुराराज्यमञ्जसा / कुशा-विषये शौर्या भिधं पुरं न्यवेशयत् // 27 // शौरेस्त्वन्धकवृष्ण्याद्या वहवः सूनवोऽभवन् / सुवीरस्याऽभवन् पुत्रा भोजवृष्ण्यादयः पुनः // 28 // वितीर्य मथुराराज्यं सुवीरो भोजवृष्णये / सुवीराव पुरं सिन्धु-विषयेऽस्थापयद् वरम् / / 26 // शौरिरन्धकवृष्णि तु न्यस्य राज्ये निजेऽन्यदा / सुप्रतिष्ठगुरोरन्ते दीक्षां लात्वा शिवं ययौ // 30 // मथुरां रक्षतो न्यायाद् भोजवृष्णेमहीपतेः / उग्रसेनाभिधः पुत्रो-ऽजनिष्टाद्भ तविक्रमः // 31 // शौर्याभिधं पुरं पातो-ऽन्धकवृष्णेनरेशितुः / सुभद्रा गेहिनी पुत्रान् दशाऽसूत यथाक्रमम् // 32 // समुद्रविजयोऽक्षोभ्यः स्तिमितः सागरोऽपि च / हिमवानचलश्च व धरणः पूरणस्तथा // 33 // अभिचन्द्रो वसुदेवो दशार्हाख्यो दशापि ते / अन्धकवृष्णिभूपस्य दशैते नन्दनाः स्मृताः // 34 // युग्मम् / / वर्यशीला महीपाला अमी सर्वे नृपाङ्गजाः / प्रीतियुक्ता लसच्छास्त्राः पितुर्भक्तिं व्यधुस्तराम् // 3 // दशाहनां दशानां द्वे कुन्ती माद्रयभिधे वरे / सहोदयौ मियः प्रीति-परे जाते शुभाशये // 36 // समुद्रविजयं ज्येष्ठं पुत्र-मन्धकवृष्णिराट् / स्वराज्ये न्यस्य चारित्रं लात्वा प्राप शिवश्रियम् // 37 // समुद्रविजये भूपे न्यायात् पालयति क्षितिम् / सुखिनो(नी) जनता जाता रामभूमीपतेरिव // 38 // स्वयं जिनेश्वराज्ञां तु शीष यो वहते सदा / दत्त दानं सुपात्रेभ्यो जिनं पूजयति ध्रुवम् // 36 // स एव विद्विषोऽशेषान् समुद्रविजयो नृपः / आज्ञा स्वां ग्राहयामास लीलया समराङ्गणे // 40 // तस्यासीद् गेहिनी शील-गुणमाणिक्यरोहणः / शिवाभिधा मुकुन्दस्य श्रीरिवेशस्य पार्वती // 41 // मुवत्सला परीवारे भक्ता देवगुरावपि / सुकृपा सूक्ष्मजीवेऽपि निःकृपा पापहिंसने // 42 // परस्परं सदा प्रीति-परौ धर्मपरायणौ / शिवा-समुद्रविजयो समयं निन्यतुः सुखम् // 43 / / मथुरायामितो भोज-वृष्णौ प्रजिते सति / उग्रसेनोऽभवद्राजा प्रिया तस्य च धारिणी // 44 // प्राग्भवोद्भववरेण कश्चित् तापसपुङ्गवः / मृत्वाऽभूद्धारिणीकुक्षौ वासरे ह्यशुभेऽन्यदा // 45 / तस्यास्तदाऽभवद् भत-पलभक्षणदोहदः / तेन ज्ञातं तया पुत्रो भावी पत्युतिप्रदः // 46 // जातमात्रं सुतं क्षिप्त्वा कांस्यपेटां नरै रहः / यमुनायाः प्रबाहेऽम्या मोचयामास वेगतः॥४७॥ यान्ती पेटा गता सूर्य-पुरे यावत् प्रवाहतः / तावदासादिता तत्र वणिजा केनचित्तदा // 48 // तामुद्घाट्य शिशु तत्र स्थितं प्राप्य वणिग्दरः / कांस्यपेटान्तराप्तत्वात् कंस इत्यभिधां ददौ // 46 // वर्द्ध मानः क्रमात् कंसो-ऽकुट्टयत् परवालकान् / ततो दिने दिने तस्य रायो याति वणिग्गृहे / / 5 / / विज्ञाय स्वकुशलायोग्यं समुद्रविजयाय तम् / दत्त्वा वणिक ततस्तत्र कंसो वृद्धिसमीयिवान् // 51 // क्रमात कंसोऽभवद् गाढं वसुदेवस्य वल्लभः / वसुदेवो ददाति स्म सन्मानं स्वन्नदानतः / / 52 / / इतो राजगृहे न्यागी जरासन्धो महीपतिः / अभूत् त्रिखण्डभूमर्त्ता प्रतिविष्णुर्वेली क्रमात् // 53 / /