________________ 202 शत्रुञ्जय-कल्यवृत्ती .0000000000d 1000000000000000000000000000000 व्याख्या-प्रद्युम्नशाम्बप्रमुखकुमाराः साष्टिकोटियुता यत्र श्रीशत्रुञ्जये 'शिवं' मुक्तिं 'सम्प्राप्ताः' गता-जग्मुर्जयतात् तत्तीर्थं शत्रुञ्जयाभिधम् - पूर्वमादिजिनस्याभूत सुतो बाहुबलिनृपः / तस्य सोमयशाः सूनुः सोमवज्जनहर्षदः // 1 // तद्वशे येऽभवन् भूपाः सोमवंशा स्मृताश्च ते / सोमभूमीपतेः पुत्रः श्रेयांसोऽजनि भूपतिः // 2 // सार्वभूमः सूभूमश्च सुघोषो घोषवर्द्धनः / महानन्दी सुनन्दी च सर्वभद्रः शुभङ्करः // 3 // एवं क्रमादसङ्ख्येषु मुक्ति स्वर्ग गतेषु च / चन्द्र कोतिरभूद्भपः सोऽनपत्यो दिवं ययौ // 4|| कोऽस्य पट्टे महीपालः स्थाप्यते इति मन्त्रिषु / कुर्वाणेषु विचारं तु वाणीति गगनेऽभवत् // 5 // हरिवर्षाभिधात् क्षेत्राद् युगन्येको मनोहरः / अत्रैव मोक्ष्यते रोपान् वैराच्चैकेन नाकिना // 6 // अत्रान्तरे सुरः कश्चित् क्षेत्राच्च हरिवर्षतः / नीत्वा युगलिनं तत्र पुरे मुक्त्वा रहो ययौ / / 7 / ततो व्योम्नि पुनर्जाता वाणीति तत्र तत्क्षणात् / एष स्वामी भवद्भाग्य-रागतोऽत्रास्ति निश्चितम् / / 8 // ततस्तैः सचिवैः राज्येऽभिषिक्तो युगली स तु / सेव्यते सर्वसामन्त-सेवकैर्भक्तिपूर्वकम् / / 6 // .. हरिवर्षाभिधक्षेत्रा-तीर्थे श्रीशीतलेशितुः / तत्राभृद् युगली राजा हरिनामा मनोहरः // 10 // उक्त च-"सीअलजिणस्स तित्थे सुहुमो(सुमुहो) नामेण आसि महिपालो / कोसंबीनयरीए तत्थेव य वीरयकुविंद हरिऊण तस्स महिलं वणमालं नाम नरवई तत्थ / मुंजइ भोगसमिद्धिं रईए समं अणंगो व्व // 2 // अह अन्नया नरिंदो फासुयदाणं मुणिस्स दाऊण / असणिहो उववन्नो महिलासहियो य हरिवासे // 3 // कंतावियोगदुहिनो पोट्टिलमुणिस्स पायमूलम्मि / घेत्तण य पव्वज्जं कालगो सुरवरो जानो 4 // अवहिविसएण नाऊं देवो हरिवाससंभवं मिहुणं / अवहरिऊण य तुरियं चंपानयरम्मि आणेइ // 5 // हरिवाससमुप्पन्नो जेण य हरिऊण आणिो इहयं / तेणं चित्र हरिराया विक्खायो तिहुअणे जात्रो // 6" हरिवंशोऽभवत्तस्माद् हरिभूपात सुविश्रुतः / हरेः पुत्रोऽभवत् पृथ्वी पतिः प्रबलविक्रमः // 11 // ततो महाहरिराजाऽभवद् हिमहरिस्ततः / ततो वसुगिरिभूप-स्ततः सूरगिरिनृपः / / 12 / / ततो मित्रगिरिभूप-स्ततोऽभूत सुयशा नृपः / ततो रूपगिरि पस्ततो हंसगिरिनृपः // 13 / / एते त्रिखण्डभोक्तार एते सङ्घाधिपा नृपाः / हरेभूमिपतेवंशे जिनधर्मधुरन्धराः // 14 // एवं क्रमादसङ्ख्याता हरिवंशेऽभवन्नृपाः / केचिजग्मुः शिवं केचित् स्वर्गलोकं व्रतग्रहात् // 15 // इतो राजगृहे वयें हरिवंशे मनोहरे / सुमित्रोऽजनि भूपालः समानस्तेजसा रवः // 16 // पद्मादेव्यभिधा पत्नी शीलादिगुणशालिनी / धर्म जिनोदितं शश्व-चकार हर्षपूरिता // 17 // निशीथे प्राणतात स्वर्गात् पुप्यवान् निर्जरो वरः / तस्या राज्याः सुखं गर्भेऽ-वततार शुभेक्षणे // 18 // चतुर्दशमहास्वप्न-वीक्षणाद् नृपगेहिनी / हृष्टा पत्या समं जाता गर्भे तस्मिन् स्थिते तदा // 16 / / उच्चस्थाने तु सूर्यादि-मुख्य ग्रहेषु शालिषु / स्थितेषु सुषुवे पुत्रं पद्मादेवी सुखस्थिता / 20 // अनेन्द्रमहोत्सवादि मुक्तिगमनपर्यन्तं श्रीमुनिसुव्रतचरित्रं व्याख्येयं विस्तरभयान्नोक्तमत्र / मुनिसुव्रततीर्थेश-तीर्थे हरिकुलोद्भवः / सुदृढोऽजनि भूपालो जितप्रत्यर्थिभूपतिः // 21 // तस्माद्वसुमहीपाल-स्ततो वसुध्वजो नृपः / वसुकेतुस्ततो रत्न-केतू रत्नध्वजस्ततः // 22 //