________________ कृष्णचरिते नेमिनाथ-साम्ब-प्रद्यम्नादि सम्बन्धस्वरूपम् 201 B000000000000000 ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि / मुच्यते दर्शनादस्य स्पर्शनात किमुच्यते ? // 13 // तत्र शत्रुञ्जये तीर्थे गतस्य तव संयत ! / भविष्यति शिवप्राप्ति-निःशेषकर्मणां क्षयात् // 14 // श्रुत्वैतन्नेमिनो वाक्यं नन्दिषेणयतीश्वरः / भूरिसाधुयुतः सिद्ध-पर्वते समुपेयिवान् // 15 // मुख्यसालिये मूल-नाथमादिजिनेश्वरम् / नत्वा स्तुत्वाऽज्यसर्वज्ञान् ननाम स च सरिराट् // 16 // जिनं श्रीअजितं सूरिः स्तवन् शान्तिजिनेशितुः / स्वपृष्ठ वीक्ष्य चित्ते नु ध्यातवानिति तत्क्षणात् // 17|| पृष्ठिं मे ददतः शान्तेः पापं भवति निश्चितम् / अतःस्तौम्यऽजितं शान्ति युगपद् द्वौ जिनाविति // 18 // "अजियं जियसव्वभयं संतिं च पसंतसव्यगय पावं / ___ जयगुरु संति गुणकरे दोवि जिणवरे पणिवयामि ॥१॥गाहा।। ववगयमंगुलभावे तेहिं विउलतवनिम्मलसहावे / निरुवममहप्पभावे थोसामि सुदिट्ठसुभावे ॥२||गाहा।" इत्यादि गाथा 40, एवं श्रीनन्दिपेणस्या-चार्यस्य स्तवतः सतः / श्रीशान्तिमजितं सावौं युगपद् वरभावतः // 16 / / सन्मुखौ द्वौ जिनावासौ श्रीशान्त्यजितयोस्तदा / अभृतां त्वरितं प्राज्य-प्रभावौ विलसद्युती||२०||युग्मम्।। नन्दिपेणगुरुस्तत्रागतानां देहिनां पुरः / शत्रुञ्जयस्य माहात्म्यं जजल्पेति निरन्तरम् / / 21 / / प्राणिभिर्य समारूढे-र्लोकाग्रमतिदुर्लभम् / प्राप्यते स च तीर्थेशः शाश्वतोऽयं गिरिवरः // 22 / / अस्मिस्तीर्थे महापापी चन्द्रसेननरेश्वरः / समेत्यार्चा प्रभोश्चक्र तथा पुष्पैः सुगन्धिभिः // 23 // यथाऽर्जितं तमः सर्व नरकोत्पतिहेतुकम् / छित्त्वा प्राप्य गृहस्थोऽपि ज्ञानं मुक्ति समीयिवान् // 24 // कलापुर्यां नृपो भीम-नामा पापकरोऽपि हि / अत्र तीर्थे तपः कृत्वा सम्प्राप परमं पदम् // 25 // गतेषु तोर्थनाथेषु मुक्तौ तीर्थे गतेऽर्हतः / लोकानां तारकः सोऽयं श्रवणात् कीर्तनादपि // 26 // अत्रार्हतां कृता पूजा स्तुतिपुष्पाक्षतादिभिः / आसंसारं कृतं पापं प्राणिनां हि व्यपोहति // 27 // इत्यादि बहुशो धर्मो-पदेशं तत्र शृण्वताम् / भविनामभवन्मुक्ति-सातं स्वर्गसुखं पुनः // 28|| श्रीशान्तेः पुरतोऽन्येधुर्मेघवाहनभूपतिः / ध्यानं कुर्वन् शिवं प्राप सर्वपापततिक्षयात् / / 26 / / सहस्रः सप्तभिर्वाचं-यमैः सच्छरणादरैः / सहानशनमादत्ते नन्दिपेणो गुरूत्तमः // 30 // तदा तत्र महीपालाः समेत्य बहवो द्रुतम् / प्रभु प्रपूज्य विदधुः सुरैरनशनोत्सवम् / / 31 / / सर्वकर्मक्षयात् प्राप्य ज्ञानमादावनुत्तरम् / नन्दिपेणो ययौ मुक्तिं शान्तिसमान्तिके क्रमात् / / 32 / / अन्येऽपि साधवः प्राप्य ज्ञान केवलसंज्ञकम् / स्वस्त्रायुपः क्षये मुक्ति-मलञ्चकुः समीहिताः // 33 / / * इति नन्दिपेणसूरि अजितशान्तिस्तवरचन-मुक्तिगमनसम्पन्धः // अथ श्रीकृष्णचरिते नेमिनाथसम्बन्धगुम्फित-साम्बप्रद्युम्नप्रमुख-श्रीकृष्णनरकगमनस्वरूपम् / / पज्जुन्न-संवपमुहा कुमरवरा सड्ढ-अट्ठ-कोडिजुआ। जत्थ सिवं संपत्ता जयउ तयं पुंडरी तित्थं // 22 //