________________ 200 शत्रुञ्जय-कल्पवृत्ती 0000000000001 न भेतव्यं न भेतव्यं पातकेभ्यः शरीरिभिः / श्रूयतामेकवेलं श्री-सिद्धक्षेत्रगिरिकथा // 34 // वरमेकदिनं सिद्धि-क्षेत्रसर्वज्ञसेवनम् / न पुनस्तीर्थलक्षेषु भ्रमणं क्लेशभाजनम् // 35 // पदे पदे विलीयन्ते भवकोटिभवान्यपि / पापानि पुण्डरीकाद्रेर्यात्रां प्रति यियासताम् // 36 // इति सिद्धाद्रिमाहात्म्यं शृण्वन्तो बहवो जनाः। प्रपन्नाः संयमं सम्यक तदा नारदसन्निधौ // 37 // नारदो दशभिर्लक्षैः सार्धं वाचंयमैर्वरैः / शत्रुञ्जये ययौ मुक्ति-नगर्यां मासि माधवे // 38 // एवमष्टौ क्रमाद् भूरि-लक्षसाधुसमन्विताः / शत्रुञ्जये ययुमुक्ति-नगर्यां पातकक्षयात् // 36 // एतेषां चरित्राणि शास्त्रेभ्यो ज्ञेयानि,यतः-"लक्षरेकनवत्या तु मुनिभिः सह नारदाः / नवापि नितिं भेजु-स्तीर्थे शत्रुञ्जये क्रमात् // 1 // " उक्त च-"एतस्यामवसपिण्या-मित्येवं नारदाः क्रमात् / लक्ष कनवतिः प्रापुः सिद्धिं शत्रुञ्जयाचले // 1 // " इति नारदमुक्तिगमनस्वरूपम् * // अथ नन्दिपेणसूरि-अजितशान्तिस्तव-मुक्तिगमनसम्बन्धः // नेमिवयणेण जत्ता-गएण जहिं नंदिसेणजइवइणा। विहिओऽजियसंतिथओ जयउ तयं पुंडरी तित्थं // 21 // श्रीनेमिनाथस्य वचनेन यात्रागतेन नन्दिषेणयतिपतिना-नन्दिपेण सूरिणा विहित' चक्रे 'अजिशान्तिस्तवः'-द्वितीय-षोडशजिन 'स्तवः' स्तोत्रं यत्र सिद्धाचले तत्तीर्थ पुण्डरिकाभिधं जयताचिरम् / / श्री नेमीशान्तिकेऽन्येद्य -नन्दिषेणमहीपतिः / धर्म जीवदयामूलं श्रोतु भावादुपागमत् // 1 // रम्यं रूपं करणपटुताऽऽरोग्यभायुर्विशालं, कान्ता रूपविजितरतयः सूनवो भक्तिमन्तः। पट् खण्डोतिलपरिवृढत्वं यशः क्षीरशुभ्र', सोभाग्यश्रीरिलि फलमहो धर्मवृक्षस्य सर्वम् / / 2 / / चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः / तेषां पादे तदद्ध वा कर्तव्यो धर्मसंग्रहः / / 3 / / "दो चेव ज़िणवरेहिं जाइजरामरणविप्पमुक्केहिं / लोगम्मि पहा भणिया सुसमण सुसावत्रो वावि // 1 // " यात्रार्थ भोजनं येषां दानार्थं च धनार्जनं / धर्मार्थं जीवितं येषां ते नरा स्वर्गगामिनः // 4 // अनित्यं निखिलं विश्वं पुत्रपौत्रादिकं खलु / ज्ञात्वा राज्यं स्वपुत्राय नन्दिषेणनृपो ददौ // 5 // अष्टाह्निकामहः कृत्वा श्रीजिनेश्वरसबसु / नन्दिषेणनृपो दीक्षां जग्राह्यऽनघमानसः // 6 // पठन् गुर्वन्तिके शास्त्रं नन्दि-घेणयतिः क्रमात् / सर्वशास्त्राब्धिपारीणो बभूवाऽमलबुद्धिमान् // 7 // ज्ञात्वा योग्यं तदा नन्दि-षेणं नेमिजिनेश्वरः / सूरीश्वरपदं वयं-बासरे दत्तवान् किल ||8|| नन्दिषेणोऽन्यदा नेमि-पार्श्व प्राक्षीत् कृताञ्जलिः / भगवन् ! क शिवप्राप्ति-भविष्यति ममोत्तमा // 6 // नेमिः प्राहाऽस्ति सिद्धाद्रिः पुण्यस्थानं तमोपहम् / तत्र तीर्थे शिवं यान्ति जग्मुर्यास्यन्ति मानवाः // 10 // यतः-तेषां जन्मचरित्रं च जीवनं सार्थकं च ये / सिद्धक्षेत्राचलं यान्ति परेवां व्यर्थमेव तत् // 11 // चतुर्विशतयोऽनन्ताः सिद्धाः सिद्धाचलेऽहंताम् / सेत्स्यन्ति चैत्योद्धृतयस्तत् सङ्खयां वेत्ति केवली // 12 / /